Adhyaya 30
Bhumi KhandaAdhyaya 3085 Verses

Adhyaya 30

Episode of Vena: The Power of Association and Revā (Narmadā) Tīrtha

本章开端,诸仙(ṛṣi)询问:罪王维那(Vena)如何堕落,最终得何果报。苏多(Sūta)遂以层层嵌套的叙述作答,引出往昔普罗娑提耶(Pulastya)与毗湿摩(Bhīṣma)的对话,使教诲在古圣传承中展开。 经文强调“僧伽”(saṅga,结交/相处)的力量:与贤善者相近,德行因接触而增长;与恶人相杂,罪业因相随而扩散——从观看、言谈、触碰、同坐到同食皆然。随后以瑞瓦河(Revā,即纳尔玛达 Narmadā)的事例显明圣地威德(tīrtha-prabhāva):凶暴的猎人乃至禽兽坠入圣水,尤其在阿摩婆娑夜(Amāvāsyā)相会之时,亦得净化,趋向更高的归宿。 叙事再转回维那之染污与阎摩/摩利提优(Yama/Mṛtyu)所主的业报秩序,并引出摩利提优之女苏尼塔(Sunīthā)。她对苦行者苏善迦(Suśaṅkha)失礼而招致诅咒,预示将诞生一位亵渎诸神与婆罗门(brāhmaṇa)之子,从而铺陈维那的道德谱系。

Shlokas

Verse 1

ऋषय ऊचुः । योऽसौ वेनस्त्वयाख्यातः पापाचारेण वर्तितः । तस्य पापस्य का वृत्तिः किं फलं प्राप्तवान्द्विज

诸仙人说道:“你所述那位以罪行而行的维那,他的罪业经过如何?又得到了什么果报?噢,两次生者。”

Verse 2

चरित्रं तस्य वेनस्य समाख्याहि यथा पुरा । विस्तरेण विदां श्रेष्ठ त्वं न एतन्महामते

噢,学者中最胜者,噢,大慧者,请如往昔一般,详尽宣说维那王的全部事迹。

Verse 3

सूत उवाच । चरित्रं तस्य वेनस्य वैन्यस्यापि महात्मनः । प्रवक्ष्यामि सुपुण्यं च यथान्यायं श्रुतं पुरा

苏多说道:我将依正理宣说那位维那的极具功德之事迹,并且也叙述大心者维因雅的传记,如同久远以前所闻。

Verse 4

जाते पुत्रे महाभागस्तस्मिन्पृथौ महात्मनि । विमलत्वं गतो राजा धर्मत्वं गतवान्पुनः

当那位大心之子普利图诞生时,国王便成了大福之人;他获得清净,并再次回归于达摩之正道。

Verse 5

महापापानि सर्वाणि अर्जितानि नराधमैः । तीर्थसंगप्रसंगेन तेषां पापं प्रयाति च

最卑劣之人所积聚的一切重罪皆可消散;仅凭与神圣的提尔塔(圣地、渡口)相触相近,其罪亦随之离去。

Verse 6

सतां संगात्प्रजायेत पुण्यमेव न संशयः । पापानां तु प्रसंगेन पापमेव प्रजायते

与贤善之人相处,必生功德,毫无疑问;而与罪恶之人相交,则唯生罪业。

Verse 7

संभाषाद्दर्शनात्स्पर्शादासनाद्भोजनात्किल । पापिनां संगमाच्चैव किल्बिषं परिसंचरेत्

确实,据说因交谈、相见、触碰、同坐与同食,罪垢也会流布;尤其因与罪人相交,过失更易蔓延。

Verse 8

तथा पुण्यात्मकानां च पुण्यमेव प्रसंचरेत् । महातीर्थप्रसंगेन पापाः शुध्यंति नान्यथा

同样,在具善德之人中,唯有功德流布而相续。唯由亲近大圣地(mahātīrtha),诸罪得以净除;非此则不然。

Verse 9

पुण्यां गतिं प्रयान्त्येते निर्द्धूताशेष कल्मषाः । ऋषय ऊचुः । तत्कथं यांति ते पापाः परां सिद्धिं द्विजोत्तम

他们抖落一切余垢,得至吉祥之境。诸仙(ṛṣi)曰:“然而这些罪人如何能达至无上成就?噢,最胜二生者(dvija)!”

Verse 10

तन्नो विस्तरतो ब्रूहि श्रोतुं श्रद्धा प्रवर्तते

因此请为我等详尽宣说;我等欲闻之信心已然生起。

Verse 11

सूत उवाच । लुब्धकाश्च महापापाः संजाता दासधीवराः । रेवा च यमुना गंगास्तासामंभसि संस्थिताः

苏多(Sūta)曰:“贪婪而大罪之人,转生为奴仆与渔夫(dhīvara),居于瑞瓦(Revā)、亚穆那(Yamunā)与恒河(Gaṅgā)之水中。”

Verse 12

ज्ञानतोऽज्ञानतः स्नात्वा संक्रीडंति च वै जले । महानद्याः प्रसंगेन ते यांति परमां गतिम्

无论知与不知,凡在水中沐浴嬉游者,由亲近大圣河之缘,皆得至无上归趣。

Verse 13

दासत्वं पापसंघातं परित्यज्य व्रजंति ते । पुण्यतोयप्रसंगाच्च ह्याप्लुताः सर्व एव ते

他们舍弃奴役之缚——罪业的积聚——而离去;因与圣水相接触,确然他们全都得以净化,如同沐浴一般。

Verse 14

महानद्याः प्रसंगाच्च अन्यासां नैव सत्तमाः । महापुण्यजनस्यापि पापं नश्यति पापिनाम्

因亲近伟大的圣河,连其他水域也变得殊胜;又因接触大功德之人,连罪人之罪亦得消灭。

Verse 15

प्रसंगाद्दर्शनात्स्पर्शान्नात्र कार्या विचारणा । अत्रार्थे श्रूयते विप्रा इतिहासोऽघनाशनः

仅凭相近、仅凭一见、仅凭一触——此处无需再作思量。就此事而言,婆罗门啊,传闻有一则能灭罪的古史(itihāsa)。

Verse 16

तं वो अद्य प्रवक्ष्यामि बहुपुण्यप्रदायकम् । कश्चिदस्ति मृगव्याधः सुलोभाख्यो महावने

如今我将为你们宣说这能赐予丰厚功德的故事:在一片大森林中,住着一位猎鹿人,名叫苏洛婆(Sulobha)。

Verse 17

श्वभिर्वागुरिजालैश्च धनुर्बाणैस्तथैव च । मृगान्घातयते नित्यं पिशितास्वादलंपटः

他带着猎犬,用套索与罗网,又以弓箭为具,日日猎杀群鹿——贪恋肉味,沉溺不已。

Verse 18

एकदा तु सुदुष्टात्मा बाणपाणिर्धनुर्धरः । श्वभिः परिवृतो दुर्गं वनं विंध्यस्य वै गतः

有一次,一个极其邪恶之人,手执弓箭的射手,被群犬环绕,走入温迪亚地区那险恶的森林。

Verse 19

मृगान्रुरून्वराहांश्च भीतान्सूदितवान्बहून् । रेवातीरं समासाद्य कश्चिच्छफरघातकः

他杀害了许多惊恐的鹿、鲁鲁羚与野猪之后,有个捕鱼杀生者来到瑞瓦(纳尔马达)河岸。

Verse 20

शफरान्सूदयित्वा स निर्जगाम बहिर्जलात् । मृगव्याधस्य लोभस्य भयत्रस्ता ततो मृगी

杀尽舍法罗鱼后,她从水中出来;随后那母鹿因猎人贪欲而惊惧,仓皇逃遁。

Verse 21

जीवत्राणपरा सार्ता भीता चलितचेतना । त्वरमाणा पलायंती रेवातीरं समाश्रिता

为保全性命,那队商旅惊惶失措、心神摇动,急忙奔逃,投靠于瑞瓦河岸。

Verse 22

श्वभिश्च चालिता सा तु बाणघातक्षतातुरा । श्वसनस्यापि वेगेन सुलभो मृगघातकः

她被群犬驱赶,因箭伤而痛苦不堪;那猎鹿者甚至凭着呼吸般的迅疾,也轻易追上了她。

Verse 23

पृष्ठ एव समायाति पुरतो याति सा मृगी । दृष्टवांस्तां शफरहा बाणपाणिः समुद्यतः

那雌鹿先从身后靠近,又跑到前方。见到她,名为Śapharahā者手执箭矢,起身戒备,准备射击。

Verse 24

धनुरानम्य वेगेन अनुरुध्य च तां मृगीम् । तावल्लुब्धक लोभाख्यः श्वभिः सार्द्धं समागतः

他迅速拉弯弓弦,紧追那雌鹿不放;就在此时,名叫Lobha的猎人带着群犬赶到。

Verse 25

न हंतव्या मदीयेयं मृगयां मे समागता । तस्य वाक्यं समाकर्ण्य मीनहा मांसलंपटः

“不可杀害;这场属于我的狩猎既已来到此处,也不应行杀戮。”听到这番话,那屠鱼者——贪恋肉味——便起了反应。

Verse 26

बाणं मुमोच दुष्टात्मा तामुद्दिश्य महाबलः । निहता मृगलुब्धेन बाणेन निशितेन च

那心怀恶念、力大无比之人向她放出一箭;雌鹿遂被猎人那锋利尖锐的箭矢所杀。

Verse 27

प्रमृता सा मृगी तत्र बाणाभ्यां पापचेतसोः । श्वभिर्दंतैः समाक्रांता त्वरमाणा पपात सा

在那里,雌鹿被那两名恶念之人的箭矢重创;又遭群犬利齿撕咬,她惊惶挣扎,急促间倒地。

Verse 28

शिखराच्च ह्रदे पुण्ये रेवायाः पापनाशने । श्वानश्च त्वरमाणास्ते पतिता विमले ह्रदे

他们从山巅坠入圣湖——属于瑞瓦河、能灭罪的净池;那些狗也急奔猛冲,扑通落入清净无垢的湖中。

Verse 29

मृगव्याधो वदत्येव धीवरं क्रोधमूर्च्छितः । मदीयेयं मृगी दुष्ट कस्माद्बाणैर्हता त्वया

猎人被怒火冲昏,便对渔夫说道:“恶人!这母鹿是我的,你为何用箭将她射杀?”

Verse 30

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने त्रिंशोऽध्यायः

至此,《圣莲花往世书》大地品中“维那因缘”第三十章圆满结束。

Verse 31

युध्यमानौ ततस्तौ तु द्वावेतौ तु परस्परम् । क्रोधलोभान्महाभागौ पतितौ विमले जले

随后二人彼此争斗,虽称豪杰,却因嗔怒与贪欲而坠入澄澈清净之水中。

Verse 32

तस्मिन्काले महापर्व वर्तते गतिदायकम् । अमावास्या समायोगं महापुण्यफलप्रदम्

就在那时,兴起一项大圣行,能赐予至上的归趣;这正是阿摩婆娑耶(新月日)的会合,带来无量功德之果。

Verse 33

वेलायां पतिताः सर्वे पर्वणस्तस्य सत्तम । जपध्यानविहीनास्ते भावसत्यविवर्जिताः

噢,至善的贤者,他的一切神圣戒行皆已败落;既无持诵(japa)与禅观,又失却真诚之心与真实不妄。

Verse 34

तीर्थस्नानप्रसंगेन मृगी श्वा च स लुब्धकः । सर्वपापविनिर्मुक्तास्ते गताः परमां गतिम्

因在圣地渡口(tīrtha)沐浴之缘,那雌鹿、那犬与那猎人——尽脱诸罪——同得至上归趣。

Verse 35

तीर्थानां च प्रभावेण सतां संगाद्द्विजोत्तमाः । नाशयेत्पापिनां पापं दहेदग्निरिवेंधनम्

凭诸圣地(tīrtha)之威德,亦凭与善人圣众相交,噢最胜的二次生者,能灭罪人之罪,如火焚尽薪柴。

Verse 36

सूत उवाच । तेषामेवं हि संसर्गादृषीणां च महात्मनाम् । संभाषाद्दर्शनान्नष्टं स्पर्शाच्चैव नृपस्य च

苏多说道:确然,由与那些大心圣仙相交——与之言谈、得其瞻见,乃至蒙其触及——国王的垢染与苦患便被消除。

Verse 37

वेनस्य कल्मषं नष्टं सतां संगात्पुरा किल । अत्युग्रपुण्यसंसर्गात्पापं नश्यति पापिनाम्

诚然,往昔维那(Vena)的垢染因与善人相交而灭;因为接触极其猛烈的福德(puṇya),罪人之罪便得消尽。

Verse 38

अत्युग्रपापिनां संगात्पापमेव प्रसंचरेत् । मातामहस्य दोषेण संलिप्तो वेन एव सः

与极其凶恶的罪人相交,唯有罪业蔓延。因其外祖父之过失而受染污——确然,他正是韦那(Vena)本人。

Verse 39

ऋषय ऊचुः । मातामहस्य को दोषस्तं नो विस्तरतो वद । स मृत्युः स च वै कालः स यमो धर्म एव च

诸圣仙曰:“外祖父有何过失?请为我等详说。他是死亡;他确是时间;他是阎摩(Yama);他亦是法(Dharma)本身。”

Verse 40

न हिंसको हि कस्यापि पदे तस्मिन्प्रतिष्ठितः । चराचराश्च ये लोकाः स्वकर्मवशवर्तिनः

暴虐之人决不能安住于彼等境地(真实的灵性位)。一切世界——动与不动的众生——皆随自业(karma)之力而转。

Verse 41

जीवंति च म्रियंते च भुंजंत्येवं स्वकर्मभिः । पापाः पश्यंति तं घोरं तेषां कर्मविपाकतः

他们生而复死,亦如是以自作之业受其果报。罪人因业报成熟而见彼可怖之相。

Verse 42

निरयेषु च सर्वेषु कर्मणैवं सुपुण्यवान् । योजयेत्ताडयेत्सूत यम एष दिनेदिने

于一切地狱之中,依各自之业,阎摩(Yama)——噢,苏多(Sūta)——分派众生并令其受责罚,日复一日。

Verse 43

सर्वेष्वेव सुपुण्येषु कर्मस्वेवं सपुण्यवान् । योजयत्येव धर्मात्मा तस्य दोषो न दृश्यते

因此,具德之人以虔敬之心投身于一切极其殊胜的福业;如此正直之灵,未见其招致任何过失。

Verse 44

स मृत्योः केन दोषेण पापी वेनस्त्वजायत । सूत उवाच । स मृत्युः शासको नित्यं पापानां दुष्टचेतसाम्

“因何过失,Mṛtyu(死神)而生出罪人维那?”苏多答曰:“彼Mṛtyu恒为心念邪恶之罪人之惩戒者与统御者。”

Verse 45

वर्तते कालरूपेण तेषां कर्म विमृश्यति । दुष्कृतं कर्म यस्यापि कर्मणा तेन घातयेत्

时间以其本相运行,衡量他们的业行。纵使有人造作恶业,也当以行动本身来灭除之——以相应的善行对治。

Verse 46

तस्य पापं विदित्वाऽसौ नयत्येवं हि तं यमः । सुकृतात्मा लभेत्स्वर्गं कर्मणा सुकृतेन वै

知其罪业,阎摩便如此牵引而去;然具善德之性者,确能凭借善业而得生天界。

Verse 47

योजयत्येष तान्सर्वान्मृत्युरेव सुदूतकैः । महता सौख्यभावेन गीतमंगलकारिणा

诚然,死神亲自借其善能使者召集并安置一切众生;且以极大的和悦之态行之,歌唱吟诵,发出吉祥之音。

Verse 48

दानभोगादिभिश्चैव योजयेच्च कृतात्मकान् । पीडाभिर्विविधाभिश्च क्लेशैः काष्ठैश्च दारुणैः

他也应以罚金、没收等惩治心性邪恶之人,使其受种种折磨、艰苦与严厉沉重的刑罚所压迫。

Verse 49

त्रासयेत्ताडयेद्विप्रान्स क्रोधो मृत्युरेव तान् । कर्मण्येवं हि तस्यापि व्यापारः परिवर्तते

若有人恐吓或殴打婆罗门,那怒火本身便成其死亡;因为如此行径,连他行正业的能力也被颠覆,转为相反之道。

Verse 50

मृत्योश्चापि महाभाग लोभात्पुण्यात्प्रजायते । सुनीथा नाम वै कन्या संजातैषा महात्मनः

噢有福者,亦从死神摩利提优(Mṛtyu)那里——因其对功德的贪著——诞生了一位名为苏尼塔(Sunīthā)的女儿;她便由那大魂者而生。

Verse 51

पितुःकर्म विमृश्यैव क्रीडमाना सदैव सा । प्रजानां शास्ति कर्तारं पुण्यपापनिरीक्षणम्

她省察父亲的业行,常常嬉游;然而她却是众生的惩戒者、法度的执行者,并审察功德与罪过者。

Verse 52

सा तु कन्या महाभागा सुनीथा नाम तस्य सा । रममाणा वनं प्राप्ता सखीभिः परिवारिता

那位最有福的少女,名为苏尼塔(Sunīthā),欢然来到林中,自得其乐,身旁环绕着诸位女伴。

Verse 53

तत्रापश्यन्महाभागं गंधर्वतनयं वरम् । गीतकोलाहलस्यापि सुशंखं नाम सा तदा

在那里,她看见一位尊贵卓越的乾闼婆之子,名为苏善迦(Suśaṅkha),立于歌声喧腾、众音嘈杂之间。

Verse 54

ददर्श चारुसर्वांगं तप्यंतं सुमहत्तपः । गीतविद्यासु सिद्ध्यर्थं ध्यायमानं सरस्वतीम्

他看见一位肢体秀美、匀称端严者,行持极大苦行,为成就歌咏与学艺之圆满而观想礼念萨拉斯瓦蒂(Sarasvatī)。

Verse 55

तस्योपघातमेवासौ सा चकार दिने दिने । सुशंखः क्षमते नित्यं गच्छगच्छेति सोऽब्रवीत्

她日日加害于他;而苏善迦(Suśaṅkha)恒常忍受,并对她说道:“去吧——去吧。”

Verse 56

प्रेषिता नैव गच्छेत्सा विघ्नमेव समाचरेत् । तेनाप्युक्ता सा हि क्रुद्धा ताडयत्तपसि स्थितम्

纵使被差遣,她也不肯前往,反而故意制造障碍;即便他出言相劝,她仍怒火炽盛,击打那安住苦行之人。

Verse 57

तामुवाच ततः क्रुद्धः सुशंखः क्रोधमूर्च्छितः । दुष्टे पापसमाचारे कस्माद्विघ्नस्त्वया कृतः

于是苏善迦(Suśaṅkha)怒不可遏,向她说道:“恶女,行止罪秽,你为何造作此等障碍?”

Verse 58

ताडनात्ताडनं दुष्टे न कुर्वंति महाजनाः । आक्रुष्टा नैव कुप्यंति इति धर्मस्य संस्थितिः

高贵之人被恶人击打也不以击还击;即使受辱亦不生嗔怒——此乃正法(dharma)之定则。

Verse 59

त्वयाहं घातितः पापे निर्दोषस्तपसान्वितः । एवमुक्त्वा स धर्मात्मा सुनीथां पापचारिणीम्

“我本无罪,且具苦行(tapas),却被你这罪人所杀。”说罢,那位正直之人对作恶的苏尼塔(Sunīthā)如是告诫。

Verse 60

विरराम महाक्रोधाज्ज्ञात्वा नारीं निवर्तितः । ततः सा पापमोहाद्वा बाल्याद्वा तमिहैव च

他知其为女子,便止息盛怒而退。随后她——或因罪业迷惑,或因稚愚——就在此地对他做了那件事。

Verse 61

समुवाच महात्मानं सुशंखं तपसि स्थितम् । त्रैलोक्यवासिनां तातो ममैव परिघातकः

他对安住苦行的伟大之灵苏尚卡(Suśaṅkha)说道:“慈父啊,他就是袭击者,实乃三界众生的毁灭者。”

Verse 62

असतो घातयेन्नित्यं सत्यान्स परिपालयेत् । नैव दोषो भवेत्तस्य महापुण्येन वर्तयेत्

当恒常制伏恶人,护持真实之人。如此行者毫无过失,乃依大福德(puṇya)而行。

Verse 63

एवमुक्त्वा गता सा तु पितरं वाक्यमब्रवीत् । मया हि ताडितस्तात गंधर्वतनयो वने

说罢,她前去对父亲说道:“父亲啊,在林中我击打了乾闼婆之子。”

Verse 64

तपस्तपन्सदैकांते कामक्रोधविवर्जितः । स मामुवाच धर्मात्मा क्रोधरागसमन्वितः

他修行苦行,常住独处,远离欲与嗔;那位具法之心者对我开口——然而当时却夹杂着怒与染。

Verse 65

ताडयेन्नैव ताडंतं क्रोशंतं नैव क्रोशयेत् । इत्युवाच स मां तात तन्मे त्वं कारणं वद

“人不应回击击人者,也不应回喊喊叫者。”他如此对我说:“孩子啊,把其中缘由告诉我。”

Verse 66

एवमुक्तः स वै मृत्युः सुनीथां द्विजसत्तमाः । किंचिन्नोवाच धर्मात्मा प्रश्नप्रत्युत्तरं ततः

被如此问及,死神——噢,诸位最胜的二次生者——对苏尼塔全然无言;那位具法者亦沉默,问答遂止。

Verse 67

वनं प्राप्ता पुनः सा हि सुशंखो यत्र संस्थितः । कराघातैस्ततो दौष्ट्याद्घातितस्तपतां वरः

随后她又来到苏商迦所住之林;出于纯然的恶意,她以手击打,将那最胜苦行者击倒。

Verse 68

सुशंखस्ताडितो विप्रा मृत्योश्चैव हि कन्यया । ततः क्रुद्धो महातेजाः शशाप तनुमध्यमाम्

婆罗门啊,苏善迦被那位少女击打;她实乃死亡之化身。于是那位威光炽盛者震怒,诅咒了那纤腰的少女。

Verse 69

निर्दोषो हि यतो दुष्टे त्वयैव परिताडितः । अहमत्र वने संस्थस्तस्माच्छापं ददाम्यहम्

因你这恶人击打了无辜之者,而我又居于此林中——故我今宣告诅咒。

Verse 70

गार्हस्थ्यं च समास्थाय सह भर्त्रा यदा शृणु । पापाचारमयः पुत्रो देवब्राह्मणनिंदकः

且听:当她与夫同入居家之期(家住法),却背离正道时,便会生出一子,行径尽是罪恶,并诋毁诸天与婆罗门。

Verse 71

सर्वपापरतो दुष्टे तव गर्भे भविष्यति । एवं शप्त्वा गतः सोपि तप एव समाश्रितः

“恶女啊,你的胎中将生出一个全然趋向诸罪之人。”如此下诅咒后,他亦离去,唯依苦行(tapas)而住。

Verse 72

गते तस्मिन्महाभागे सा सुनीथा गृहं गता । समाचष्ट महात्मानं पितरं तप्तमानसा

当那位福德具足的尊者离去后,苏尼萨回到家中;心中为忧苦所灼,她将此事禀告其大心之父。

Verse 73

यथा शप्ता तदा तेन गंधर्वतनयेन सा । तत्सर्वं संश्रुतं तेन मृत्युना परिभाषितम्

正如她当时被乾闼婆之子所诅咒一般,这一切也都被他——死神——听闻;随后死神便依其缘由对她开口说道。

Verse 74

कस्मात्कृतस्त्वयाघातस्तपति दोषवर्जिते । युक्तं नैव कृतं पुत्रि सत्यस्यैव हि ताडनम्

你为何击打她,哦无过之人?这令我痛心。女儿啊,此举并不相宜——因为被击打的,实乃真理本身。

Verse 75

एवमाभाष्य धर्मात्मा मृत्युः परमदुःखितः । बभूव स हि तत्तस्यादिष्टमेवं विचिंतयन्

如此言毕,死神虽本性正直,却极其悲恸;他沉思着:这确是加诸于他的命令。

Verse 76

सूत उवाच । अत्रिपुत्रो महातेजा अंगो नाम प्रतापवान् । एकदा तु गतो विप्रा नंदनं प्रति स द्विजः

苏多说道:阿特里之子,名为昂伽的大威光婆罗门,英勇而有威德。某日,诸婆罗门啊,那位两次生者前往难陀那——天界的欢悦林苑。

Verse 77

तत्र दृष्ट्वा देवराजं तमिंद्रं पाकशासनम् । अप्सरसां गणैर्युक्तं गंधर्वैः किन्नरैस्तथा

在那里,他见到天神之王因陀罗——惩治帕迦者——身旁簇拥着众多阿普萨拉斯,又有乾闼婆与紧那罗相随。

Verse 78

गीयमानं गीतगैश्च सुस्वरैः सप्तकैस्तथा । वीज्यमानं सुगंधैश्च व्यजनैः सर्व एव सः

他被善歌者以清妙之声依七音歌颂;又从四面以芬芳之扇为他轻拂纳凉。

Verse 79

योषिद्भी रूपयुक्ताभिश्चामरैर्हंसगामिभिः । छत्रेण हंसवर्णेन चंद्रबिंबानुकारिणा

美貌女子执拂尘侍立,步态如天鹅般娴雅;又有一柄天鹅般洁白的华盖覆荫,宛如月轮。

Verse 80

राजमानं सहस्राक्षं सर्वाभरणभूषितम् । कामक्रीडागतं देवं दृष्टवानमितौजसम्

他见到千眼天神因陀罗,光辉灿然,佩戴诸般宝饰;为爱乐之戏而来,威光无量。

Verse 81

तस्य पार्श्वे महाभागां पौलोमीं चारुमंगलाम् । रूपेण तेजसा चैव तपसा च यशस्विनीम्

在他身旁立着大福吉祥的保罗弥,因容色与光辉而著名,亦以苦行而有盛誉。

Verse 82

सौभाग्येन विराजंतीं पातिव्रत्येन तां सतीम् । तया सह सहस्राक्षः स रेमे नंदने वने

那位贞德之妻以福泽与“守夫之誓”(pativratā)之力而光耀夺目。与她同在,千眼者因陀罗在难陀那林苑中尽享欢悦。

Verse 83

तस्य लीलां समालोक्य अंगश्चैव द्विजोत्तमः । धन्यो वै देवराजोऽयमीदृशैः परिवारितः

目睹其神圣的戏游,安伽——最尊贵的二次生者——说道:“诚然,这位天神之王真是有福,得以被如此崇高的眷属所环绕。”

Verse 84

अहोऽस्य तपसो वीर्यं येन प्राप्तं महत्पदम् । यदा ममेदृशः पुत्रः सर्वलोकप्रधारकः

啊,他苦行(tapas)的威力何其强大!凭此他已证得至高之位。我何时才能得一子如他,能荷担并护持一切世界?

Verse 85

भवेत्तदा महत्सौख्यं प्राप्स्यामीह न संशयः । इति चिंतापरो भूत्वा त्वरमाणो गृहागतः

“那时必将生起大乐;毫无疑问,我将在此得之。”他如此思量,心神专注,便匆匆返回家中。