Adhyaya 66
Bhumi KhandaAdhyaya 66225 Verses

Adhyaya 66

Pitṛmātṛtīrtha Greatness & the Discourse on Embodiment: Karma, Birth, Impurity, and Dispassion

在《莲华往世书》PP.2.66(大地品)中,普罗娑斯提耶以教诲口吻展开叙述,开篇由耶耶提与马塔利对谈,说明众生之身因业(karma)而堕落、又因业而再得形体。随后系统讲述诸类出生方式、饮食与消化、身体形成、胎生发育,以及怀胎与分娩所受的种种苦。 经文继而转向“身之本不净”,批评只依外在洁净的执著,强调决定性的净化在于内在心行与意向(bhāva)。它遍观生命各阶段与诸界(人间、天界、地狱)的普遍苦,破除对权势与富贵的傲慢。 最终指出解脱次第:厌离(nirveda)→离贪(virāga)→正知(jñāna)→解脱。章末题记将本章与毗特利母特利圣地(Pitṛmātṛtīrtha)的功德相连,置于维那(Vena)故事的朝圣圣迹赞叹(tīrtha-mahātmya)背景之中。

Shlokas

Verse 1

ययातिरुवाच । पापात्पतति कायोयं धर्माच्च शृणु मातले । विशेषं न च पश्यामि पुण्यस्यापि महीतले

耶耶提说道:“此身因罪而堕——甚至也因法(dharma)而堕;听我说,哦玛塔利。在这大地上,我看不出真正的差别,连功德亦然。”

Verse 2

पुनः प्रजायते कायो यथा हि पतनं पुरा । कथमुत्पद्यते देहस्तन्मे विस्तरतो वद

正如先前曾有堕落,此身又再度出生。那么,身体究竟如何生起?请为我详尽开示。

Verse 3

मातलिरुवाच । अथ नारकिणां पुंसामधर्मादेव केवलात् । क्षणमात्रेण भूतेभ्यः शरीरमुपजायते

玛塔利说道:“如今,那些在地狱中的人,其身唯由非法(adharma)而生;刹那之间,便由诸元素凝成。”

Verse 4

तद्वद्धर्मेण चैकेन देवानामौपपादिकम् । सद्यः प्रजायते दिव्यं शरीरं भूतसारतः

同样地,凭借一次正法(dharma)之行,立刻生起一具神圣之身——契合诸天并自然而现——由诸元素的精髓所成。

Verse 5

कर्मणा व्यतिमिश्रेण यच्छरीरं महात्मनाम् । तद्रूपपरिणामेन विज्ञेयं हि चतुर्विधम्

大灵者之身,若由诸业(karma)杂合所塑,当依其形相之转变而知为四种。

Verse 6

उद्भिज्जाः स्थावरा ज्ञेयास्तृणगुल्मादि रूपिणः । कृमिकीटपतंगाद्याः स्वेदजानामदेहिनः

当知芽生(udbhijja)者为不动之类,形如草木、丛莽等;又知虫、蚁、飞蛾等为汗生(svedaja)之有身众生。

Verse 7

अंडजाः पक्षिणः सर्वे सर्पा नक्राश्च भूपते । जरायुजाश्च विज्ञेया मानुषाश्च चतुष्पदाः

一切飞鸟皆为卵生;蛇与鳄亦复如是,王者啊。胎生者当知为人类与四足诸兽。

Verse 8

तत्र सिक्ता जलैर्भूमिर्रक्ते उष्मविपाचिता । वायुना धम्यमाना च क्षेत्रे बीजं प्रपद्यते

在那里,大地为水所润,在赤色土中由热力成熟,又为风所鼓拂,遂成田畴,使种子得以依止、生长而结果。

Verse 9

यथा उप्तानि बीजानि संसिक्तान्यंभसा पुनः । उपगम्य मृदुत्वं च मूलभावं व्रजंति च

正如播下的种子,反复以水灌溉,便渐渐柔润,继而进入生根之境。

Verse 10

तन्मूलादंकुरोत्पत्तिरंकुरात्पर्णसंभवः । पर्णान्नालं ततः कांडं कांडाच्च प्रभवः पुनः

由其根生出嫩芽;由嫩芽而有叶。由叶而成茎;继而成干;由干又复生诸般增长。

Verse 11

प्रभवाच्च भवेत्क्षीरं क्षीरात्तंदुलसंभवः । तंदुलाच्च ततः पक्वा भवंत्योषधयस्तथा

由“生起”而有乳;由乳而生稻米之成。由米既熟,亦复生起诸般药草。

Verse 12

यवाद्याः शालिपर्यंताः श्रेष्ठाः सप्तदश स्मृताः । ओषध्यः फलसाराढ्याः शेषा क्षुद्रा प्रःकीर्तिताः

自大麦乃至稻米,忆为上品者凡十七种。诸药草富含果实之精华;其余则被称为下类。

Verse 13

एता लूना मर्दिताश्च मुनिभिः पूर्वसंस्कृताः । शूर्पोलूखलपात्राद्यैः स्थालिकोदकवह्निभिः

这些被收割并捣磨,早先由诸牟尼加以调制:以簸箕、臼杵、器皿等物,并以锅釜、水与火而成。

Verse 14

षड्विधा हि स्वभेदेन परिणामं व्रजंति ताः । अन्योन्यरससंयोगादनेकस्वादतां गताः

确实,它们依各自差别而转化为六类;又因诸味相互调和交融,遂成无量多样的滋味。

Verse 15

भक्ष्यं भोज्यं पेयलेह्यं चोष्यं खाद्यं च भूपते । तासां भेदाः षडंगाश्च मधुराद्याश्च षड्गुणाः

大王啊,饮食有六种:一者嚼食,二者正餐之食,三者饮用,四者舐食,五者吸食,六者啮食。其差别为六;同样,味亦有六,以甘味为首。

Verse 16

तदन्नं पिंडकवलैर्ग्रासैर्भुक्तं च देहिभिः । अन्नमूलाशये सर्वप्राणान्स्थापयति क्रमात्

此食物为具身众生以团块与口口吞咽而食,便在以食为根的器中(消化之处)渐次安立并维持一切生命之气。

Verse 17

अपक्वं भुक्तमाहारं स वायुः कुरुते द्विधा । संप्रविश्यान्नमध्ये च पक्वं कृत्वा पृथग्गुणम्

消化之风——vāyu——将尚未熟化的所食之物分为二;它进入食物之中,使之成熟,并依其各别性质而分判。

Verse 18

अग्नेरूर्ध्वं जलं स्थाप्य तदन्नं च जलोपरि । जलस्याधः स्वयं प्राणः स्थित्वाग्निं धमते शनैः

将水置于火之上,又把食物安放在水之上;而生命之息 prāṇa 自居于水下,立于其处,徐徐轻扇火焰,使之渐渐旺盛。

Verse 19

वायुना धम्यमानोग्निरत्युष्णं कुरुते जलम् । तदन्नमुष्णयोगेन समंतात्पच्यते पुनः

火被风所鼓,令水炽热;于是那食物因触及热力,复又从四面周遍而熟。

Verse 20

द्विधा भवति तत्पक्वं पृथक्किट्टं पृथग्रसः । मलैर्द्वादशभिः किट्टं भिन्नं देहाद्बहिर्व्रजेत्

当彼食物被消化时,便成二分:一为秽渣,一为滋养之精。其秽渣分为十二种不净,从身体而外出。

Verse 21

कर्णाक्षि नासिका जिह्वा दंतोष्ठ प्रजनं गुदा । मलान्स्रवेदथ स्वेदो विण्मूत्रं द्वादश स्मृताः

耳、眼、鼻、舌、齿与唇、生殖器与肛门;以及诸不净之流出、汗、粪与尿——此等被忆为十二。

Verse 22

हृत्पद्मे प्रतिबद्धाश्च सर्वनाड्यः समंततः । तासां मुखेषु तं सूक्ष्मं प्राणः स्थापयते रसम्

一切那ḍī周遍系于心莲之中;在其诸口处,普拉那(prāṇa)安置那微妙之精味(rasa)。

Verse 23

रसेन तेन ता नाडीः प्राणः पूरयते पुनः । संतर्पयंति ता नाड्यः पूर्णा देहं समंततः

以彼精味(rasa),生命之息普拉那复充满诸那ḍī;诸脉既满,便周遍滋养全身。

Verse 24

ततः स नाडीमध्यस्थः शारीरेणोष्मणा रसः । पच्यते पच्यमानश्च भवेत्पाकद्वयं पुनः

于是,那位于诸脉(nāḍī)之间的体液,被身内之热所“煎炼”;在被煎炼之时,又复成双重成熟,即两阶段的消化。

Verse 25

त्वङ्मांसास्थि मज्जा मेदो रुधिरं च प्रजायते । रक्ताल्लोमानि मांसं च केशाः स्नायुश्च मांसतः

由皮肤生起肉、骨、髓、脂与血;由血生出身毛;而由肉又生出头发与筋腱。

Verse 26

स्नायोर्मज्जा तथास्थीनि वसा मज्जास्थिसंभवा । मज्जाकारेण वैकल्यं शुक्रं च प्रसवात्मकम्

由筋腱生髓,亦生骨;脂由髓与骨而生。若髓之成形失其正,则精液亦随之受损——其性本为生育。

Verse 27

इति द्वादश शान्तस्य परिणामाः प्रकीर्तिताः । शुक्रं तस्य परीणामः शुक्राद्देहस्य संभवः

如是,已宣说那被安定之精华(食之精)之十二种转变。精液为其最终转变;由精液而有此身。

Verse 28

ऋतुकाले यदा शुक्रं निर्दोषं योनिसंस्थितम् । तदा तद्वायुसंसृष्टं स्त्रीरक्तेनैकतां व्रजेत्

当在受孕之时,无瑕之精安住于子宫之中,彼时与生命之风相和合,便与女子之血合为一体。

Verse 29

विसर्गकाले शुक्रस्य जीवः कारणसंयुतः । नित्यं प्रविशते योनिं कर्मभिः स्वैर्नियंत्रितः

在精液排出之时,个体之灵(我)与其因缘相系,恒常入于母胎,受自身业力所驱使与制御。

Verse 30

शुक्रस्य सह रक्तस्य एकाहात्कललं भवेत् । पंचरात्रेण कलले बुद्बुदत्वं ततो भवेत्

精与血相合,一日之内,胚胎成胶凝之团(迦罗罗,kalala)。五夜之后,此迦罗罗复成泡状之形(布陀布陀,budbuda)。

Verse 31

मांसत्वं मासमात्रेण पंचधा जायते पुनः । ग्रीवा शिरश्च स्कंधश्च पृष्ठवंशस्तथोदरम्

仅一月之间,复生为肉之相,分为五处:颈、首、肩、脊柱,以及腹部。

Verse 32

पाणीपादौ तथा पार्श्वौ कटिर्गात्रं तथैव च । मासद्वयेन पर्वाणि क्रमशः संभवंति च

又有手足、两胁、腰与全身;继而每隔两月,诸关节(及肢分)依次而生。

Verse 33

त्रिभिर्मासैः प्रजायंते शतशोंकुरसंधयः । मासैश्चतुर्भिर्जायंते अंगुल्यादि यथाक्रमम्

三月之时,关节与诸芽状之结成,成百而生;至四月,手指等诸部分依其次第而具足。

Verse 34

मुखं नासा च कर्णौ च मासैर्जायंति पंचभिः । दंतपंक्तिस्तथा जिह्वा जायते तु नखाः पुनः

至第五个月,口、鼻与耳已成形。继而齿列与舌渐次生起;随后指甲亦复出现。

Verse 35

कर्णयोश्च भवेच्छिद्रं षण्मासाभ्यंतरे पुनः । पायुर्मेढ्रमुपस्थं च शिश्नश्चाप्युपजायते

至第六个月,耳中孔窍开显。继而肛门、睾丸、腹股沟之处与阴茎亦相继生成。

Verse 36

संधयो ये च गात्रेषु मासैर्जायंति सप्तभिः । अंगप्रत्यंगसंपूर्णं शिरः केशसमन्वितम्

至第七个月,诸肢节之关节相继成就;而头部具足诸大分与细分,并被发毛所覆。

Verse 37

विभक्तावयवस्पष्टं पुनर्मासाष्टमे भवेत् । पंचात्मक समायुक्तः परिपक्वः स तिष्ठति

及至第八个月再临,诸肢体分明而各别显现;具足五重体性,安住于成熟而稳固之境。

Verse 38

मातुराहारवीर्येण षड्विधेन रसेन च । नाभिसूत्रनिबद्धेन वर्द्धते स दिनेदिने

凭母亲饮食之力,并由六味之滋养,且以脐带相系,胎儿日日增长。

Verse 39

ततः स्मृतिं लभेज्जीवः संपूर्णोस्मिञ्छरीरके । सुखं दुःखं विजानाति निद्रां स्वप्नं पुराकृतम्

于是众生之我(jīva)复得忆念,圆满安住于此身;了知乐与苦,并经历睡眠与梦境,皆为往昔业(karma)之果。

Verse 40

मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः । नानायोनिसहस्राणि मया दृष्टान्यनेकधा

我曾死而复生,既生复死;以种种方式,我见过千百种胎门,诸多不同的出生形态。

Verse 41

अधुना जातमात्रोहं प्राप्तसंस्कार एव च । ततः श्रेयः करिष्यामि येन गर्भे न संभवः

如今我方才出生,亦已受持所规定的诸行仪轨(saṁskāra)。因此我当行真实之善利,使我不再入胎,不复轮回再生。

Verse 42

गर्भस्थश्चिंतयत्येवमहं गर्भाद्विनिःसृतः । अध्येष्यामि परं ज्ञानं संसारविनिवर्तकम्

在胎中之时,他如是思惟:“待我出离母胎,当修学至上之智,能令众生回转,远离世间轮回(saṁsāra)。”

Verse 43

अवश्यं गर्भदुःखेन महता परिपीडितः । जीवः कर्मवशादास्ते मोक्षोपायं विचिंतयेत्

众生之我(jīva)必为胎中巨大之苦所逼迫,仍受业力(karma)驱使而住;故当思惟解脱(mokṣa)之道。

Verse 44

यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति । तथा जरायुणा देही दुःखं तिष्ठति दुःखितः

正如有人被巍峨大山压住,只能在剧痛中支撑;同样,具身之众生被胎膜所压,也在苦中停住——忧恼而凄惨。

Verse 45

पतितः सागरे यद्वद्दुःखमास्ते समाकुलः । गर्भोदकेन सिक्तांगस्तथास्ते व्याकुलात्मकः

如同坠入大海者忧惧不安、心神摇动;同样,具身之灵,其肢体被胎水浸润,也住于内心的纷乱。

Verse 46

लोहकुंभे यथा न्यस्तः पच्यते कश्चिदग्निना । गर्भकुंभे तथाक्षिप्तः पच्यते जठराग्निना

正如有人被置于铁锅之中为火所煮;同样,被投入胎之锅中,也被腹中之火所煎煮。

Verse 47

सूचीभिरग्निवर्णाभिर्भिन्नगात्रो निरंतरम् । यद्दुःखं जायते तस्य तद्गर्भेष्टगुणं भवेत्

若其肢体不断被针尖般、火色的刺所穿透;他所生起的一切痛苦,在胎中便成八倍。

Verse 48

गर्भवासात्परं वासं कष्टं नैवास्ति कुत्रचित् । देहिनां दुःखमतुलं सुघोरमपि संकटम्

对具身众生而言,世间再无比住胎更艰苦的居处;那是无可比拟的苦——可怖而极其沉重的厄难。

Verse 49

इत्येतद्गर्भदुःखं हि प्राणिनां परिकीर्तितम् । चरस्थिराणां सर्वेषामात्मगर्भानुरूपतः

如是已宣说众生在胎中的苦难——一切有情,动与不动者——皆随各自所依之胎性而异。

Verse 50

गर्भात्कोटिगुणापीडा योनियंत्रनिपीडनात् । संमूर्च्छितस्य जायेत जायमानस्य देहिनः

对具身者而言,临产之际的剧痛,比在胎中(所受诸苦)强千万倍;因子宫收束之机的挤压碾迫,出生者陷入昏厥迷蒙。

Verse 51

इक्षुवत्पीड्यमानस्य पापमुद्गरपेषणात् । गर्भान्निष्क्रममाणस्य प्रबलैः सूतिवायुभिः

他如甘蔗被碾压——为往昔罪业之槌所捣碎——又被强烈的产风逼迫,自胎中被推出。

Verse 52

जायते सुमहद्दुःखं परित्राणं न विंदति । यंत्रेण पीड्यमानाः स्युर्निःसाराश्च यथेक्षवः

于是生起极大痛苦,而不得救护;被机括挤压者,尽失精髓,如同甘蔗被榨干。

Verse 53

तथा शरीरं योनिस्थं पात्यते यंत्रपीडनात् । अस्थिमद्वर्तुलाकारं स्नायुबंधनवेष्टितम्

同样,处于胎中的身体也因(子宫)机括之压而被迫下坠:骨骸充满,形体圆团,并为筋络之缚所裹。

Verse 54

रक्तमांसवसालिप्तं विण्मूत्रद्रव्यभाजनम् । केशलोमनखच्छन्नं रोगायतनमुत्तमम्

涂满血、肉与脂,乃盛粪尿之器;覆以发、毛与甲——此身实为疾病的上等住处。

Verse 55

वदनैकमहाद्वारं गवाक्षाष्टकभूषितम् । ओष्ठद्वयकपाटं तु दंतजिह्वागलान्वितम्

口为一座大门,独一而宏伟,饰以八扇“窗”;双唇为门扉,并具牙、舌与咽喉。

Verse 56

नाडीस्वेदप्रवाहं च कफपित्तपरिप्लुतम् । जराशोकसमाविष्टं कालवक्त्रानलेस्थितम्

其中充满诸脉与汗流,复为痰与胆汁所漫;被老与忧所攫,安置于时(死)之口中的火焰里。

Verse 57

कामक्रोधसमाक्रांतं श्वसनैश्चोपमर्दितम् । भोगतृष्णातुरं गूढं रागद्वेष वशानुगम्

为欲与嗔所侵,受生命之息所摧;为享乐之渴所苦——幽隐于内——随顺贪著与憎厌之驱使。

Verse 58

सवर्णितांगप्रत्यंगं जरायु परिवेष्टितम् । संकटेनाविविक्तेन योनिमार्गेण निर्गतम्

诸肢与细肢皆已具足,裹于胎膜之中;它经由产道而出——狭窄未舒——在苦迫之际。

Verse 59

विण्मूत्ररक्तसिक्तांगं षट्कौशिकसमुद्भवम् । अस्थिपंजरसंघातं ज्ञेयमस्मिन्कलेवरे

当知此身之内,诸肢为粪、尿与血所涂染;由六重包裹而生,不过是一堆骨笼之聚。

Verse 60

शतत्रयं शताधिकं पंचपेशी शतानि च । सार्धाभिस्तिसृभिश्छन्नं समंताद्रोमकोटिभिः

其骨三百零一,其筋肉五百;周身又为三又半俱胝之毛所覆。

Verse 61

शरीरं स्थूलसूक्ष्माभिर्दृश्यादृश्याभिरंततः । एताभिर्मांसनाडीभिः कोटिभिस्तत्समन्वितम्

此身于一切处为肉之脉道所遍满:或粗或细,或显或隐;由此无量无数之百万而成其体。

Verse 62

प्रस्वेदमशुचिं ताभिरंतरस्थं च तेन हि । द्वात्रिंशद्दशनाः प्रोक्ता विंशतिश्च नखाः स्मृताः

汗为不净,由此其内所藏亦不净。故说有三十二齿,又记有二十甲。

Verse 63

पित्तस्य कुडवं ज्ञेयं कफस्यार्धाढकं तथा । वसायाश्च पलाः पंच तदर्धं फलकस्य च

当知胆汁之量为一库陀婆(kuḍava);痰之量为半阿陀迦(āḍhaka)。脂为五波罗(pala),而phalaka为其半。

Verse 64

पंचार्बुद पला ज्ञेयाः पलानि दश मेदसः । पलत्रयं महारक्तं मज्जा रक्ताच्चतुर्गुणा

当知:脂肪之量为十波罗;大血为三波罗;而骨髓为血之四倍——此皆为身中之量度。

Verse 65

शुक्रार्धकुडवं ज्ञेयं तदर्धं देहिनां बलम् । मांसस्य चैकं पिंडेन पलसाहस्रमुच्यते

当知:精液之量为半拘陀婆;其半即为有身众生之力。又说一团肉之量,等于一千波罗。

Verse 66

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने पितृमातृतीर्थ । माहात्म्ये षट्षष्टितमोऽध्यायः

至此,尊贵《莲华往世书》之《大地品》、维那传中,赞颂“祖母圣渡处”(Pitṛmātṛtīrtha)功德的第六十六章圆满。

Verse 67

अशुद्धं च विशुद्धस्य कर्मबंधविनिर्मितम् । शुक्रशोणितसंयोगाद्देहः संजायते क्वचित्

即便是清净之人,也会因业缚所造而现起不净之身;因为由精与血的结合,有时便生出此身。

Verse 68

नित्यं विण्मूत्रसंयुक्तस्तेनायमशुचिः स्मृतः । यथा वै विष्ठया पूर्णः शुचिः सांतर्बहिर्घटः

由于此身恒与粪尿相连,故被称为不净;譬如器皿外面洗得洁净,然若内盛秽物,内里终非清净。

Verse 69

शौचेन शोध्यमानोपि देहोयमशुचिर्भवेत् । यं प्राप्यातिपवित्राणि पंचगव्य हवींषि च

即使以清净之行净化此身,此身仍不离不净;然而归依并抵达于彼,连至极净化的五牛圣物(pañcagavya)与祭祀供献也才真正得以成圣。

Verse 70

अशुचित्वं प्रयांत्याशु देहोयमशुचिस्ततः । हृद्यान्यप्यन्नपानानि यं प्राप्य सुरभीणि च

不净迅速生起,因为此身本不净;即便甘美的饮食,到了此身,也同样变得腥臭。

Verse 71

अशुचित्वं प्रयांत्याशु कोऽन्य स्यादशुचिस्ततः । हे जनाः किं न पश्यध्वं यन्निर्याति दिनेदिने

不净迅速到来——那么谁还能称为清净?诸人啊,你们难道看不见那日复一日被排出的秽物吗?

Verse 72

देहानुगो मलः पूतिस्तदाधारः कथं शुचिः । देहः संशोध्यमानोपि पंचगव्यकुशांबुभिः

污秽与臭气随身而行;作为其依止之处者,怎能称净?纵以五牛圣物(pañcagavya)与以库沙草(kuśa)所加持的净水洗涤此身,(其不净亦难真正除尽)。

Verse 73

घृष्यमाण इवांगारो निर्मलत्वं न गच्छति । स्रोतांसि यस्य सततं प्रवहंति गिरेरिव

如同炽热的余烬,纵使摩擦也不成净;同样,那内在诸流——欲与躁动——恒常奔涌,如山间急湍者,终不得清净。

Verse 74

कफमूत्राद्यमशुचिः स देहः शुध्यते कथम् । सर्वाशुचिनिधानस्य शरीरस्य न विद्यते

此身充满痰、尿等不净之物,怎能成为清净?凡为一切不净之藏的身体,实无真实清净可得。

Verse 75

शुचिरेकप्रदेशोपि शुचिर्न स्यादृतेऽपि वा । दिवा वा यदि वा रात्रौ मृत्तोयैः शोध्यते करः

纵使自以为仅一处清净,若无如法净治,亦非真净。无论昼夜,手以土与水而得净。

Verse 76

तथापि शुचिभाङ्नस्यान्न विरज्यंति ते नराः । कायोयमग्र्यधूपाद्यैर्यत्नेनापि सुसंस्कृतः

即便如此,人也不会仅凭外在洁净而于内心生离染。此身纵以殊胜香熏等精心修饰,使之可观,亦不能自致出离;真实的舍离根植于内在的明辨。

Verse 77

न जहाति स्वभावं हि श्वपुच्छमिव नामितम् । तथा जात्यैव कृष्णोर्णा न शुक्ला जातु जायते

人不舍其本性,如犬尾纵使强行弯曲,亦不离其常态。又如生来黑色之羊毛,终不可能生为白色。

Verse 78

संशोध्यमानापि तथा भवेन्मूर्तिर्न निर्मला । जिघ्रन्नपि स्वदुर्गंधं पश्यन्नपि मलं स्वकम्

纵使不断净治,有身之人仍不成真正清净;即便嗅到自身恶臭,亦即便看见自身垢秽。

Verse 79

न विरज्यति लोकोऽयं पीडयन्नपि नासिकाम् । अहो मोहस्य माहात्म्यं येन व्यामोहितं जगत्

此世间即使受苦折磨,犹如被捏住鼻尖,也不生离欲。唉!迷妄(moha)之力何其广大,使整个宇宙都深陷迷乱。

Verse 80

जिघ्रन्पश्यन्स्वकान्दोषान्कायस्य न विरज्यते । स्वदेहस्य विगंधेन विरज्येत न यो नरः

纵然他嗅到并看见此身种种污秽过失,却仍不生离欲。连自己身体的臭秽都不能令其厌离之人——其迷惑何其深重。

Verse 81

विरागकारणं तस्य किमन्यदुपदिश्यते । सर्वमेव जगत्पूतं देहमेवाशुचिः परम्

还需教他别的离欲因缘吗?诚然,整个世界本自清净;唯有此身,最为不净。

Verse 82

यन्मलावयवस्पर्शाच्छुचिरप्यशुचिर्भवेत् । गंधलेपापनोदाय शौचं देहस्य कीर्तितम्

即便本来洁净之人,触及身之秽污亦成不净;因此宣说身体之净行,为除去臭秽与污垢之法。

Verse 83

द्वयस्यापगमात्पश्चाद्भावशुद्ध्या विशुद्ध्यति । गंगातोयेन सर्वेण मृद्भारैर्गात्रलेपनैः

二相既除,复由内心之净化而得清净;亦如以种种恒河(Gaṅgā)圣水,并以大量圣土涂身,皆能成就净化。

Verse 84

मर्त्यो दुर्गंधदेहोसौ भावदुष्टो न शुध्यति । तीर्थस्नानैस्तपोभिश्च दुष्टात्मा न च शुध्यति

那肉身污秽、内心败坏的凡人不能得净。纵使在圣地渡口(tīrtha)沐浴并行苦行,恶心之人仍不得清净。

Verse 85

स्वमूर्तिः क्षालिता तीर्थे न शुद्धिमधिगच्छति । अंतर्भावप्रदुष्टस्य विशतोपि हुताशनम्

纵使在圣地渡口(tīrtha)洗净此身,也不能得清净;因为内心染污之人,纵入火中,仍是不净。

Verse 86

न स्वर्गो नापवर्गश्च देहनिर्दहनं परम् । भावशुद्धिः परं शौचं प्रमाणं सर्वकर्मसु

天界与解脱都非至上之求;最高的“焚尽”,是焚尽对身体之我执。意念之清净为至上之洁净,亦是一切行为的真实尺度。

Verse 87

अन्यथा लिंग्यते कांता भावेन दुहितान्यथा । मनसा भिद्यते वृत्तिरभिन्नेष्वपि वस्तुषु

因内在态度之变,爱人被如此领会,女儿又被那样看待;心之趋向即使面对本无差别之物,也会分判成异。

Verse 88

अन्यथैव सती पुत्रं चिंतयेदन्यथा पतिम् । यथायथा स्वभावस्य महाभाग उदाहृतम्

贞善之妻思念其子是一种方式,思念其夫又是另一种方式——皆随各自之本性而然,噫大福者,如前所说。

Verse 89

परिष्वक्तोपि यद्भार्यां भावहीनां न कारयेत् । नाद्याद्विविधमन्नाद्यं रस्यानि सुरभीणि च

即使男子拥抱妻子,若她心中无爱意,也不应与之行合。亦不应享用繁杂诸食,亦不应贪恋甘美与芬芳、诱人之肴馔。

Verse 90

अभावेन नरस्तस्माद्भावः सर्वत्र कारणम् । चित्तं शोधय यत्नेन किमन्यैर्बाह्यशोधनैः

因此,人之所以为人,仿佛由内在之心行所成;心境乃一切之因。应当竭力净化其心——其余仅属外相的净洁,又有何益?

Verse 91

भावतः शुचिशुद्धात्मा स्वर्गं मोक्षं च विंदति । ज्ञानामलांभसा पुंसः सवैराग्यमृदापुनः

由正当的内在心行,清净而心已净化之人,得生天界,亦得解脱(摩克沙)。因为对人而言,无垢的智慧之水,与柔和的离欲之土相合,再次洗净并安定其身心。

Verse 92

अविद्या रागविण्मूत्र लेपो नश्येद्विशोधनैः । एवमेतच्छरीरं हि निसर्गादशुचिं विदुः

无明之垢,连同贪染、粪秽与尿秽之涂层,可由净治之法除去。然智者仍知:此身依其本性,本来不净。

Verse 93

विद्यादसार निःसारं कदलीसारसन्निभम् । ज्ञात्वैवं दोषवद्देहं यः प्राज्ञः शिथिली भवेत्

当知学问若无真实之实义,便是空虚,犹如芭蕉之髓。如此了知此身多过失者,智者便心渐松脱,离染而不执。

Verse 94

सोतिक्रामति संसारं दृढग्राहोवतिष्ठति । एवमेतन्महाकष्टं जन्मदुःखं प्रकीर्तितम्

如是便能超越轮回(saṃsāra),以坚固之志安住不动。由此宣说那极大之苦——生之本有忧患。

Verse 95

पुंसामज्ञानदोषेण नानाकर्मवशेन च । गर्भस्थस्य मतिर्यासीत्सा जातस्य प्रणश्यति

由于众生之无明过失,又为种种业(karma)所驱使,胎中曾有的觉知与领悟,一经出生便随即失落。

Verse 96

सुमूर्च्छितस्य दुःखेन योनियंत्रनिपीडनात् । बाह्येन वायुना चास्य मोहसंगेन देहिनाम्

众生为痛苦所压而昏沉——受胎狭之逼迫挤压——又被外风所冲击,并为迷妄之系缚所缠,故有身者如是受苦。

Verse 97

स्पृष्टमात्रस्य घोरेण ज्वरः समुपजायते । तेन ज्वरेण महता महामोहः प्रजायते

仅仅触及那可怖之物,热病便立刻生起;由那炽盛之热病,又生出大迷惑。

Verse 98

संमूढस्य स्मृतिभ्रंशः शीघ्रं संजायते पुनः । स्मृतिभ्रंशात्ततस्तस्य पूर्वकर्मवशेन च

于迷乱之人,失念很快又复生起;由失念之故,并在往昔业(karma)的驱迫下,复有后续诸果相续而来。

Verse 99

रतिः संजायते तस्य जंतोस्तत्रैव जन्मनि । रक्तो मूढश्च लोकोयमकार्ये संप्रवर्त्तते

就在同一世中,欲染于众生心中生起;而此世间迷恋而愚昧,竟趋向于不当之行。

Verse 100

न चात्मानं विजानाति न परं न च दैवतम् । न शृणोति परं श्रेयः सचक्षुरपि नेक्षते

他既不识自我之我(Ātman),也不识至上者,甚至不识神圣;他不听至善之道,虽有双眼,却不真见。

Verse 101

समे पथि शनैर्गच्छन्स्खलतीव पदेपदे । सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि

即使在平坦之路上缓行,他也仿佛步步踉跄;其知见执于自以为“真实”者,纵使贤者开示,亦不能领悟。

Verse 102

संसारे क्लिश्यते तेन नरो लोभवशानुगः । गर्भस्मृतेरभावे च शास्त्रमुक्तं शिवेन च

因此,在轮回世间,随贪欲之势而行的人必受苦恼;又因缺失胎中之忆,此教诲载于圣典(śāstra),亦为湿婆(Śiva)所宣说。

Verse 103

तद्दुःखकथनार्थाय स्वर्गमोक्षप्रसाधकम् । येन तस्मिञ्छिवे ज्ञाते धर्मकामार्थसाधने

为叙述那苦,我(宣说)能成就天界与解脱(mokṣa)之法;由了知彼吉祥的湿婆(Śiva),便得以成办达摩(dharma)、欲(kāma)与利(artha)之道。

Verse 104

न कुर्वंत्यात्मनः श्रेयस्तदत्र महदद्भुतम् । अव्यक्तेंद्रियबुद्धित्वाद्बाल्येदुःखं महत्पुनः

他们不追求真正对自身有益之事——此处实为大奇。又因诸根与觉知尚未显发,童年复带来深重的苦恼。

Verse 105

इच्छन्नपि न शक्नोति वक्तुं कर्तुं न सत्कृती । दंतजन्ममहद्दुःखं लौल्येन वायुना तथा

纵然想要,也不能言说与作为;即便有才能者亦不受敬重。同样,牙齿萌出之大痛,因躁动与风(vāyu)之扰而起。

Verse 106

बालरोगैश्च विविधैः पीडाबालग्रहैरपि । तृड्बुभुक्षा परीतांगः क्वचित्तिष्ठति गच्छति

他受诸多幼年疾病所逼,又为夺童之灵所扰;身为渴与饥所覆,有时伫立不动,有时四处徘徊。

Verse 107

विण्मूत्रभक्षणाद्यं च मोहाद्बालः समाचरेत् । कौमारः कर्णवेधेन मातापित्रोश्च ताडनैः

因迷妄,孩童或行如食粪与饮尿之事;而在幼年,又经历穿耳之苦,并受父母之责打。

Verse 108

अक्षराध्ययनाद्यैश्च दुःखं गुर्वादिशासनात् । प्रमत्तेंद्रियवृत्तेश्च कामरागप्रपीडिनः

为欲望与贪爱所逼,他们受诸苦:由识字与诸学之劳,由师长之教诫约束之苦,亦由诸根放逸妄动之苦。

Verse 109

रोगार्दितस्य सततं कुतः सौख्यं हि यौवने । ईर्ष्यासु महद्दुःखं मोहाद्दुःखं प्रजायते

常为疾病所苦者,纵在青春,安乐从何而来?嫉妒生大苦,迷妄之中又生忧苦。

Verse 110

तत्रस्यात्कुपितस्यैव रागो दुःखाय केवलम् । रात्रौ न विंदते निद्रा कामाग्नि परिखेदितः

在那般境地,愤怒之人的贪染只会招致痛苦。为欲火所灼,他在夜里不得安眠。

Verse 111

दिवा वापि कुतः सौख्यमर्थोपार्जनचिंतया । स्त्रीष्वायासितदेहस्य ये पुंसः शुक्रबिंदवः

纵在白昼,若心系求财之忧,安乐从何而得?而那沉溺女色、形体疲惫之人,所耗之精滴,尽成虚掷。

Verse 112

न ते सुखाय मंतव्याः स्वेदजा इव बिंदवः । कृमिभिस्ताड्यमानस्य कुष्ठिनः पामरस्य च

不应把它们当作带来快乐之物——不过如汗珠一般——对于那卑苦的麻风病人,正被虫蚀所折磨。

Verse 113

कंडूयनाग्नितापेन यत्सुखं स्त्रीषु तद्विदुः । यादृशं मन्यते सौख्यमर्थोपार्जनचिंतया

人们说,在女色中所得的“乐”,如同抓挠灼热之痒所觉的暂时舒缓;同样地,一个人忧惧地思量求财时所想象的快乐亦复如是。

Verse 114

तादृशं स्त्रीषु मंतव्यमधिकं नैव विद्यते । मर्त्यस्य वेदना सैव यां विना चित्तनिर्वृतिः

当知在与女子相关之事上,别无更胜于此者。对凡人而言,正是那种痛楚;没有它,心识便不得安息。

Verse 115

ततोन्योन्यं पुरा प्राप्तमंते सैवान्यथा भवेत् । तदेवं जरया ग्रस्तमामया व्यपिनप्रियम्

因此,昔日彼此所共得者,至终末或将变异。于是所爱之物被老迈所攫取,又为疾病所遍染。

Verse 116

अपूर्ववत्समात्मानं जरया परिपीडितम् । यः पश्यन्न विरज्येत कोन्यस्तस्मादचेतनः

若有人见自身如昔不再,被老迈所逼迫而受苦,却仍不生离欲;除他之外,谁还能更为麻木无知?

Verse 117

जराभिभूतोपि जंतुः पत्नीपुत्रादिबांधवैः । अशक्तत्वाद्दुराचारैर्भृत्यैश्च परिभूयते

即便被老迈所胜的众生,也因无力之故,遭妻子、子女、诸亲族,乃至行止不端的仆役轻慢羞辱。

Verse 118

न धर्ममर्थं कामं च मोक्षं च जरयायुतः । शक्तः साधयितुं तस्माद्युवा धर्मं समाचरेत्

为老迈所累者,不能成就法(dharma)、利(artha)、欲(kāma),乃至解脱(mokṣa)。故当趁年少,勤修正法。

Verse 119

वातपित्तकफादीनां वैषम्यं व्याधिरुच्यते । वातादीनां समूहेन देहोयं परिकीर्तितः

风(vāta)、火(pitta)、痰(kapha)等失衡,即名为疾病。诚然,此身被说是由风等诸体液之总和所构成。

Verse 120

तस्माद्व्याधिमयं ज्ञेयं शरीरमिदमात्मनः । वाताद्यव्यतिरिक्तत्वाद्व्याधीनां पंजरस्य च

因此,当知此我之身乃是病所成;因其不离风等诸体液,亦仿佛是诸病之笼槛。

Verse 121

रोगैर्नानाविधैर्याति देही दुःखान्यनेकधा । तानि च स्वात्मवेद्यानि किमन्यत्कथयाम्यहम्

为种种疾病所逼,具身者以无量方式受诸苦。此等唯自心自证,我还能说什么呢?

Verse 122

एकोत्तरं मृत्युशतमस्मिन्देहे प्रतिष्ठितम् । तत्रैकः कालसंयुक्तः शेषाश्चागंतवः स्मृताः

此身之中,据说安立有一百零一种死亡。其中一种与时(时间之定命)相应,其余皆被记为偶至之死,缘外因而来。

Verse 123

ये त्विहागंतवः प्रोक्तास्ते प्रशाम्यंति भेषजैः । जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति

凡此所说由外缘而起之疾,可由药物调伏,亦可由持诵(japa)、火供(homa)与布施而息;然时命之死,终不可止。

Verse 124

यदि वापमृत्युर्न स्याद्विषास्वादादशंकितः । न चात्ति पुरुषस्तस्मादपमृत्योर्बिभेति सः

若世间并无“非时之死”,人便会无惧而尝毒;然而他并不吞食,因此可知他畏惧的正是非时之死。

Verse 125

विविधा व्याधयस्तत्र सर्पाद्याः प्राणिनस्तथा । विषाणि चाभिचाराश्च मृत्योर्द्वाराणि देहिनाम्

在那里,种种疾病,蛇等诸类生灵,以及毒药与咒术之行,皆为有身众生通向死亡的门径。

Verse 126

पीडितं सर्वरोगाद्यैरपि धन्वंतरिः स्वयम् । स्वस्थीकर्तुं न शक्नोति कालप्राप्तं न चान्यथा

即使药王檀梵多利亲自出手,当命定之时已至,被诸病所逼者亦不能复得安康;此理本不可能有别。

Verse 127

नौषधं न तपो दानं न माता न च बांधवाः । शक्नुवंति परित्रातुं नरं कालेन पीडितम्

无论药物、苦行、布施,乃至母亲与亲族,都不能护佑那被“时”所逼迫的人。

Verse 128

रसायन तपो जाप्ययोगसिद्धैर्महात्मभिः । अवांतरितशांतिः स्यात्कालमृत्युमवाप्नुयात्

大士以成就之道修持罗娑衍那、苦行、诵持真言与瑜伽悉地,便得无间安宁,甚至能够超越非时之死。

Verse 129

जायते योनिकीटेषु मृतः कर्मवशात्पुनः । देहभेदेन यः पश्येद्वियोगं कर्मसंक्षयात्

受业力驱使,死者复生于胎生之类,乃至虫豸之中;然能以辨别诸身之差别,而见与有身之系缚相离,乃由业尽而起者,即得真实明见。

Verse 130

मरणं तद्विनिर्दिष्टं न नाशः परमार्थतः । महातमः प्रविष्टस्य छिद्यमानेषु मर्मसु

此即所谓“死亡”;于究竟真谛中,并非毁灭。乃是堕入大黑暗者,当其生命要害被割断之时。

Verse 131

यद्दुःखं मरणे जंतोर्न तस्येहोपमा क्वचित् । हा तात मातः कांतेति क्रंदत्येवं सुदुःखितः

众生临终之苦,于此世间无有可比。极度悲恸之中,他一再呼号:“父啊!母啊!爱者啊!”,哀哭不已。

Verse 132

मंडूक इव सर्पेण ग्रस्यते मृत्युना जगत् । बांधवैः स परित्यक्तः प्रियैश्च परिवारितः

如青蛙为蛇所吞,世间亦为死神所吞。人被亲族所弃,纵使身旁环绕着他所爱之人。

Verse 133

निःश्वसन्दीर्घमुष्णं च मुखेन परिशुष्यता । खट्वायां परिवृत्तो हि मुह्यते च मुहुर्मुहुः

他呼出长而热的气息,口中干涸。辗转于床榻之上,屡屡陷入迷乱,一次又一次。

Verse 134

संमूढः क्षिपतेत्यर्थं हस्तपादावितस्ततः । खट्वातो वांछते भूमिं भूमेः खट्वां पुनर्महीम्

他全然迷乱,烦躁地乱甩手脚。从床上渴望到地上,从地上又渴望回到床上——又再贪恋大地。

Verse 135

विवशस्त्यक्तलज्जश्च मूत्रविष्ठानुलेपितः । याचमानश्च सलिलं शुष्ककंठोष्ठतालुकः

他无助而失却羞惭,身上沾满尿秽与粪秽,哀求一口水——喉咙、嘴唇与上腭干裂枯燥。

Verse 136

चिंतयानः स्ववित्तानि कस्यैतानि मृते मयि । यमदूतैर्नीयमानः कालपाशेन कर्षितः

他思忖:“我死之后,这些财物将归于谁?”——却已被阎摩的使者牵引而去,被时间之索拖拽前行。

Verse 137

म्रियते पश्यतामेवं गलो घुरुघुरायते । जीवस्तृणजलौकेव देहाद्देहं विशेत्क्रमात्

就这样,他在众目睽睽之下死去;喉间发出咕噜作响的喘鸣。生灵之我,如草与水间的水蛭,循序渐进地从一具身躯进入另一具身躯。

Verse 138

प्राप्नोत्युत्तरमंगं च देहं त्यजति पूर्वकम् । मरणात्प्रार्थनाद्दुःखमधिकं हि विवेकिनाम्

他得至更高的境界,却须先舍离此身。对有辨慧者而言,因哀求而生的痛苦,确实甚于死亡之苦。

Verse 139

क्षणिकं मरणे दुःखमनंतं प्रार्थनाकृतम् । जगतां पतिरर्थित्वाद्विष्णुर्वामनतां गतः

死亡之苦只是刹那,而由祈求所招致的果报却无穷无尽。因此,诸世界之主毗湿奴因受恳请,示现为婆摩那之形。

Verse 140

अधिकः कोपरस्तस्माद्यो न यास्यति लाघवम् । ज्ञातं मयेदमधुना मृत्योर्भवति यद्गुरुः

因此,不肯趋向谦卑者,其忿怒更为炽盛。我如今已明了:那竟能成为“死神之师”的法则。

Verse 141

न परं प्रार्थयेद्भूयस्तृष्णालाघवकारणम् । आदौ दुःखं तथा मध्ये दुःखमंते च दारुणम्

不应一再祈求更多,只为减轻贪渴之重;因为它在开始带来痛苦,在中间带来痛苦,至终更招致可怖的痛苦。

Verse 142

निसर्गात्सर्वभूतानामिति दुःख परंपरा । वर्तमानान्यतीतानि दुःखान्येतानि यानि तु

就一切众生的存在本性而言,必生起不断相续的忧苦;这些痛苦,无论现前或已过去,皆如是。

Verse 143

न नरः शोचयेज्जन्म न विरज्यति तेन वै । अत्याहारान्महद्दुःखमल्पाहारात्तदंतरम्

人不应哀叹自己的出生,也不必因此而生厌离。过食招致大苦;少食则其苦相对较轻。

Verse 144

त्रुटते भोजने कंठो भोजने च कुतः सुखम् । क्षुधा हि सर्वरोगाणां व्याधिः श्रेष्ठतमः स्मृतः

进食之时,喉咙反而哽塞;如此又何来饮食之乐?因为饥饿被认为是一切疾病之中最为首要的苦患。

Verse 145

सच्छांतौषधलेपेन क्षणमात्रं प्रशाम्यति । क्षुद्व्याधि वेदना तीव्रा निःशेषबलकृंतनी

纵以真正安抚的药膏涂抹,也只得片刻平息;饥饿之病的剧痛凶猛,尽断人之气力,毫无余剩。

Verse 146

तयाभिभूतो म्रियते यथान्यैर्व्याधिभिर्नरः । तद्रसेपि हि किं सौख्यं जिह्वाग्रपरिवर्तिनि

为其所制,人亦会死,如同死于他病。即便在其滋味中,又有何乐?不过是在舌尖一闪而过。

Verse 147

तत्क्षणादर्धकालेन कंठं प्राप्य निवर्तते । इति क्षुद्व्याधितप्तानामन्नमोषधवत्स्मृतम्

刹那之间——半瞬之内——它到达喉间便又退去。因此,对受饥病煎灼者而言,食物被忆念为如同药物。

Verse 148

न तत्सुखाय मंतव्यं परमार्थेन पंडितैः । मृतोपमश्च यः शेते सर्वकार्यविवर्जितः

智者于究竟义中,不应将此视为快乐:当人如死者般卧倒,舍弃一切事务与本分之行。

Verse 149

तत्रापि च कुतः सौख्यं तमसा चोदितात्मनः । प्रबोधेपि कुतः सौख्यं कार्येषूपहतात्मनः

即便在那里,被黑暗(惰性之暗,tamas)驱使其心者,何来安乐?即使醒悟之后,被世务所摧折其身心者,又何来安乐?

Verse 150

कृषिवाणिज्यसेवाद्य गोरक्षादि परश्रमैः । प्रातर्मूत्रपुरीषाभ्यां मध्याह्ने क्षुत्पिपासया

因耕作、经商、服役等辛劳,又因牧牛等诸般劳苦:清晨为小便与大便所扰,中午为饥与渴所逼。

Verse 151

तृप्ताः काम्येन बाध्यंते निद्रया निशि जंतवः । अर्थस्योपार्जने दुःखं दुःखमर्जितरक्षणे

即使自觉满足者,仍为欲望所驱;夜里众生又被睡眠所制。求财有苦,守财亦苦。

Verse 152

नाशे दुःखं व्यये दुःखमर्थस्यैव कुतः सुखम् । चौरेभ्यः सलिलेभ्योग्नेः स्वजनात्पार्थिवादपि

财失则悲,财用亦悲——财富之中究竟何有安乐?它为盗贼所侵,为水所夺,为火所焚,甚至为亲族所害,亦为君王所夺。

Verse 153

भयमर्थवतां नित्यं मृत्योर्देहभृतामिव । खे यथा पक्षिभिर्मांसं भक्ष्यते श्वापदैर्भुवि

富者常怀恐惧,如有身众生常畏死亡:正如肉在空中为群鸟啄食,在地上为猛兽吞噬。

Verse 154

जले च भक्ष्यते मत्स्यैस्तथा सर्वत्र वित्तवान् । विमोहयंति संपत्सु वारयंति विपत्सु च

在水中他被鱼吞食;同样,富有之人处处被缠缚——在顺境中迷惑,在逆境中受制。

Verse 155

खेदयंत्यर्जने काले कदार्थाः स्युः सुखावहाः । प्रागर्थपतिरुद्विग्नः पश्चात्सर्वार्थनिःस्पृहः

微薄的财物怎能带来安乐?连求取之时都令人忧苦。求财之前心怀惶惧;得财之后反而对一切资具淡然无欲。

Verse 156

तयोरर्थपतिर्दुःखी सुखी मन्येर्विरक्तधीः । वसंतग्रीष्मतापेन दारुणं वर्षपर्वसु

二者之中,财主反而多苦;我以离欲之心者为乐。因为春夏之热酷烈,雨季的更迭亦同样严峻。

Verse 157

वातातपेन वृष्ट्या च कालेप्येवं कुतः सुखम् । विवाहविस्तरे दुःखं तद्गर्भोद्वहने पुनः

受风与日炙所逼,又被雨水浸透——纵在应时之际——怎会有安乐?婚礼铺陈繁缛亦是辛劳,其后怀胎负重更复辛劳。

Verse 158

सूतिवैषम्यदुःखैश्च दुखं विष्ठादिकर्मभिः । दन्ताक्षिरोगे पुत्रस्य हा कष्टं किं करोम्यहम्

“我为难产失调之痛所逼,又为处理秽污等事务而受苦。如今我儿又患牙病与眼疾——唉,多么艰难!我该如何是好?”

Verse 159

गावो नष्टाः कृषिर्भग्ना भार्या च प्रपलायिता । अमी प्राघूर्णिकाः प्राप्ता भयं मे शंसिनो गृहान्

我的牛群已失,农事尽毁,妻子也已逃离。如今这些四处游荡的恶徒来到我家,仿佛向我预告恐惧将至。

Verse 160

बालापत्या च मे भार्या कः करिष्यति रंधनम् । विवाहकाले कन्यायाः कीदृशश्च वरो भवेत्

我的妻子尚且年少,又有幼子——谁来操持烹饪?而到女儿出嫁之时,又当有怎样的郎君才相称?

Verse 161

एतच्चिंताभिभूतानां कुतः सौख्यं कुटुंबिनाम्

被这般忧虑所压的居家之人,何处还能得安乐?

Verse 162

कुटुंबचिंताकुलितस्य पुंसः श्रुतं च शीलं च गुणाश्च सर्वे । अपक्वकुंभे निहिता इवापः प्रयांति देहेन समं विनाशनम्

为家计忧惶而心神不宁之人,其所闻所学、其德行与诸般善质,犹如盛于未烧陶罐之水,终将与此身一同败坏消散。

Verse 163

राज्येपि हि कुतः सौख्यं संधिविग्रहचिंतया । पुत्रादपि भयं यत्र तत्र सौख्यं हि कीदृशम्

纵为王者,若心常系于结盟与征战之虑,安乐何在?若连亲子亦成恐惧之源,又能有何等幸福?

Verse 164

स्वजातीयाद्भयं प्रायः सर्वेषामेव देहिनाम् । एकद्रव्याभिलाषित्वाच्छुनामिव परस्परम्

对几乎一切有身之众而言,恐惧多半来自同类;因贪求同一物,彼此便生敌意,如犬相向。

Verse 165

न प्रविश्य वनं कश्चिन्नृपः ख्यातोस्ति भूतले । निखिलं यस्तिरस्कृत्य सुखं तिष्ठति निर्भयः

在此世间,从无国王不入林而得名;能舍弃一切者,安住自在,无惧而自足。

Verse 166

युद्धे बाहुसहस्रं हि पातयामास भूतले । श्रीमतः कार्तवीर्यस्य ऋषिपुत्रः प्रतापवान्

诚然,在战场上,那位有威力的仙人之子,使尊贵的迦尔塔毗利耶千臂坠落于地。

Verse 167

ऋषिपुत्रस्य रामस्य रामो दशरथात्मजः । जघान वीर्यमतुलमूर्ध्वगं सुमहात्मनः

达沙罗陀之子罗摩,击破了仙人之子罗摩(帕罗修罗摩)无与伦比的威力;虽其为大心之士,地位崇高。

Verse 168

जरासंधेन रामस्य तेजसा नाशितं यशः । जरासंधस्य भीमेन तस्यापि पवनात्मजः

罗摩之名望为迦罗散陀之威势所掩;迦罗散陀之名望又为毗摩所掩,而毗摩之名望亦为风神之子所掩。

Verse 169

हनुमानपि सूर्येण विक्षिप्तः पतितः क्षितौ । निवातकवचान्सर्वदानवान्बलदर्पितान्

哈奴曼也被太阳击退,坠落大地——他曾直面一切陀那婆,身披不可穿透的甲胄,因自恃神力而骄矜膨胀。

Verse 170

हतवानर्जुनः श्रीमान्गोपालैः स विनिर्जितः । सूर्यः प्रतापयुक्तोऽपि मेघैः संछाद्यते क्वचित्

即便是光辉的阿周那、诛敌之雄,也曾被牧牛人所制伏。即便太阳具炽盛威光,也有时被云层遮蔽。

Verse 171

क्षिप्यते वायुना मेघो वायोर्वीर्यं नगैर्जितम् । दह्यंते वह्निना शैलाः स वह्निः शाम्यते जलैः

云被风驱使而行;然而风之劲力为群山所遏。群山被火焚烧;然而那火又被水所熄。

Verse 172

तज्जलं शोष्यते सूर्यैस्ते सूर्याः सह वारिणा । त्रैलोक्येन समस्ताश्च नश्यंति ब्रह्मणो दिने

彼水为诸日所蒸干;而诸日与诸水——乃至三界一切——当梵天之日终尽之时,皆归于灭。

Verse 173

ब्रह्मापि त्रिदशैः सार्धमुपसंह्रियते पुनः । परार्धद्वयकालांते शिवेन परमात्मना

即便梵天与诸天众同在,也将在两帕罗阿尔达时尽之际再度被摄入归灭——由湿婆,至上之我而成就。

Verse 174

एवं नैवास्ति संसारे यच्च सर्वोत्तमं बलम् । विहायैकं जगन्नाथं परमात्मानमव्ययम्

因此,在此世间并无任何力量真正至上——唯有独一的宇宙之主、永不坏灭的至上真我。

Verse 175

ज्ञात्वा सातिशयं सर्वमतिमानं विवर्जयेत् । एवंभूते जगत्यस्मिन्कः सुरः पंडितोपि वा

既知所谓优越不过相对,当舍弃对自身才智的一切傲慢。在如此世间,谁能真正卓绝——无论天神,抑或博学之士?

Verse 176

न ह्यस्ति सर्ववित्कश्चिन्न वा मूर्खोपि सर्वतः । यावद्यस्तु विजानाति तावत्तत्र स पंडितः

无人全知,亦无人于一切皆愚。一个人于何事真能了悟到何等程度,便于那事上称为多少分的智者。

Verse 177

समाधाने तु सर्वत्र प्रभावः सदृशः स्मृतः । वित्तस्यातिशयत्वेन प्रभावः कस्यचित्क्वचित्

在调停裁断之事上,其效力一般被记为处处相同;然而因财富过盛,某些人在某些地方的影响力便更为强大。

Verse 178

दानवैर्निर्जिता देवास्ते दैवैर्निजिताः पुनः । इत्यन्योन्यं श्रितो लोको भाग्यैर्जयपराजयैः

诸天曾为达那婆所胜,而达那婆又复为诸天所胜。由是世间相互依存,随命运而有胜败往复。

Verse 179

एवं वस्त्रयुगं राज्ञां प्रस्थमात्रांबुभोजनम् । यानं शय्यासनं चैव शेषं दुःखाय केवलम्

因此,对诸王而言:不过一双衣裳与以一钵(prastha)所量之食;至于车乘、卧榻与座具,凡逾此者,唯成苦恼之因。

Verse 180

सप्तमे चापि भवने खट्वामात्र परिग्रहः । उदकुंभसहस्रेभ्यः क्लेशायास प्रविस्तरः

即便在第七处居所,所持之物也不过一张简榻;相较千百水罐,这亦铺陈为广大的劳苦与艰辛之担。

Verse 181

प्रत्यूषे तूर्यनिर्घोषः समं पुरनिवासिभिः । राज्येभिमानमात्रं हि ममेदं वाद्यते गृहे

黎明时分,乐器轰鸣,与城中居民一同回响;然而在我家中,这不过是为王权之傲而奏的虚饰之声。

Verse 182

सर्वमाभरणं भारः सर्वमालेपनं मलम् । सर्वं प्रलपितं गीतं नृत्यमुन्मत्तचेष्टितम्

一切饰物皆为重担;一切涂抹香膏粉黛皆为污秽。凡喋喋之语被误作歌唱,而舞蹈乃狂乱者之举止。

Verse 183

इत्येवं राज्यसंभोगैः कुतः सौख्यं विचारतः । नृपाणां विग्रहे चिंता वान्योन्यविजिगीषया

如是以王权之享受而观之,细思之下,安得有乐?诸王在争战之际,唯有忧惧与焦虑,皆由彼此欲胜之心所驱。

Verse 184

प्रायेण श्रीमदालेपान्नहुषाद्या महानृपाः । स्वर्गं प्राप्ता निपतिताः कः श्रिया विंदते सुखम्

大抵诸大王——如那胡沙等——沉醉于福泽的光辉,虽得升天,终亦坠落。仅凭财福之运,谁能获得恒常之乐?

Verse 185

स्वर्गेपि च कुतः सौख्यं दृष्ट्वा दीप्तां परश्रियम् । उपर्युपरि देवानामन्योन्यातिशयस्थिताम्

即便在天界,又怎会有安乐?只因目睹那炽盛而更胜的光荣:诸天神层层高下,彼此相较,各各凌驾于后者之上。

Verse 186

नरैः पुण्यफलं स्वर्गे मूलच्छेदेन भुज्यते । न चान्यत्क्रियते कर्म सोऽत्र दोषः सुदारुणः

人在天界享受福德之果,唯至其根本耗尽;而不复造作他业。此中之过,实为极其可怖。

Verse 187

छिन्नमूलतरुर्यद्वद्दिवसैः पतति क्षितौ । पुण्यस्य संक्षयात्तद्वन्निपतंति दिवौकसः

如同树根被斩之树,过些时日便倒落于地;同样,天界之众亦因福德耗尽而坠下。

Verse 188

सुखाभिलाषनिष्ठानां सुखभोगादि संप्लवैः । अकस्मात्पतितं दुःखं कष्टं स्वर्गेदिवौकसाम्

对于执著于求乐之人,在享受与欢悦的洪流之中,痛苦忽然坠临,尤为难堪——即使是天界的住者亦然。

Verse 189

इति स्वर्गेऽपि देवानां नास्ति सौख्यं विचारतः । क्षयश्च विषयासिद्धौ स्वर्गे भोगाय कर्मणाम्

因此,纵在天界,诸天细加省察亦无真实安乐;当享乐之境不复成就时,为求天福而作之业的功德亦随之耗尽。

Verse 190

तत्र दुःखं महत्कष्टं नरकाग्निषु देहिनाम् । घोरैश्च विविधैर्भावैर्वाङ्मनः काय संभवैः

在那里,有身众生于地狱之火中受无量剧痛与艰苦,被可怖而多样的苦恼所逼迫,皆由语、意、身所生。

Verse 191

कुठारच्छेदनं तीव्रं वल्कलानां च तक्षणम् । पर्णशाखाफलानां च पातश्चंडेन वायुना

那里斧刃猛烈砍伐,树皮亦被剥削;叶、枝与果也被狂风所驱,纷纷坠落。

Verse 192

उन्मूलनान्नदीभिश्च गजैरन्यैश्च देहिभिः । दावाग्निहिमशोषैश्च दुःखं स्थावरजातिषु

于不动之类——如树木草木——亦有诸苦:或为江河所拔起,或为象等诸有身者所摧折,又遭林火、霜冻与燥热之害。

Verse 193

तद्वद्भुजंगसर्पाणां क्रोधे दुःखं च दारुणम् । दुष्टानां घातनं लोके पाशेन च निबंधनम्

同样,诸蛇与毒蟒,嗔怒一起,苦恼甚为惨烈;而在世间,恶人或被诛杀,亦被绳索套缚。

Verse 194

अकस्माज्जन्ममरणं कीटानां च मुहुर्मुहुः । सरीसृपनिकायानामेवं दुःखान्यनेकधा

对昆虫而言,生与死猝然而至,反复不息;对众多爬行之类的众生,也是如此,种种苦恼以多般形态生起。

Verse 195

पशूनामात्मशमनं दंडताडनमेव च । नासावेधेन संत्रासः प्रतोदेन सुताडनम्

所谓“驯服”牲畜,不过是以杖击打;又有穿鼻所致的恐惧,以及以刺棒(赶牛刺)重重鞭挞。

Verse 196

वेत्रकाष्ठादिनिगडैरंकुशेनांगबंधनम् । भावेन मनसा क्लेशैर्भिक्षा युवादिपीडनम्

以藤、木等制成的镣铐,又以钩刺,束缚其肢体;并以忧苦折磨其心,使之被迫乞求,且欺压幼小等众。

Verse 197

आत्मयूथवियोगैश्च बलान्नयनबंधने । पशूनां संति कायानामेवं दुःखान्यनेकशः

因与自群分离,又被强行牵走并捆缚,具身的诸兽便如此遭受多种多样的痛苦。

Verse 198

वर्षाशीतातपाद्दुःखं सुकष्टं ग्रहपक्षिणाम् । क्लेशमानाति कायानामेवं दुःखान्यनेकधा

由雨、寒与烈日而生痛苦——对诸类众生与飞鸟皆是艰难之苦。于是具身者便在多种方式中受折磨与逼恼。

Verse 199

गर्भवासे महद्दुःखं जन्मदुःखं तथा नृणाम् । सुबाल्यदुःखं चाज्ञानं कौमारे गुरुशासनम्

对人而言,住在母胎中有大苦,出生时亦有苦;幼年因无明而受苦,童年又受师长教诲之约束。

Verse 200

यौवने कामरागाभ्यां दुःखं चैवेर्ष्यया पुनः । कृषिवाणिज्यसेवाद्यैर्गोरक्षादिक कर्मभिः

在青春之时,人因欲望与贪恋而受苦,又因嫉妒而受苦;并且还因耕作、经商、服役等职业,以及牧牛等劳作而受苦。