Adhyaya 57
Bhumi KhandaAdhyaya 5739 Verses

Adhyaya 57

The Tale of Sukalā: Illusion, Desire, and the Testing of a Chaste Wife (within the Vena Cycle)

在《大地篇》(Bhūmi-khaṇḍa)与维那(Vena)相关的叙事脉络中,本章展开一场关于幻力(māyā)与欲望的道德与心理考验,核心人物是贞顺的妻子苏迦拉(Sukalā)。大地女神(Bhūmi)出于“游戏/戏乐”(krīḍā)化作近似萨蒂(Satī)的形相,前来试探贤妻;对方以真实之言回应,申明丈夫乃女子之首要“福分”(strī-bhāgya)。苏迦拉对被遗弃的哀叹,与经论式的教诫相对照,凸显夫妇之道的尊严。 随后场景转至如难陀那(Nandana)般璀璨的林苑与能灭罪的圣地(tīrtha),幻相引苏迦拉进入充满享乐与诱惑的境界。因陀罗(Indra)与爱神迦摩(Kāma)登场;迦摩阐释欲望如何凭借记忆中的形色与心念执著而生起,并能变现诸相以迷惑众生。章末,花箭之主(Kusumāyudha)准备以箭试射贞洁之妻,凸显欲(kāma)与坚守正法(dharma)之间的严峻抉择。

Shlokas

Verse 1

विष्णुरुवाच । क्रीडा सतीरूप धरा प्रभूत्वा गेहं गता चारु पतिव्रतायाः । तामागतां सत्यस्वरूपयुक्ता सा सादरं वाक्यमुवाच धन्या

毗湿奴说:大地出于戏乐,化作萨蒂之形,施展威力,来到那位美丽而守贞誓的妻子之家。她到来时,那位具真理之性、蒙福的女子恭敬地说了这些话。

Verse 2

वाक्यैः सुपुण्यैः परिपूजिता सा उवाच क्रीडा सुकलां विहस्य । मायानुगं विश्वविमोहनं सती प्रत्युत्तरं सत्यप्रमेयुक्तम्

她以极具功德的言辞受到了礼敬,便含笑以优雅的戏谑开口。随后,那位贤德的女子以真理为据作出回答,直面那随从幻力(māyā)、迷惑世间者。

Verse 3

ममापि भर्ता प्रबलो गुणज्ञो धीरः सविद्यो महिमाप्रयुक्तः । त्यक्त्वा गतः पापतरांसुपुण्यो मामेव नाथः शृणु पुण्यकीर्तिः

我的丈夫也曾强盛,明辨德行,坚毅而有学识,具足尊严与伟大;然而他竟舍我而去,那位有功德之人却投向更为罪恶之辈。噢主啊,请聆听,噢具圣名者:他本是我真正的护佑者。

Verse 4

वाक्यैस्तु पुण्यैरबलास्वभावादाकर्ण्य सर्वं सुकला समुक्तम् । संशुद्धभावां च विचिंत्य चाह कस्माद्गतः सुंदरि तेऽद्य नाथः

听完苏卡拉所说的一切——以女子质朴之性所吐露的功德之语——她思量其清净之心,继而说道:“美丽的女子啊,你的夫主今日为何离去?”

Verse 5

विहाय ते रूपमतीव सत्यमाचक्ष्व सर्वं भवती सुभर्तुः । ध्यानोपयुक्ता सकलं करोति सखीस्वरूपा गृहमागता मे

暂且放下你的容色,请如实告诉我关于你那善良夫君的一切。若心沉入观想,便能成就诸事。你以友人之身来到我家。

Verse 6

क्रीडा बभाषे शृणु सत्यमेतं चरित्रभावं मम भर्त्तुरस्य । अहं प्रिये यस्य सदैव युक्ता यमिच्छते तं प्रतिसांत्वयामि

克里达说道:“听着——这就是真实:我丈夫的行止与性情如此,亲爱的,我总是随顺他所亲近之人;凡他所欲者,我便设法安抚,使之和合。”

Verse 7

कर्तुः सुपुण्यं वचनं सुभर्तुर्ध्यानोपयुक्ता सकलं करोमि । एकांतशीला सगुणानुरूपा शुश्रूषयैकस्तमिहैव देवि

女神啊,我在观想中专注不移,圆满奉行我施行者——我那高贵夫君——最具功德的命令。我独居自守,随顺其德行,只在此处侍奉他一人。

Verse 8

मम पूर्व विपाकोऽयं संप्रत्येव प्रवर्तते । यतस्त्यक्त्वा गतो भर्त्ता मामेवं मंदभागिनीम्

这是我往昔业报的成熟,如今立刻结成果报——因为我的丈夫弃我而去,使我如此孤零,成了命薄的女子。

Verse 9

सखे न धारये जीवं स्वकीय कायमेव च । पत्याहीनाः कथं नार्यः सुजीवंति च निर्घृणाः

朋友啊,我已无力支撑此生——连自己的身体也难以维系。失去丈夫的女子怎能活下去?命运竟如此无情。

Verse 10

रूपशृंगारसौभाग्यं सुखं संपच्च नान्यथा । नारीणां हि महाभागो भर्ता शास्त्रेषु गीयते

美貌、妆饰、福分、安乐与丰盛——唯有这些,别无他物,被说为真正属于女子;因为在诸经论(śāstra)中,丈夫被赞为女子最大的福德。

Verse 11

तया सर्वं समाकर्ण्य यदुक्तं क्रीडया तदा । सत्यभावं विदित्वा सा मेने संभाषितं तदा

她听尽当时戏言般的话语,便识得其中真实之意,于是将其当作真诚之言。

Verse 12

विश्वस्ता सा महाभागा सुकला पतिदेवता । तामुवाच पुनः सर्वमात्मचेष्टानुगं वचः

那位信任而有福的苏迦罗(Sukalā)——以夫为天、奉夫如神——又被以完全契合其心意与行止的话语再次告知。

Verse 13

समासेन समाख्यातं पूर्ववृत्तांतमात्मनः । यथा भर्ता गतो यात्रां पुण्यसाधनतत्परः

我已略述自己往昔的旧事——我的夫君如何踏上朝圣之旅,一心致力于成就功德。

Verse 14

आत्मदुःखं सुसत्यं च तप एव मनस्विनि । बोधिता क्रीडया सा तु समाश्वास्य पतिव्रता

“自身之苦、真实之言与苦行(tapas)——这确是正道,坚毅的女士啊。”虽似戏言而受此教诲,那位贞顺的妻子仍抚慰并使其安心。

Verse 15

सूत उवाच । एकदा तु तया प्रोक्तं क्रीडया सुकलां प्रति । सखे पश्य वनं सौम्यं दिव्यवृक्षैरलंकृतम्

苏多说道:有一次,她戏言对苏迦罗说:“朋友,看这片温柔可爱的森林,点缀着神圣的树木。”

Verse 16

तत्र तीर्थं परं पुण्यमस्ति पातकनाशनम् । नानावल्लीवितानैश्च सुपुष्पैः परिशोभितम्

那里有一处至为神圣的渡口圣地(tīrtha),能灭除罪垢;又以繁多藤蔓华盖与美丽花朵装点得分外庄严。

Verse 17

आवाभ्यामपि गंतव्यं पुण्यहेतोर्वरानने । समाकर्ण्य तया सार्द्धं सुकला मायया तदा

“我们也当去,容颜姣好的你啊,为求积聚功德。”听罢此言,苏迦罗便以其幻力(māyā)随她同往。

Verse 18

प्रविवेश वनं दिव्यं नंदनोपममेव सा । सर्वर्तुकुसुमोपेतं कोकिलाशतनादितम्

她步入一片奇妙的天界森林,宛如那陀那园本身;四时繁花点缀其间,百千杜鹃啼声回荡。

Verse 19

गीयमानं सुमधुरैर्नादैर्मधुकरैरपि । कूजद्भिः पक्षिभिः पुण्यैः पुण्यध्वनिसमाकुलम्

其中回响着极其甘美的音声,连蜜蜂也似在歌唱;圣鸟四方啁啾,使吉祥之声充满其间。

Verse 20

चंदनादिकवृक्षैश्च सौरभैश्च विराजितम् । सर्वभोगैः सुसंपूर्णं माधव्या माधवेन वै

檀香等芬芳之树使其增辉,甜美香气灿然四溢;诸般享乐皆备圆满——诚然,由摩达维与摩达婆共同成就。

Verse 21

रचितं मोहनायैव सुकलायाश्च कारणात् । तया सार्धं प्रविष्टा सा तद्वनं सर्वभावनम्

此林唯为迷人而造,亦因苏迦拉之缘;她与其同行,步入那片森林——一处令万情皆悦、万心皆醉的幽苑。

Verse 22

ददर्श सौख्यदं पुण्यं मायाभावं न विंदति । वीक्षमाणा वनं दिव्यं तया सह जनेश्वर

他见到那清净赐乐的圣境,却不觉有丝毫幻相(摩耶)。凝望这天界森林之时,人中王者与她一同前行。

Verse 23

शक्रोपि चाभ्ययात्तत्र देवमूर्तिविराजितः । तया दूत्या समं प्राप्तः कामस्तत्र समागतः

在那里,天帝释迦(因陀罗)也来到,显现辉煌的神圣形相;爱欲之神迦摩亦至,与那位女使者同到此处。

Verse 24

सर्वभोगपतिर्भूत्वा कामलीलासमाकुलः । काममाह समाभाष्य एषा सा सुकुला गता

他既成一切享乐之主,又沉迷于爱欲嬉戏,便与迦摩交谈说道:“那位出身良族的美丽少女苏库拉已离去了。”

Verse 25

प्रहरस्व महाभाग क्रीडायाः पुरतः स्थिताम् । मायां कृत्वा समानीता क्रीडया तव संनिधौ

大福者啊,击中那站在克里达之前的她吧。凭借幻力(摩耶),克里达在嬉戏中已将她引至你面前。

Verse 26

पौरुषं दर्शयाद्यैव यद्यस्ति कुरु निश्चितम् । काम उवाच । आत्मरूपं दर्शयस्व चतुरं लीलयान्वितम्

就在今日显出你的男子雄威;若你真有此力,便当决然行事。迦摩说道:“显现你自身真实之形——机巧而具嬉游之妙。”

Verse 27

येनाहं प्रहराम्येतां पंचबाणैः सहस्रदृक् । इंद्र उवाच । क्वास्ते ते पौरुषं मूढ येन लोकं विडंबसे

“凭此我将以五箭击中她,”千眼者(因陀罗)说道。因陀罗又说:“愚者啊,你那用来戏弄世间的男子气概究竟在哪里?”

Verse 28

ममाधारपरोभूत्वा योद्धुमिच्छसि सांप्रतम् । काम उवाच । तेनापि देवदेवेन महादेवेन शूलिना

“依靠我的支持,你现在想要战斗,”伽摩说道。“即使是那位众神之神——手持三叉戟的大天(Mahādeva)——”

Verse 29

पूर्वमेव हृतं रूपं ममकायो न विद्यते । इच्छाम्यहं यदा नारीं हंतुं शृणुष्व सांप्रतम्

“我的形体早已被夺去;我不再拥有自己的躯体。然而当我想要毁灭一个女人时,且听我现在所做的。”

Verse 30

पुंसां कायं समाश्रित्य आत्मरूपं प्रदर्शये । पुमांसं वा सहस्राक्ष नार्याः कार्यं समाश्रये

“依附于男子的身体,我显现自己的形态;或者,千眼者(Sahasrākṣa)啊,依附于男子,我承担起属于女子的任务。”

Verse 31

पूर्वदृष्टा यदा नारी तामेव परिचिंतयेत् । चिंत्यमानस्य पुंसस्तु नार्यारूपं पुनःपुनः

“当一个男子曾经见过一个女子,他便只想着她;对于那个沉浸在思念中的男子来说,那女子的形象一次又一次地浮现。”

Verse 32

अदृष्टं तु समाश्रित्य पुंसमुन्मादयाम्यहम् । तथाप्युन्मादयाम्येवं नारीरूपं न संशयः

“依托于无形之中,我驱使男子陷入疯狂;即便如此,毫无疑问,我也正是以这种方式,通过女子的形态让他痴狂。”

Verse 33

संस्मरणात्स्मरो नाम मम जातं सुरेश्वर । तां दृष्ट्वा तादृशोरंग वस्तुरूपं समाश्रये

噢诸天之主,仅由忆念之力,我心中生起名为“Smara”(欲)的存在。见到她,噢蛇身者,我归依于真实之实相本性。

Verse 34

आत्मतेजः प्रकाशेन बाध्यबाधकतां व्रजेत् । नारीरूपं समाश्रित्य धीरं पुरुषं प्रमोहयेत्

凭自身内在威光的照耀,可达既不受缚亦不缚人的境地;然而若依女相而现,亦能迷惑连坚定之人。

Verse 35

पुरुषं तु समाश्रित्य भावयामि सुयोषितम् । रूपहीनोस्मि हे इंद्र अस्मद्रूपं समाश्रयेत्

依托于男子而住,我便能化为贤淑之女。我无美貌,噢因陀罗;愿她取我之形。

Verse 36

तवरूपं समाश्रित्य तां साधये यथेप्सिताम् । एवमुक्त्वा स देवेंद्रं कायं तस्य महात्मनः

“取汝之形,我将如其所愿而成就。”言毕,他趋近天帝因陀罗,进入那位大魂者之身。

Verse 37

सखासौ माधवस्यापि समाश्रित्य सुमायुधः

那位苏摩优陀,作为友人依止于摩达婆,

Verse 38

तामेव हंतुं कुसुमायुधोपि साध्वीं सुपुण्यां कृकलस्य भार्याम् । समुत्सुकस्तिष्ठति बाणलक्षं तस्याश्च कायं नयनैर्विलोक्य

他急欲杀害她——克里卡拉之妻,那位贞洁而至善的贤女。花箭之主库苏玛阿瑜陀(伽摩)以双目凝视其身后,立于原地,张弓待发,将她当作箭的靶心。

Verse 57

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित्रे सप्तपंचाशत्तमोऽध्यायः

至此,《圣莲华往世书》大地品中“维那传”之“苏卡拉行传”第五十七章圆满结束。