Adhyaya 6
Bhumi KhandaAdhyaya 633 Verses

Adhyaya 6

Diti’s Lament (On the Fall of the Daityas and the Futility of Grief)

达奴见提蒂沉溺悲恸,前来礼拜并发问:既为多子之母,何以如此哀号。二人谈及天神与阿修罗之争:阿底提所得之恩愿已应验,因陀罗的王权为其子嗣而稳固,而代提耶与达那婆的光辉由此衰落。 继而叙述战事:毗湿奴执轮与螺,摧灭魔军,如烈火焚枯草,又如飞蛾投焰而亡。提蒂悲极而仆;一位劝慰的教诲之声指出,此祸乃不义(adharma)与自身过失之果,并告诫忧悲会损减功德、障碍解脱,劝她复归安定与喜悦。

Shlokas

Verse 1

सूत उवाच । कश्यपस्य च भार्यान्या दनुर्नाम तपस्विनी । पुत्रशोकेन संतप्ता संप्राप्ता दितिमंदिरम्

苏多说道:迦叶波的苦行妻子达努,因丧子之痛而备受煎熬,来到底提的居所。

Verse 2

रोदमाना प्रणम्यैव पादपद्मयुगं तदा । दुःखेन महता प्राप्ता दितिस्तां प्रत्यबोधयत्

随后她哭泣着,顶礼那一双莲花足。她怀着巨大悲苦而来,底提安慰她,使其心神安定。

Verse 3

दितिरुवाच । तवैव हि महाभागे किमिदं रोदकारणम् । पुत्रिण्यश्चैकपुत्रेण लोके नार्यो भवंति वै

底提说道:“最有福德的夫人啊,你为何哭泣?在世间,女子若有子嗣——纵然只有一子——也确实被称为有福。”

Verse 4

भवती शतपुत्राणां गुणिनामपि भामिनि । माता त्वमसि कल्याणि शुंभादीनां महात्मनाम्

热情的夫人啊,你是百子之母,皆具德行;吉祥者啊,你是从顺婆(Śuṃbha)等开始的诸大士之母。

Verse 5

कस्माद्दुःखं त्वया प्राप्तमेतन्मे कारणं वद । हिरण्यकशिपू राजा हिरण्याक्षो महाबलः

“你因何缘故而遭此忧苦?请告诉我其中原因。你所说的是希兰尼亚迦湿布王,以及大力的希兰尼亚迦叉。”

Verse 6

इति श्रीपद्मपुराणे भूमिखंडे देवासुरे दितिविलापोनाम षष्ठोऽध्यायः

至此,《圣莲花往世书》之《大地篇》(Bhūmi-khaṇḍa)“天神与阿修罗”部中,名为“底蒂之哀叹”的第六章圆满结束。

Verse 7

आख्याहि कारणं सर्वं यस्माद्रोदिषि सांप्रतम् । एवमाभाष्य तां देवीं विरराम मनस्विनी

“请把你此刻哭泣的全部缘由都告诉我。”如此对那位女神说罢,那位心志坚毅的夫人便沉默下来。

Verse 8

दनुरुवाच । पश्य पश्य महाभागे सपत्न्याश्च मनोरथम् । परिपूर्णं कृतं तेन देवदेवेन चक्रिणा

达奴说道:“看啊,看啊,吉祥者!你那共妻的心愿,已被那位诸神之主、执轮者彻底成就。”

Verse 9

यथापूर्वं वरो दत्तो ह्यदित्यै देवि विष्णुना । तथेदानीं च पुत्राय तस्या दत्तो वरो महान्

女神啊,正如往昔毗湿奴赐福于阿底提,如今也同样赐予她的儿子一份伟大的恩赐。

Verse 10

कश्यपाद्विश्रुतो जातस्त्रैलोक्यपालकः सुतः । इंद्रत्वं तस्य वै दत्तं तव पुत्राद्विहृत्य च

由迦叶波(Kaśyapa)诞生了一位闻名的儿子,护持三界;而因陀罗之王位确已赐予他——也从你的儿子那里被夺去。

Verse 11

मनोरथैस्तु संपूर्णा अदितिः सुखवर्द्धिनी । कनीयान्वसुदत्तश्च तस्याः पुत्रश्च संप्रति

阿底提(Aditi)——增益安乐者——遂得遂其心愿;而今她较幼的儿子名为婆苏达多(Vasudatta)。

Verse 12

ऐंद्रं पदं सुदुष्प्राप्यं देवैः सार्द्धं भुनक्ति च । दितिरुवाच । कस्मात्पदात्परिभ्रष्टो मम पुत्रो महामतिः

既得极难得之因陀罗位,他与诸天同享其乐。底提(Diti)说道:“我那大心之子,是从何等地位坠落的?”

Verse 13

अन्ये च दानवा दैत्यास्तेजोभ्रष्टाः कथं सखे । तस्य त्वं कारणं ब्रूहि विस्तरेण यशस्विनि

而且,朋友啊,其余诸达那婆(Dānava)与代底耶(Daitya)又如何失却光辉?请你详尽道来其因,噢,声名卓著者。

Verse 14

तामाभाष्य दितिर्वाक्यं विरराम सुदुःखिता । दनुरुवाच । देवाश्च दानवाः सर्वे सक्रोधाः संगरं गताः

底提说罢此言,因极度悲苦而默然止语。达奴(Danu)说道:“诸天与诸达那婆,皆被忿怒所燃,已赴战场。”

Verse 15

तत्र युद्धं महज्जातं दैत्यसंक्षयकारकम् । देवैश्च विष्णुना युद्धे मम पुत्रा निपातिताः

彼处爆发了一场大决战,成为摧灭诸魔(代提耶)的因缘;在那场战争中,我的儿子们被诸天与毗湿奴所击倒。

Verse 16

तथैव तव पुत्रास्ते देवदेवेन चक्रिणा । वने गतान्यथा सिंहो द्रावयेत्स्वेन तेजसा

同样,你的儿子们也如此:当持轮的万神之主进入林中时,他们被驱散逃遁——正如狮子以自身威光令群兽奔走。

Verse 17

तथा ते मामकाः पुत्रा निहताः शङ्खपाणिना । कालनेमिमुखं सैन्यं दुर्जयं ससुरासुरैः

同样,我的儿子们被执螺的主所诛;而以迦罗内弥为首、连诸天与阿修罗都难以战胜的军队,也被摧毁。

Verse 18

नाशितं मर्दितं सर्वं द्रावितं विकलीकृतम् । स्वैरर्चिभिर्यथा वह्निस्तृणानि ज्वालयेद्वने

一切尽被毁坏、碾碎、消散,陷于无力之境——正如林中之火以自身炽焰点燃枯草。

Verse 19

तथा दैत्यगणान्सर्वान्निर्दहत्येव केशवः । मम पुत्रा मृता देवि बहुशस्तव नंदनाः

“正是如此,凯沙瓦焚尽一切檀那婆之众。女神啊,我的儿子们一次又一次地被你的儿子所杀。”

Verse 20

वह्निं प्राप्य यथा सर्वे शलभा यांति संक्षयम् । तथा ते दानवाः सर्वे हरिं प्राप्य क्षयं गताः

正如群蛾一触火焰便归于毁灭,如是诸多达那婆遇见诃利,亦尽皆走向终结。

Verse 21

एवमेतं हि वृत्तांतं दितिः शुश्राव दारुणम् । दितिरुवाच । वज्रपातोपमं भद्रे वदस्येवं कथं मम

底提听闻这般惨烈的经过,便说道:“贤爱啊,你的话如雷霆坠落击我心;你怎能对我说出如此之言?”

Verse 22

एवमाभाष्य तां देवी मूर्च्छिता निपपात ह । हा हा कष्टमिदं जातं बहुदुःखं प्रतापकम्

她如此说罢,那女神昏厥倒地:“哀哉,哀哉!此事何其惨痛——乃是引发无量忧苦的严酷磨难。”

Verse 23

रुरोद करुणं साथ पुत्रशोकसुपीडिता । तां दृष्ट्वा स मुनिश्रेष्ठ उवाच वचनं शुभम्

她为丧子之痛所逼,凄然恸哭。那位最胜仙人见之,便以吉祥安慰之语开口说道。

Verse 24

मा रोदिषि च भद्रं ते नैवं शोचंति त्वद्विधाः । सत्ववंतो महाभागे लोभमोहेन वर्जिताः

“莫要哭泣,愿吉祥归于你。大福德者啊,如你这般具德之人不应如此忧伤;心具清净者,远离贪欲与迷妄。”

Verse 25

कस्य पुत्रा हि संसारे कस्य देवी सुबांधवाः । नास्तिकस्येह केनापि तत्सर्वं श्रूयतां प्रिये

在这世间,儿子究竟属于谁?妻子与良善亲族又属于谁?对不信者而言,这一切都不真属于他——亲爱的,请听我细说。

Verse 26

दक्षस्यापि सुता यूयं सुन्दर्यश्चैव मामकाः । भवतीनामहं भर्ता कामनापूरकः शुभे

你们确是达克沙的女儿,且容貌端丽,归于我。吉祥者啊,我是你们的夫主,能圆满诸愿。

Verse 27

योजकः पालकश्चैव रक्षकोस्मि वरानने । कस्माद्वैरं कृतं क्रूरैरसुरैरजितात्मभिः

美颜者啊,我是安排者、护持者、守护者。为何那些心不受制的残暴阿修罗竟结下仇怨?

Verse 28

तव पुत्रा महाभागे सत्यधर्मविवर्जिताः । तेन दोषेण ते सर्वे तव दोषेण वै शुभे

尊贵的夫人啊,你的儿子们远离真实与正法。因那过失,他们都担其咎;确然如此,吉祥者啊,此亦由你的过失所致。

Verse 29

निहता वासुदेवेन दैवतैस्तु निपातिताः । तस्माच्छोको न कर्तव्यः सत्यमोक्षविनाशनः

他们被婆苏提婆所诛,也确由诸天击倒。因此你不应悲伤;悲伤确会毁坏解脱之道。

Verse 30

शोको हि नाशयेत्पुण्यं क्षयात्पुण्यस्य नश्यति । तस्माच्छोकं परित्यज विघ्नरूपं वरानने

忧愁确能毁坏功德;功德一旦减损,便趋于消亡。故当舍离忧伤,端颜者啊,因为它化作障碍。

Verse 31

आत्मदोषप्रभावेण दानवा मरणं गताः । देवा निमित्तभूताश्च नाशिताः स्वेन कर्मणा

由于自身过失之力,达那婆众走向死亡;而诸天虽仅为因缘之具,亦因自身业行而遭毁灭。

Verse 32

एवं ज्ञात्वा महाभागे समागच्छ सुखं प्रति । एवमुक्त्वा महायोगी तां प्रियां दुःखभागिनीम्

“既已知此,福德的夫人啊,来趋向安乐。”如是说罢,大瑜伽行者对那位分担忧苦的爱侣开示。

Verse 33

विषादाच्च निवृत्तोसौ विरराम महामतिः

又因沮丧而退转,那位大心者遂止息而安住。