
Vena’s Fall into Adharma and the Prelude to Pṛthu’s Birth
《莲华往世书》2.38 叙述韦那王堕入非法之道:他拒斥吠陀,令祭祀(yajña)与婆罗门的诵习衰败,并自我神化,要求众人唯独敬拜他,致使罪业遍布国土。七位仙人——梵天之子——劝诫他以正法(dharma)护持三界;韦那却傲慢回应,自称即是法本身,强令专一崇拜。 诸圣震怒追逐,韦那藏身蚁丘仍被擒获,并对其身施行神话式的“搅拌/摩擦”。其左手生出可怖的尼沙陀族首领(Barbara),其右手随后诞生普利图(Pṛthu),为复兴者,能“挤乳”大地,使之流出丰饶。章末指出:韦那后来得以回转并升至毗湿奴的居处,皆系于普利图之功德与毗湿奴统摄万有的复原之力。
Verse 1
सूत उवाच । एवं संबोधितो वेनः पापभावं गतः किल । पुरुषेण तेन जैनेन महापापेन मोहितः
苏多(Sūta)说:如此被劝说后,维那王(Vena)果然堕入罪性;他被那位耆那教之人所迷惑,而那人本身亦是大罪者。
Verse 2
नमस्कृत्य ततः पादौ तस्यैव च दुरात्मनः । वेदधर्मं परित्यज्य सत्यधर्मादिकां क्रियाम्
随后,他向那恶人之足顶礼,竟舍弃吠陀之法与以真实、正义为本的诸行。
Verse 3
सुयज्ञानां निवृत्तिः स्याद्वेदानां हितथैव च । पुण्यशास्त्रमयो धर्मस्तदा नैव प्रवर्तितः
善行的祭祀将止息,吠陀所生之福祉亦随之断绝;彼时,由圣典功德之教令所成的达摩全然不复兴起。
Verse 4
सर्वपापमयो लोकः संजातस्तस्य शासनात् । नैव यागाश्च वेदाश्च धर्मशास्त्रार्थमुत्तमम्
因其统治,世间尽成罪垢之地;祭祀不行,吠陀不彰,连《法论》(Dharmaśāstra)之至上旨趣亦不复存。
Verse 5
न दानाध्ययनं विप्रास्तस्मिञ्छासति पार्थिवे । एवं धर्मप्रलोपोभून्महत्पापं प्रवर्तितम्
当那国王如此施政之时,婆罗门既不行布施(dāna),亦不修习诵读吠陀(adhyayana)。于是达摩衰微,大罪流行。
Verse 6
अंगेन वार्यमाणस्तु अन्यथा कुरुते भृशम् । न ननाम पितुः पादौ मातुश्चैव दुरात्मवान्
纵使以力制止,他却愈加乖戾而行;那心性邪恶者不向父亲之足顶礼,也不向母亲之足顶礼。
Verse 7
सनकस्यापि विप्रस्य अहमेकः प्रतापवान् । पित्रा निवार्यमाणश्च मात्रा चैव दुरात्मवान्
即便在婆罗门圣者萨那迦的族人之中,唯我一人自恃威力;纵然父亲与母亲屡屡约束,我仍怀邪恶之性。
Verse 8
न करोति शुभं पुण्यं तीर्थदानादिकं कदा । आत्मभावानुरूपं च बहुकालं महायशाः
噢,声名卓著者,长久以来他从不行吉祥功德之事——如朝礼圣地(tīrtha)与布施(dāna)——也不依真实的自知而行。
Verse 9
पुनः सर्वैर्विचार्यैवं कस्मात्पापी व्यजायत । अंगप्रजापतेः पुत्रो वंशलाञ्छनमागतः
于是众人又如此反复思量,便问道:“此罪人为何而生?生自生主(Prajāpati)安伽(Aṅga)之子,竟使宗族蒙羞受玷。”
Verse 10
पुनः पप्रच्छ धर्मात्मा सुतां मृत्योर्महात्मनः । कस्य दोषात्समुत्पन्नो वद सत्यं मम प्रिये
那位持法之人又问大魂死神之女:“此祸患因谁之过而起?我所爱者啊,如实告我。”
Verse 11
सुनीथोवाच । पूर्वमेव स्ववृत्तांतमात्मपुण्यं च नंदिनी । समाचष्ट च अंगाय मम दोषान्महामते
苏尼萨说道:先前,难陀尼已向安伽陈述了她自身的经历与个人功德;而且,噢,大智者,她也告诉了他我的过失。
Verse 12
बाल्ये कृतं मया पापं सुशंखस्य महात्मनः । तपसि संस्थितस्यापि नान्यत्किंचित्कृतं मया
我在童年时曾对大德苏善迦(Suśaṅkha)造下罪业。即便他安住于苦行(tapas)之中,我也未曾做任何其他事来赎罪。
Verse 13
शप्ताहं कुप्यता तेन दुष्टा ते संततिर्भवेत् । इति जाने महाभाग तेनायं दुष्टतां गतः
“若他怀怒满七日,你的后裔将变得邪恶。”我如此明白,尊贵者啊;因此此人便堕入了败坏。
Verse 14
समाकर्ण्य महातेजास्तया सह वनं ययौ । गते तस्मिन्महाभागे सभार्ये च वने तदा
听罢她的话,那位光辉炽盛者便与她同往林野。待那位尊贵之人携妻进入森林之时,便在那时……
Verse 15
सप्तैते ऋषयस्तत्र वेनपार्श्वं गतास्तथा । समाहूय ततः प्रोचुरंगस्य तनयं प्रति
在那里,那七位圣仙(ṛṣi)也来到维那(Vena)身旁;随后召唤他,对安伽(Aṅga)之子说道。
Verse 16
ऋषय ऊचुः । मा वेन साहसं कार्षीःप्रजापालो भवानिह । त्वया सर्वमिदं लोकं त्रैलोक्यं सचराचरम्
圣仙们说:“维那啊,切莫鲁莽行事。你在此是众生之护持者。此整个世界——乃至三界,连同一切有情与无情——都当由你守护。”
Verse 17
धर्मे चैव महाभाग सकलं हि प्रतिष्ठितम् । पापकर्मपरित्यज्य पुण्यं कर्म समाचर
尊贵者啊,一切确实安立于达摩之中。因此,当舍弃罪业,奉行功德之行。
Verse 18
एवमुक्तेषु तेष्वेव प्रहसन्वाक्यमब्रवीत् । वेन उवाच । अहमेव परो धर्मोऽहमेवार्हः सनातनः
他们如此说罢,他便含笑答言。韦那说道:“唯我为至上达摩;唯我为永恒、堪受礼敬者。”
Verse 19
अहं धाता अहं गोप्ता अहं वेदार्थ एव च । अहं धर्मो महापुण्यो जैनधर्मः सनातनः
我是造化者;我是守护者;我确是吠陀义理之本意。我是达摩,至大功德——永恒的耆那达摩。
Verse 20
मामेव कर्मणा विप्रा भजध्वं धर्मरूपिणम् । ऋषय उचुः । ब्राह्मणाः क्षत्त्रिया वैश्यास्त्रयोवर्णा द्विजातयः
“婆罗门啊,当以你们所规定的本分唯独礼敬我,因为我即达摩之体。”诸仙人说道:“婆罗门、刹帝利与吠舍——此三种姓为再生者。”
Verse 21
सर्वेषामेव वर्णानां श्रुतिरेषा सनातनी । वेदाचारेण वर्तंते तेन जीवंति जंतवः
对一切种姓而言,此乃《闻传》(圣启)之永恒教诲:众生依循吠陀之戒律而得以存活。
Verse 22
ब्रह्मवंशात्समुद्भूतो भवान्ब्राह्मण एव च । पश्चाद्राजा पृथिव्याश्च संजातः कृतविक्रमः
你出自梵天(Brahmā)的族系,确为婆罗门;其后又降生为大地之王,以行事证明其英勇。
Verse 23
राजपुण्येन राजेंद्र सुखं जीवंति वै द्विजाः । राज्ञः पापेन नश्यंति तस्मात्पुण्यं समाचर
王中之王啊,凭国王之功德,二次生者(dvija)得以安乐而生;因国王之罪业,他们便趋于毁灭。故当修行福德与正法(puṇya)。
Verse 24
समादृतस्त्वया धर्मः कृतश्चापि नराधिप । त्रेतायुगस्य कर्मापि द्वापरस्य तथा नहि
人中之主啊,你已恭敬并践行正法(dharma);你也行了适合特雷塔纪(Tretā-yuga)的仪轨,却并非如同在德瓦帕罗纪(Dvāpara-yuga)那般施行。
Verse 25
कलेश्चैव प्रवेशं तु वर्त्तयिष्यंति मानवाः । जैनधर्मं समाश्रित्य सर्वे पापप्रमोहिताः
而且确实,人们将促成迦梨纪(Kali-yuga)的进入;依止耆那教(Jaina-dharma),众人皆为罪垢所迷。
Verse 26
वेदाचारं परित्यज्य पापं यास्यंति मानवाः । पापस्य मूलमेवं वै जैनधर्मं न संशयः
舍弃吠陀的行持与规范,人们将堕入罪业。故而确言:耆那教(Jaina-dharma)被说为罪之根本,此无疑也。
Verse 27
अनेन मुग्धा राजेंद्र महामोहेन पातिताः । मानवाः पापसंघातास्तेषां नाशाय नान्यथा
由此,哦大王,众生被大迷惑所欺,沉沦坠落,遂成罪业之聚;而其覆灭,别无他途。
Verse 28
भविष्यत्येव गोविंदः सर्वपापापहारकः । स्वेच्छारूपं समासाद्य संहरिष्यति पातकात्
诚然,Govinda必将显现,祂能除尽一切罪;随祂自在之意取其形相,因众生之恶业而施行毁灭。
Verse 29
पापेषु संगतेष्वेवं म्लेच्छनाशाय वै पुनः । कल्किरेव स्वयं देवो भविष्यति न संशयः
当罪恶如此积聚之时,复又必然为灭除诸mleccha之故,主神亲自将成迦尔吉(Kalki);对此毫无疑虑。
Verse 30
व्यवहारं कलेश्चैव त्यज पुण्यं समाश्रय । वर्तयस्व हि सत्येन प्रजापालो भवस्व हि
舍弃迦利时代所生的世俗营为,当依止功德。以真理而行,确然成为护民之君。
Verse 31
वेन उवाच । अहं ज्ञानवतां श्रेष्ठः सर्वं ज्ञातं मया इह । योऽन्यथा वर्तते चैव स दंड्यो भवति ध्रुवम्
韦那(Vena)说道:“我乃智者之最,一切于此皆为我所知。凡行事有违者,必定当受惩罚。”
Verse 32
अत्यर्थं भाषमाणं तं राजानं पापचेतनम् । कुपितास्ते महात्मानः सर्वे वै ब्रह्मणः सुताः
见那心怀罪念的国王傲慢狂言,诸位大心的梵天之子皆怒火炽然。
Verse 33
कुपितेष्वेव विप्रेषु वेनो राजा महात्मसु । ब्रह्मशापभयात्तेषां वल्मीकं प्रविवेश ह
当大心的婆罗门贤者震怒之时,维那王畏惧婆罗门之诅咒,便遁入蚁丘之中。
Verse 34
अथ ते मुनयः क्रुद्धा वेनं पश्यंति सर्वतः । ज्ञात्वा प्रनष्टं भूपं तं वल्मीकस्थं सुसांप्रतम्
于是诸位圣仙怒而四方搜寻维那;得知国王已失踪,便发现他此刻藏身于蚁丘之内。
Verse 35
बलादानिन्युस्तं विप्राः क्रूरं तं पापचेतनम् । दृष्ट्वा च पापकर्माणं मुनयः सुसमाहिताः
婆罗门们强行带来那残忍而心怀罪念之人;见他沉溺恶业,诸仙便摄心安住,凝神而立。
Verse 36
सव्यं पाणिं ममंथुस्ते भूपस्य जातमन्यवः । तस्माज्जातो महाह्रस्वो नीलवर्णो भयंकरः
他们被怒意所驱,搅拌般揉搓国王的左手;由此生出一可怖之灵,身形极矮,肤色青蓝,令人战栗。
Verse 37
बर्बरो रक्तनेत्रस्तु बाणपाणिर्धनुर्द्धरः । सर्वेषामेव पापानां निषादानां बभूव ह
芭尔芭罗双目赤红,手执箭矢,肩持弓弩,确然成为一切罪恶尼沙陀族之首。
Verse 38
इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्यानेऽष्टत्रिंशोऽध्यायः
至此,尊贵《莲华往世书》之《大地品》中“维那王传说”第三十八章圆满结束。
Verse 39
ममंथुर्दक्षिणं पाणिं वेनस्यापि महात्मनः । तस्माज्जातो महात्मा स येन दुग्धा वसुंधरा
他们甚至搅拌了大魂维那的右手;由此诞生那位大士,凭他使大地被“挤乳”而出产万物。
Verse 40
पृथुर्नाम महाप्राज्ञो राजराजो महाबलः । तस्य पुण्यप्रसादाच्च वेनो धर्मार्थकोविदः
有一位名为普利图的君王:至慧无比,王中之王,威力广大。凭其福德的圣恩,连维那也成为通晓法(dharma)与利(artha)之人。
Verse 41
चक्रवर्तिपदं भुक्त्वा प्रसादात्तस्य चक्रिणः । जगाम वैष्णवं लोकं तद्विष्णोः परमं पदम्
承蒙那位转轮圣王之恩,享受了转轮王位之后,他前往毗湿奴信众之界——即毗湿奴的至上住处。