
Self-Knowledge and the Allegory of the Five Elements & Senses (Karma, Association, and Rebirth)
本章先以悲痛与人伦离散开篇,继而转入形上安慰:迦叶与大自在天(湿婆)开示,世间亲属无常,唯有依止正法(dharma)与端正行持,方能成为自己的归依。并强调道德因果之律:敌意招致仇敌,友善招致朋友;如农夫播种,业(karma)必结与其相应之果。 随后叙事化为譬喻:我(Ātman)遇见五位光明的“婆罗门”,实为五大元素与诸根(眼、舌、皮、耳、鼻等感官功能)的化身。智(Jñāna)与禅定(Dhyāna)告诫:与这些苦因相结交,便会系缚而再生。然终究发生了相随与认同;自性入胎受身,哀叹迷妄与苦恼。五者则申明其在成身中的作用,并求与我为友,显示执著与认同于诸成分如何推动轮回(saṃsāra)。
Verse 1
दितिरुवाच । सत्यमुक्तं त्वया नाथ सर्वमेव न संशयः । भर्तृस्नेहं परित्यज्य गता सापत्न्यजं द्विज
底提说道:“你所言真实,主啊,关于这一切毫无疑惑。她舍弃对夫君的爱恋,已去投向由共妻所生之子,二次生者啊。”
Verse 2
अभिमानेन दुःखेन मानभंगेन सत्तम । महादुःखेन संतप्ता करिष्ये प्राणमोचनम्
噢,至善之人,我因傲慢所生之苦与名誉破碎之痛而受折磨,又被巨大的悲恸灼烧;我将结束此生。
Verse 3
कश्यप उवाच । श्रूयतामभिधास्यामि यथा शांतिर्भविष्यति । न कः कस्य भवेत्पुत्रो न माता न पिता शुभे
迦叶说道:“请听,我将宣说安宁如何得以成就。吉祥者啊,无人真正属于他人而称‘儿子’;在究竟义中,亦无‘母’与‘父’。”
Verse 4
न भ्राता बांधवः कस्य न च स्वजनबांधवाः । एवं संसारसंबंधो मायामोहसमन्वितः
兄弟于谁而言真能成为恒久的亲属?亲眷与自家之人亦非长存之系。如此,轮回(saṃsāra)之缘,纠缠于幻力(māyā)与迷妄。
Verse 5
स्वयमेव पिता देवि स्वयं माताथ बांधवाः । स्वयं स्वजनवर्गश्च स्वयं धर्मः सनातनः
女神啊,众生自为其父,自为其母与亲族;自为其亲眷之群,亦自为其永恒之法(Dharma)。
Verse 6
आचारेण नरो देवि सुखित्वमुपजायते । अनाचारेण पापेन नाशं याति तथा ध्रुवम्
女神啊,凭借正行,世人得享安乐;而以罪恶的失行,必定走向毁灭。
Verse 7
क्रूरयोनिं प्रयात्येवं नरो देवि न संशयः । कर्मणा सत्यहीनेन महापापेन मोहतः
女神啊,毫无疑问:人因迷妄造作大罪,行事失却真实,便如此堕入残酷之胎而再生。
Verse 8
रिपुत्वे वर्त्तते मर्त्यः प्राणिनां नित्यसंस्थितः । रिपवस्तस्य वर्तन्ते यत्र तत्र न संशयः
凡人若恒常以敌意处于众生之间,必定处处有仇敌;对此毫无疑问。
Verse 9
मैत्रेण वर्तते मर्त्यो यदा लोके प्रिये शुभे । तदा तस्य भवंत्येव मित्राः सर्वत्र भामिनि
吉祥可爱的女士啊,若凡人在世间以友善而行,则光辉者啊,他必定处处得友。
Verse 10
कृषिकारो यदा देवि छन्नं बीजं सुसंस्थितम् । यादृशं तु भवत्येव तादृशं फलमश्नुते
女神啊,农夫若细心覆土、安置好种子,便确实收获与所播种相应的果实。
Verse 11
तथा तव च पुत्रैश्च साधुभिः स्पर्धितं सह । कर्मणस्तस्य तत्प्राप्तं फलं भुंक्ष्व सुसंस्थितम्
同样,你与诸子及贤善之人一同竞力相争;因此,你当安住坚定,受用如今因彼业而至的果报。
Verse 12
तव पुत्रा महाभागे तपः शांति विवर्जिताः । तेन पापेन ते सर्वे पतिता वै महत्पदात्
噢大福德者,你的诸子缺乏苦行与内在寂静;因彼罪业,他们确已从崇高之位堕落。
Verse 13
एवं ज्ञात्वा शमं गच्छ मुंच दुःखं सुखं तथा । कस्य पुत्राश्च मित्राणि कस्य स्वजन बांधवाः
既知如此,当趋向内在寂静;舍离忧与乐。诸子与朋友属谁?所谓亲族眷属又属谁?
Verse 14
आत्मकर्मानुसारेण सुखं जीवंति जंतवः । परार्थे चिंतनं देवि तत्त्वज्ञानेन पंडिताः
众生随自业(业力)而得安乐而活;然则,噢女神,智者以如实知见,令其思惟趋向利他之善。
Verse 15
न कुर्वंति महात्मानो व्यर्थमेव न संशयः । पंचभूतात्मकं कायं केवलं संधिजर्जरम्
大心者不作徒劳之事,毫无疑虑;因为此身由五大所成,不过是关节渐坏的组合之架。
Verse 16
आत्ममित्रं कृतं तेन सर्वं देवि सुखाशया । आत्मा नाम महापुण्यः सर्वगः सर्वदर्शकः
噢女神,为求安乐,他于一切处以自身为友。自我(真我)实为至大功德:遍在一切,洞见万有。
Verse 17
सर्वसिद्धिस्तु सर्वात्मा सात्विकः सर्वसिद्धिदः । एवं सर्वमयो देवि भ्रमत्येको निरञ्जनः
祂实为一切成就(悉地)的圆满,一切众生之自性,具足萨埵之清净,赐予诸般圆成。故女神啊,虽祂遍满万有、即万有,唯一无垢的真实却似乎在游行。
Verse 18
भ्रमता निर्जने येन मूर्तिमंतो द्विजोत्तमाः । चत्वारो दर्शिताः पुण्या मूर्तिमंतो महौजसः
当祂在寂静荒僻之处游行时,四位至圣的婆罗门——光辉炽盛、具足形体——向祂显现:威德宏大,形相分明。
Verse 19
पंचमः श्वसनश्चैव पूर्वाणां मित्रमेव च । अथो आत्मा समायातो ज्ञानसाहाय्यमेव वा
第五者即是气息(普拉那)本身,确为前四者之友;或则,是自性之我到来,诚然作为智慧之助缘。
Verse 20
स तान्दृष्ट्वा महात्मा वै ज्ञानमात्मा समब्रवीत् । ज्ञान पश्य अमी पंच मंत्रयंतः परस्परम्
见到他们后,那位大心者对智(Jñāna)说道:“噢智啊,且看——这五者正在彼此商议。”
Verse 21
एतान्गत्वाब्रवीहि त्वं यूयं क इति पृच्छ ह । ज्ञानं वाक्यं परं श्रुत्वा सार्थं तस्य महात्मनः
你前往他们那里与之言说,问道:‘你们是谁?’既已听闻那位大心者至上的、充满智慧之语,便可(明了)其真实旨趣。
Verse 22
तदाहात्मानमाराध्यमेतैः किं ते प्रयोजनम् । तत्त्वतो ब्रूहि मे देव सदा शुद्धोसि सर्वदा
于是他说:“凭这些,你为何要礼敬你自身的真我?请如实告诉我,主啊——因为你恒常清净,永远如是。”
Verse 23
आत्मोवाच । एते पंच महाभागा रूपवंतो मनस्विनः । गत्वा संदर्शयाम्येनानाभाष्ये ज्ञान श्रूयताम्
真我说道:“这五位极其有福,形貌端严,心志坚固。我将前往把他们示给你看,并与他们开示言说。愿此教诲得以聆听。”
Verse 24
भव्यानेतान्प्रवक्ष्यामि पंचमीं गतिमागतान् । दूतत्वं गच्छ भो ज्ञान कुशलो दूतकर्मणि
“我今将宣说这些已达第五境界的高贵者。去吧,智(Jñāna)啊,承担使者之职——你善于使者之事。”
Verse 25
ज्ञानमुवाच । त्वमात्मञ्छृणु मे वाक्यं सत्यं सत्यं वदाम्यहम् । एतेषां संगतिस्तात कार्या नैव त्वया कदा
智(Jñāna)说道:“真我啊,请听我之言;我所说真实不虚,确是真实。你切莫在任何时候与他们相交相随。”
Verse 26
पंचानामपि शुद्धात्मन्न कार्यं शुभमिच्छता । भवतः संगतिं मोह इच्छत्येष महामते
清净之魂啊,求吉祥者不应追求与这五者相伴。然而此迷妄之人却渴望你的相随,噢大慧的圣者。
Verse 27
आत्मोवाच । एतेषां संगतिं ज्ञान कस्माद्वारयते भवान् । तन्मे त्वं कारणं ब्रूहि याथातथ्येन पंडित
真我说道:“贤者啊,你虽具智慧,为何阻止与这些人相交?请如实、如其本然地告诉我其中缘由,博学者啊。”
Verse 28
ज्ञानमुवाच । एतेषां संगमात्रात्तु महद्दुःखं भविष्यति । दुःखमूला हि पंचैव शोकसंतापकारकाः
智(Jñāna)说道:“仅仅与他们相交,便将生起大苦。确有五者乃苦之根本,能引发忧伤与煎灼。”
Verse 29
एवमस्तु महाप्राज्ञ करिष्ये वचनं तव । ज्ञानमाभाष्य स ह्यात्मा ध्यानेन सह संगतः
“如是,伟大的智者啊;我将遵从你的言语。”言说真知之后,那内在之我与禅定(dhyāna)相契相合。
Verse 30
कश्यप उवाच । ततः पंचैव ते तत्राद्राक्षुरात्मानमेव तम् । बुद्धिमूचुः समाहूय संगच्छात्मानमेव हि
迦叶波(Kaśyapa)说道:于是那五者在彼处所见,别无他物,唯是自身之真我。召集其觉知(buddhi),他们说道:“当唯与真我相合。”
Verse 31
दूतत्वं कुरु कल्याणि अस्माकमात्मना सह । पंचतत्त्वा महात्मानो विश्वस्यधारकाः शुभाः
“吉祥者啊,请与我们的本体同在,承担我们的使者之任。那些由五大元素所成的伟大之灵,慈善吉庆,支撑着宇宙。”
Verse 32
भवतो मैत्रमिच्छंति इत्याभाष्य महामतिम् । गत्वा बुद्धे त्वया कार्यं कर्तव्यं न इतो व्रज
他对那位智者说道:“他们渴望与你结为友伴。因此你当以明辨而行;当作之事须作——不可离开此处。”
Verse 33
एवमस्तु महाभागा करिष्ये कार्यमुत्तमम् । एवमाभाषितं तेषां गत्वाऽहात्मानमेव तम्
“愿如此,诸位贤贵;我必成就这殊胜之事。”他如此对他们说罢,便亲自前往——去到那个人那里。
Verse 34
अहं बुद्धिर्महाभाग भवंतं समुपागता । दूतत्वे महतां पार्श्वात्तेषां त्वं वचनं शृणु
我乃“觉慧”(Buddhi),大福德者,我已来到你前。作为伟大者一方的使者,请聆听他们的言语。
Verse 35
भवन्मैत्रीं समिच्छंति अक्षयां पंच आत्मकाः । कुरु मैत्रीं महाप्राज्ञ जहि ध्यानं सुदूरतः
五大元素渴求你不坏的友谊。大智者啊,当修成友善——舍离禅观,使之远去。
Verse 36
ध्यानमुवाच । न कर्तव्यं त्वया चात्मन्नैतेषां वै समागमम् । एषां संसर्गमात्रेण महुद्दुःखं भविष्यति
禅观(Dhyāna)说道:“亲爱的,你不可与他们相会。仅仅与之接触,便将生起巨大痛苦。”
Verse 37
मया ज्ञानेन हीनस्त्वं कथं कर्म करिष्यति । एवमेव न कर्तव्यं तेषां चैव समागमम्
若离却我所赐之智慧,你又怎能如法行事?因此,正应如此,切莫与彼等相交相会。
Verse 38
गर्भवासं नयिष्यंति भवंतं नान्यथा विभो । ज्ञानेनैव मया हीनो अज्ञानं यास्यसि ध्रुवम्
彼等必定引你再入胎藏之居,别无他途,噫大能者!若由我夺去智慧,你必然堕入无明。
Verse 39
एवमुक्त्वा तमात्मानं विरराम महामतिम् । ततस्तामागतां बुद्धिमात्मा प्रोवाच निश्चितः
如是对自身之我言毕,彼大智者遂默然止息。继而,自我以坚决之意,告语那已生起之觉知。
Verse 40
ज्ञानध्यानौ महात्मानौ मंत्रिणौ मम शोभनौ । तत्र यानं न मे युक्तं तद्बुद्धे किं करोम्यहम्
智慧与禅观,乃大士,亦我庄严之辅臣,皆在彼处;我不宜往彼。噫贤慧者,我当如何而行?
Verse 41
एवं श्रुत्वा ततो बुद्धिस्तेषां पार्श्वे यशस्विनी । समाचष्ट समग्रं तत्कथनं ज्ञानध्यानयोः
如是闻已,光耀之觉慧(Buddhi)立于其侧,遂将关于灵知与禅观之言说,悉皆圆满宣说。
Verse 42
ततस्ते पंचकाः सर्वे आत्मानं प्रतिजग्मिरे । मैत्रीमेव प्रतीच्छामो भवतो नित्यमेव हि
于是那五者都回归各自之所。诚然,我们所求唯有与汝为友——恒常不变。
Verse 43
यस्माच्छुद्धोसि लोकेश तस्मात्त्वां समुपागताः । स्वयमेव विचार्यैव उत्तरं नः प्रदीयताम्
因汝清净无染,噢诸世界之主,我们前来归依。愿汝自作思量之后,赐予我等答复。
Verse 44
आत्मोवाच । यूयं पंचैव संप्राप्ता मम मैत्रं समिच्छथ । स्वीयं गुणं प्रभावं च कथयंतु ममाग्रतः
真我说道:“汝等五者确已到来,欲求与我为友。今在我前,陈说汝等自身之德与各自殊胜之力。”
Verse 45
भूमिरुवाच । सर्वकार्यस्य संस्थानं चर्ममांससमन्वितम् । अस्थिमूलदृढत्वं मे नखलोमसमन्वितम्
大地女神(Bhūmi)说道:“我为一切作为之基体,具皮与肉;我之坚固根于骨,亦具爪甲与毛发。”
Verse 46
प्रभावो हि महाप्राज्ञ कायमध्ये ममैव हि । नासिकागमनो गंधस्स मे भृत्यो महामनाः
噢大智者,我之威力确住于此身之中。那达于鼻端之香气,即为我之侍从,心怀高洁而虔敬。
Verse 47
आकाश उवाच । अहमाकाशकः प्राप्तो मम काये प्रभावकम् । श्रूयतामभिधास्यामि परब्रह्मस्वरूपिणम्
虚空说道:我,虚空之元素,已至此处,在自身之体中显现我的威力。请聆听;我将宣说那位其本性即至上梵(Parabrahman)者。
Verse 48
बाह्यांतरावकाशश्च शून्यस्थाने वसाम्यहम् । तत्रामात्यौ तु कर्णौ मे श्रवणार्थं प्रतिष्ठितौ
我住于内外皆有的空寂之处。于彼处,我的两耳如侍臣般驻立,安置为听闻之用。
Verse 49
वायुरुवाच । पंचरूपेण तिष्ठामि करोम्येवं शुभाशुभम् । चर्मकायेस्थितोमात्यः स्पर्शं संश्रयते गुणम्
风神说道:我以五种形态安住,因此成就吉与不吉。住于皮肤之身时,触觉依止于其德性。
Verse 50
तेज उवाच । काये संस्थः सदा नित्यं पाकयोगं करोम्यहम् । सबाह्याभ्यंतरं सर्वं द्रव्याद्रव्यं प्रदर्शये
火光说道:我恒常住于身中,不断施行消化之转化。凡外与内的一切,无论有形之物或非物质者,我皆令其显现。
Verse 51
शुक्रं मज्जा तथा लाला एवं त्वक्संधिसंस्थितम् । रुधिरं प्रेषयाम्येव कायमध्ये स्थितोस्म्यहम्
精液、骨髓与唾液,以及住于皮肤与关节者,我使之输送为血;我确实安住于身体的中央。
Verse 52
तत्र नेत्रावमात्यौ मे द्रव्यलब्धिप्रसाधकौ । एवं मयात्मव्यापारस्तवाग्रे कथितः परः
在那里,我的两只眼如同辅臣,成就财物的获得。于是我在你面前宣说了我自身至上的行持与作为。
Verse 53
जलमुवाचः । सुतोषयाम्यहं नित्यममृतेन कलेवरम् । एवं मे तत्र व्यापारः कायपत्तनके प्रिये
阇罗说道:“我恒常以甘露(amṛta)滋养并维系此身。亲爱的,这就是我在名为迦耶钵多那(Kāyapattana)之城中的职分。”
Verse 54
अमात्यं रसनां विद्धि रसास्वादकरीं पराम् । नासिकोवाच । सुगंधेन परां पुष्टिं कायस्यापि करोम्यहम्
当知舌为首辅大臣,至上而能成就诸味之享受。鼻说道:“我以芬芳,亦能赐予此身上妙的滋养。”
Verse 55
दुर्गंधं तु परित्यज्य काये गंधं प्रदर्शये । बुद्धियुक्ता महाभाग तस्याभावेन भाविता
舍弃恶臭,我将在身中显现芬芳。噫,具慧之贤者,她因那臭秽的缺失而得以转化。
Verse 56
स्वामिकार्याय कायेस्मिन्नहं तिष्ठामि निश्चला । गंधं मम गुणं विद्धि द्विविधं यत्प्रवर्तितम्
为成就我主之事,我安住于此身而不动。应知芬芳乃我之德相,其作用分为两种而行。
Verse 57
श्रवणावूचतुः । कार्याकार्यादिकं शब्दं लोकैरुक्तं शुभाशुभम् । शृणुयावः स्वकायस्थौ सत्यासत्ये प्रियाप्रिये
闻(Śravaṇa)说道:“我们安住于自身之躯中,听闻世人所说关于应作与不应作、吉祥与不吉祥、真实与虚妄,以及可喜与不可喜之言。”
Verse 58
शब्दो हि मे गुणः प्रोक्तो मम व्यापारमेव हि । योजयामि न संदेहो यदा बुद्धिः प्रपूरयेत्
声音被宣说为我的德性,确然也是我的本职。当前智(buddhi)充盈而全然投入之时,我便令其运转;对此毫无疑惑。
Verse 59
त्वगुवाच । पंचरूपात्मको वायुः शरीरेस्मिन्व्यवस्थितः
皮肤说道:五重本性的风(vāyu,生命之气)安立于此身之中。
Verse 60
सबाह्याभ्यंतरे चेष्टां तेषां जानामि तत्त्वतः । शीतोष्णमातपं वर्षं वायोः स्फुरणमेव च
我如实知晓它们一切活动,外在与内在皆然:寒与热、日照与雨降,乃至风之微动亦复如是。
Verse 61
सर्वं जानामि संस्पर्शं संगश्लेषादिकं नृणाम् । स्पर्श एव गुणो मह्यमेतत्सत्यं वदाम्यहम्
我完全知晓人之触觉:接触、拥抱等种种。于我而言,唯有“触”是我的德性;此即我所宣说的真实。
Verse 62
एवं हि ते समाख्यातो मया व्यापार एव हि । नेत्रे ऊचतुः । संसारे यानि रूपाणि भव्याभव्यानि सत्तम
诚然,我已向你说明了我们自身的这一作用。两只眼说道:“众生之最啊,在此世间,凡所有形相——吉祥与不吉祥……”
Verse 63
यदा प्रेरयते बुद्धिस्तदा पश्याव नान्यथा । वसावः कायमध्ये वै रूपं गुणमिहावयोः
当觉慧(buddhi)推动我们时,我们才得以见;除此之外,绝不可能。确实,在此身之中、在此境界里,形与诸德性属于我们这些具身者。
Verse 64
एवं व्यापारसंबंधः कायमध्ये महामते । जिह्वोवाच । बुद्धियुक्ता अहं तात रसभेदान्विचारये
大慧者啊,体内诸作用的联系正是如此。舌说道:“父亲般的亲者啊,我具足觉慧,将分别思量种种滋味之差别。”
Verse 65
क्षारमम्लादिकं सर्वं नीरसं स्वादु चिंतये । व्यापारेण अनेनापि नित्ययुक्ता वसाम्यहम्
凡咸、酸等一切,乃至无味者,我皆观为甘甜。凭此修持,我恒常自律,安住于调御与系念。
Verse 66
इन्द्रियाणां हि सर्वेषां बुद्धिरेषा प्रणायकः । एवं पंच समायातानींद्रियाणि प्रिये शृणु
诚然,于一切诸根之中,此觉慧(buddhi)为统领与导师。故亲爱的啊,请听这同起的五种感官。
Verse 67
स्वीयानि यानि कर्माणि कथयंति पुनः पुनः । अथ बुद्धिः समायाता तमुवाच महामतिम्
当他们一再述说自己所作之业时, बुद्ध智(Buddhi,智慧)上前,对那位大心者开口说道。
Verse 68
मद्विहीनो यदा कायस्तदा नश्यति नान्यथा । तस्मात्त्वं मां समास्थाय वर्त्तयस्व महामते
当身体离开了我,便必然毁灭,别无他途。故而,大心者啊,依止于我,继续你的行道与本分。
Verse 69
अथ कर्म समायातमात्मानमिदमब्रवीत् । अहं कर्म महाप्राज्ञ तव पार्श्वं समागतम्
随后,业(Karma)来到,自述说道:“我即是业,大智者啊;我已来到你身旁。”
Verse 70
त्वां प्रेषयाम्यहं तेन पथा येनेह गच्छसि । एवमाकर्ण्य तत्सर्वमात्मा प्रोवाच तान्प्रति
“我遣你循着你在此所行的那条道路而去。”听罢这一切,真我(内在的主宰)便对他们说道。
Verse 71
यूयं पंचात्मकैर्युक्ताः सर्वसाधारणाः किल । कस्मान्मैत्रं समिच्छंति तत्र पंचात्मकं प्रति
你们确实具足五重之性,且为一切众生所共有。那么,他们为何还要在彼处寻求友爱——趋向那同样具五性之体?
Verse 72
ब्रुवंतु कारणं सर्वे ममाग्रे सर्वमेव तत् । पंचात्मका ऊचुः । अस्मत्संगप्रसंगेन पिंडमेव प्रजायते
“你们众人当在我前说明这一切的因由。”五重者答曰:“因我们相合之缘,唯生一团胚胎之质。”
Verse 73
तस्मिन्पिंडे महाबुद्धे भवान्वसति सुव्रतः । तिष्ठामो हि वयं सर्वे प्रसादात्तव तत्र हि
大慧者啊,于彼胚团之中汝安住,具清净誓戒。实则我等众皆唯赖汝恩而得住于彼处。
Verse 74
एतस्मात्कारणान्मैत्रमिच्छामस्तव नित्यशः । आत्मोवाच । एवमस्तु महाभागा भवतां प्रियमेव च
“因此缘故,我等恒常愿与汝为友。”真我答曰:“如是可也,诸有福者;愿汝所爱之事真实成就。”
Verse 75
करिष्ये नात्र संदेहो मैत्रं हि प्रीतिकारणात् । वार्यमाणो महाभागो ज्ञानेनापि महात्मना
“我必行之,毫无疑虑;友谊实由爱意而生。”纵使那以智慧著称的大士加以劝诫与制止,此有福之人仍如是坚决。
Verse 76
ध्यानेन च महात्मासौ तेषां संगतिमागतः । स तैः प्रमोहितस्तत्र रागद्वेषादिभिस्तदा
又由禅观之力,那大士来到他们的同处;然于彼时彼处,他被他们以贪著、嗔嫌等诸染所迷惑。
Verse 77
पंचतत्त्वसमायुक्तः कायित्वं गतवान्प्रभुः । यदा गर्भं समायातो विष्ठामूत्रसमाकुले
具足五大之性,主宰取受有身之相。当祂入于胎藏——其中充满粪秽与尿液——
Verse 78
दुर्गंधे पिच्छिलावर्ते पतितस्तैः स संयुतः । अंगेन व्याकुलीभूतः पंचात्मकानुवाच सः
堕入腥臭黏滑的旋涡之中,又与彼等纠缠,遍身苦恼;于是祂对那五重之众开口说道。
Verse 79
भोभोः पंचात्मकाः सर्वे शृणुध्वं वचनं मम । भवतां संप्रसंगेन महादुःखेन मोहितः
噫,诸位五大所成者,听我之言。因与汝等相系,我为大苦所迷。
Verse 80
तत्रास्मिन्पिच्छिले घोरे पतितो हि महाभये । पंचात्मका ऊचुः । तावत्संस्थीयतां राजन्यावद्गर्भः प्रपूरयेत्
彼时,在那黏滑可怖之处,祂确已堕入大险。五重之众说道:“大王,且暂住于此,直至胎藏充满(即孕期圆满)。”
Verse 81
पश्चान्निर्गमनं ते वै भविष्यति न संशयः । अस्माकं हि भवान्स्वामी कायदेशे व्यवस्थितः
其后,你必定离去——毫无疑惑。因为你是我们的主宰,安住于此 Kāya 之域(即身之处)。
Verse 82
राज्यमेवं प्रकर्तव्यं सुखभोक्ता भविष्यति । तेषां तद्वचनं श्रुत्वा आत्मा दुःखेन पीडितः
“国度当如此治理,方能享受安乐。”听闻他们的话语,他的内心(自我)被忧苦所压迫。
Verse 83
गंतुमिच्छन्नसौ तस्मात्पलायनपरोभवत्
他欲离开那里,便一心想着逃遁。