
Narrative of King Pṛthu: Chastising and Milking the Earth
《莲花往世书》2.29以普利图王(Pṛthu)的事迹阐明王法(rājadharma):大地女神(Vasundharā)被描绘为扣留滋养之物,使众生受困。经文说明,为公共福祉而惩治“扰乱世界者”,其用刑并非罪业。大地因畏惧而化作母牛,被箭所伤,遂归顺正义的统治。 普利图平整山岳与地势以恢复秩序,继而以“挤乳”之法开启繁荣:先从大地取出谷物与食粮,建立祭祀食物的循环,使诸天与祖灵得满足,并回馈为甘雨与丰收。章节又列举诸类众生的不同“挤乳”——天神、祖灵、那伽、阿修罗、夜叉、罗刹、乾闼婆,以及山岳与树木等——最终以赞颂诗礼赞大地为满愿的宇宙之母,富饶如大吉祥天(Mahālakṣmī)。末尾宣说闻听功德(śravaṇa-phala):聆听此章能净化身心,得至毗湿奴之境。
Verse 1
पृथुरुवाच । हते चैव महापापे एकस्मिन्पापचारिणि । लोकाः सुखेन जीवंति साधवः पुण्यदर्शिनः
普利图说:当那个大罪人——那个唯一的作恶者——被诛杀后,人们便能安居乐业,而那些明辨功德的义人也将兴旺发达。
Verse 2
तस्मादेकं प्रहर्तव्यं पापिष्ठं पापचेतनम् । तस्मात्त्वां हि हनिष्यामि सर्वसत्त्वप्रणाशिनीम्
因此,必须击倒这个邪恶至极、心怀恶念的生物。所以,我定要杀了你——你是所有众生的毁灭者。
Verse 3
त्वया बीजानि सर्वाणि लुप्तान्येतानि सांप्रतम् । ग्रासं कृत्वा स्थिरीभूत्वा प्रजां हत्वा क्व यास्यसि
因为你,所有这些种子现在都被毁坏了。在吞噬了它们并稳固了自己的地位之后,在杀害了众生之后——你要去哪里?
Verse 4
हते पापे दुराचारे सुखं जीवंतिसाधवः । तस्मात्पापं प्रहंतव्यं सत्यमेवं न संशयः
当罪恶与邪行被消灭时,义人便能幸福地生活。因此必须击溃罪恶——这是真理,毫无疑问。
Verse 5
पालितव्यं प्रयत्नेन यस्माद्धर्मः प्रवर्द्धते । भवत्या तु महत्पापं प्रजासंक्षयकारकम्
必须竭力守护它,因为正法(Dharma)由此增长。但你正在犯下大罪——这将导致人民的毁灭。
Verse 6
एकस्यार्थेन यो हन्यादात्मनो वा परस्य वा । लोकोपतापकं हत्वा न भवेत्तस्य पातकम्
如果某人为了他人的利益而杀戮——无论是为了自己的利益还是为了他人——只要杀的是折磨世间者,他就没有罪过。
Verse 7
सुखमेष्यंति बहवो यस्मिंस्तु निहते शुभे । वसुधे निहते दुष्टे पातकं नोपपातकम्
当那位吉祥者被杀时,许多人将获得幸福。但当邪恶的瓦苏达(Vasudhā)被杀时,这根本不是罪过,甚至连轻微的过失都算不上。
Verse 8
प्रजानिमित्तं त्वामेव हनिष्यामि न संशयः । यदि मे पुण्यसंयुक्तं वचनं न करिष्यति
为了人民的缘故,如果你不执行我正义的命令,我必将击倒你——这一点毫无疑问。
Verse 9
जगतोऽस्य हितार्थाय साधु चैव वसुंधरे । हनिष्ये त्वां शितैर्बाणैर्मद्वाक्यात्तु पराङ्मुखीम्
噢,婆孙陀罗(大地母亲),为此世界之福祉——理当如此——我将以锐利之箭击你,因为你背离了我的命令。
Verse 10
स्वीयेन तेजसा चैव पुण्यां त्रैलोक्यवासिनीम् । प्रजां चैव धरिष्यामि धर्मेणापि न संशयः
凭我自身的灵光与威德,我必定护持遍住三界的圣众;并以正法(达摩)养护众生——毫无疑虑。
Verse 11
मच्छासनं समास्थाय धर्मयुक्तं वसुंधरे । इमाः प्रजा आज्ञया मे संजीवय सदैव हि
噢,大地啊,既依达摩安住于我正当之座,便当奉我之命,使这些众生得以常常存活与滋养。
Verse 12
एवं मे शासनं भद्रे अद्य यर्हि करिष्यसि । ततः प्रीतोऽस्मि ते नित्यं गोपायिष्यामि सर्वदा
噢,吉祥者啊,若你今日奉行我的诏令,我便恒常欢喜于你,并将时时护佑你。
Verse 13
त्वामेव हि न संदेह अन्ये चैव नृपोत्तमाः । धेनुरूपेण सा पृथ्वी बाणांचितकलेवरा
确然是你——毫无疑惑;其余诸位亦为最胜之王。那大地化作母牛之形,身躯被箭矢刺穿,遍布其上。
Verse 14
उवाचेदं पृथुं वैन्यं धर्माधारं महामतिम् । धरण्युवाच । तवादेशं महाराज सत्यपुण्यार्थसंयुतम्
大地对普利图·韦尼亚——那位大智、承载正法者——说道:“大王,你的命令与真实、功德及崇高的旨意相应相合。”
Verse 15
प्रजानिमित्तमत्यर्थं विधास्यामि न संशयः । उद्यमेनापि पुण्येन उपायेन नरेश्वर
为了众生之故,我必定成就此事——毫无疑虑——以正当的勤勉与恰当的方法,大王啊。
Verse 16
समारंभाः प्रसिद्ध्यंति पुण्याश्चैवाप्युपक्रमाः । उपायं पश्य राजेंद्र येन त्वं सत्यवान्भवेः
诸般努力终得成就,吉祥的开端也确实结出果报。因此,万王之王啊,请观照那使你守信、言出必真的方法。
Verse 17
धारयेथाः प्रजाश्चेमा येन सर्वाः प्रवर्द्धये । संलग्नाश्चोत्तमा बाणा ममांगे ते शिलाशिताः
“扶持这些众生,使他们都得增长兴盛。那些上好的石尖之箭,如今正嵌在我的身躯之中。”
Verse 18
समुद्धर स्वयं राजंश्छल्यंति भृशमेव ते । समां कुरु महाराज तिष्ठेन्मयि यथा पयः
大王啊,请你亲自将它拔出——你的随从正使我痛楚不堪。大王,请将其整平,使水得以安住于我之中。
Verse 19
सूत उवाच । धनुषोग्रेण ताञ्छैलान्नानारूपान्गुरूंस्तथा । उत्सारयंस्ततः सर्वां समरूपां चकार सः
苏多说:他以弓尖驱逐那些形态各异、沉重无比的群山,继而使大地尽皆平坦齐一。
Verse 20
तदाप्रभृति ते शैला वृद्धिमापुर्द्विजोत्तमाः । तस्या अंगात्स्वयं बाणान्स्वकीयान्नृपनंदनः
自那时起,噢最胜婆罗门,那些群山便开始增长。王子亦亲自从她(大地)的身体中生出属于自己的箭矢。
Verse 21
समुद्धृत्य ततो वैन्यः प्रीतेन मनसा तदा । गर्ताश्च कंदराश्चैव बाणाघातैः समीकृताः
随后,韦尼亚心怀欢喜,托举起(大地);诸坑洼与沟壑也因其箭击之力而被抹平。
Verse 22
एवं पृथ्वद्यंसमां सर्वां चकार पुण्यवर्द्धनः । समीकृत्य महाभागो वत्सं तस्या व्यकल्पयत्
如是,普尼亚瓦尔达那使全地平正齐整;那位大德在整顿万事之后,为她(大地)安立了一头小牛。
Verse 23
मनुं स्वायंभुवं पूर्वं परिचिंत्य पुनः पुनः । अतीतेष्वथ सर्वेषु मन्वंतरेषु सत्तमाः
噢至善之人,当一再思惟最初的自生摩奴(Svāyambhuva Manu),并以此观照一切已逝的诸摩奴劫(Manvantara)。
Verse 24
विषमत्वं गता भूमिः पंथा नासीच्च कुत्रचित् । समानि विषमाण्येवं स्वयमासन्द्विजोत्तमाः
大地已变得崎岖不平,处处都没有合宜的道路。于是,在平坦之处与险涩之地,最殊胜的二次生者(婆罗门)各自安住其间。
Verse 25
पूर्वं मनोश्चाक्षुषस्य प्राप्ते चैवांतरे तदा । जाते पूर्वविसर्गे च विषमे च धरातले
往昔,当恰克舒沙·摩奴的摩奴期到来之时,又当先前的创造已然发生之际——在那大地表面不平之时——
Verse 26
ग्रामाणां च पुराणां च पत्तनानां तथैव च । देशानां क्षेत्रपन्नानां मर्यादा न हि दृश्यते
无论村落、古老聚居地与城邑,亦无论诸国土与圣田之境,其界限确实不可见、难以分明。
Verse 27
कृषिर्नैव न वाणिज्यं न गोरक्षा प्रवर्तते । नानृतं भाषते कश्चिन्न लोभो न च मत्सरः
既无耕作,亦无贸易,也不行牧牛之业;无人说妄语,亦无贪欲与嫉妒。
Verse 28
नाभिमानं च वै पापं न करोति कदा किल । वैवस्वतस्य संप्राप्ते अंतरे द्विजसत्तम
诚然,他从不在任何时候犯下傲慢之罪,噢,最胜二次生者;此乃在毗婆斯瓦塔到来之际的时期(毗婆斯瓦塔摩奴期)所言。
Verse 29
इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे । पृथूपाख्याने एकोनत्रिंशोऽध्यायः
至此,《圣莲花往世书》(Śrī Padma Purāṇa)之《大地篇》(Bhūmi-khaṇḍa)中《普利图传》(Pṛthu 传)第二十九章圆满结束,隶属五万五千颂之汇编。
Verse 30
क्वचिद्भूमौ गिरौ क्वापि नदीतीरेषु वै तदा । कुंजेषु सर्वतीर्थेषु सागरस्य तटेषु च
或在旷野之地,或在群山之间,或在河岸之畔;或居林苑之中,于一切圣渡(tīrtha)之处,亦在大海之滨。
Verse 31
निवासं चक्रिरे सर्वाः प्रजाः पुण्येन वै तदा । तासामाहारः संजातः फलमूलमधुस्तथा
于是凭借福德(puṇya),众生皆安立居处;他们的资粮化为果实、根茎,并且还有甘蜜。
Verse 32
महता कृच्छ्रेण तासामाहारश्च द्विजोत्तमाः । पृथुर्वैन्यः समालोक्य प्रजानां कष्टमेव हि
噫,最胜婆罗门啊,他们的食粮唯以极大艰辛方得。普利图·韦尼亚见众民受苦,遂凝视其困厄。
Verse 33
स्वायंभुवो मनुर्वत्सः कल्पितस्तेन भूभुजा । स्वपाणिः कल्पितस्तेन पात्रमेवं महामते
噢,亲爱者,那位国王立自生摩奴(Svāyambhuva Manu)为“犊”;又立其自身之手为器皿——正是如此,噢,大心者。
Verse 34
स पृथुः पुरुषव्याघ्रो दुदोह वसुधां तदा । सर्वसस्यमयं क्षीरं ससर्वान्नं गुणान्वितम्
于是,普利图——人中之虎——挤取大地之乳;流出的乳汁含摄一切谷粮,具足诸食,德性圆满。
Verse 35
तेन पुण्येन चान्नेन सुधाकल्पेन ताः प्रजाः । तृप्तिं नयंति देवान्वै प्रजाः पितॄंस्तथापरान्
凭借那功德之食,妙如甘露,众人确能令诸天欢喜,也同样令祖灵及其他众生得以满足。
Verse 36
प्रसादात्तस्य वैन्यस्य सुखं जीवंति ताः प्रजाः । देवेभ्यश्च पितृभ्यश्च दत्वा चान्नं प्रजास्ततः
蒙维尼亚王之恩,臣民安乐而生;继而众人先以食物供奉诸天与祖灵,便依正法而住。
Verse 37
ब्राह्मणेभ्यो विशेषेणअतिथिभ्यस्तथैव च । पश्चाद्भुंजंति पुण्यास्ताः प्रजाः सर्वा द्विजोत्तमाः
先恭敬供养婆罗门,尤其如此,并同样款待宾客;随后这些贤善之人——噢,最胜二生者——方才进食。
Verse 38
यज्ञैश्चान्ये यजंत्येव तर्पयंति जनार्दनम् । तेन चान्नेन देवेशं तृप्तिं गच्छंति देवताः
另有人以祭祀而敬拜,由此令阇那尔达那欢喜;凭借那供献之食,诸天在天主之主前得获满足。
Verse 39
पुनर्वर्षति पर्जन्यः प्रेषितो माधवेन च । तस्मात्पुण्या महौषध्यः संभवंति सुपुण्यदाः
随后,奉摩达婆(Mādhava)之命的雨云再度降雨;由此生起神圣的大药草,赐予丰厚功德。
Verse 40
सस्यजातानि सर्वाणि पृथुर्वैन्यः प्रजापतिः । तेनान्नेन प्रजाः सर्वा वर्तंतेऽद्यापि नित्यशः
一切耕种的谷物作物,皆由生主(Prajāpati)普利图·韦尼亚(Pṛthu Vainya)所生;凭此食粮,众生至今仍恒常得以存续。
Verse 41
ऋषिभिश्चैव मिलितैर्दुग्धा चेयं वसुंधरा । पुनर्विप्रैर्महाभाग्यैः सत्यवद्भिः सुरैस्तथा
诚然,诸仙(ṛṣi)会集之时,此大地被汲取如乳;又复由大福德、说真语的婆罗门,以及诸天(deva)同样如此。
Verse 42
सोमो वत्सस्वरूपोभूद्दोग्धा देवगुरुः स्वयम् । ऊर्जं क्षीरं पयः कल्पं येन जीवंति चामराः
苏摩(Soma)化作小牛之形,诸天之师亲自为挤乳者;由此得出滋养之乳,能续命、适于此劫,诸不死者(amara)赖之而生。
Verse 43
तेषां सत्येन पुण्येन सर्वे जीवंति जंतवः । सत्यपुण्ये प्रवर्तंते ऋषिदुग्धा वसुंधरा
凭他们的真实与圣德,一切众生得以存活;大地在真与善中运行,仿佛由诸仙挤乳而得滋养。
Verse 44
अथातः संप्रवक्ष्यामि यथा दुग्धा इयं धरा । पितृभिश्च पुरा वत्स विधिना येन वै तदा
如今我将宣说:往昔此大地如何被诸位Pitṛ(祖灵)所“挤乳”,亲爱的孩子,又是依何等规定之法,在那古远时代完成的。
Verse 45
सुपात्रं राजतं कृत्वा स्वधा क्षीरं सुधान्वितम् । परिकल्प्य यमं वत्सं दोग्धा चांतक एव सः
他先制成一只上好的银器为盛器,并在其中备置掺和svadhā供献与甘露精华之乳;又立阎摩(Yama)为犊,而安多迦(Antaka,死神)亲自为挤乳者。
Verse 46
नागैः सर्पैस्ततो दुग्धा तक्षकं वत्समेव च । अलाबुपात्रमादाय विषं क्षीरं द्विजोत्तमाः
随后又挤取诸那伽与群蛇之乳,以多叉迦(Takṣaka)为犊;而诸位最胜的两生者执葫芦为器,所挤出的“乳”却是毒液。
Verse 47
नागानां तु तथा दोग्धा धृतराष्ट्रः प्रतापवान् । सर्पा नागा द्विजश्रेष्ठास्तेन वर्तंति चातुलाः
至于诸那伽,则由威力赫赫的持国(Dhṛtarāṣṭra)为挤乳者。噫,两生者之最胜者啊,凭借他,群蛇与那伽得以存续,且大得满足。
Verse 48
नागा वर्तंति तेनापि ह्यत्युग्रेण द्विजोत्तमाः । विषेण घोररूपेण सर्पाश्चैव भयानकाः
因此,两生者之最胜者啊,那伽亦四处游行,极其凶猛;群蛇同样可怖,形相骇人,并具可怕之毒。
Verse 49
तेनैव वर्तयंत्युग्रा महाकाया महाबलाः । तदाहारास्तदाचारास्तद्वीर्यास्तत्पराक्रमाः
他们唯以此而生——凶猛之众,身躯伟岸,力大无比;其食如是,其行如是,其精进之力如是,其威武之勇亦如是。
Verse 50
अथातः संप्रवक्ष्यामि यथा दुग्धा वसुंधरा । असुरैर्दानवैः सर्वैः कल्पयित्वा द्विजोत्तमाः
今当宣说大地如何被“挤乳”——待诸阿修罗与檀那婆尽皆备办妥当之后,噢,最胜之二次生者。
Verse 51
पात्रमत्रान्नसदृशमायसं सर्वकामिकम् । क्षीरं मायामयं कृत्वा सर्वारातिविनाशनम्
此处铸成一只铁器之器皿——与食量相称,能满一切所愿;又以幻力(māyā)使乳化为如幻之乳,成为摧灭诸敌之力。
Verse 52
तेषामभूत्स वै वत्सो विरोचनः प्रतापवान् । ऋत्विग्द्विमूर्द्धा दैत्यानां मधुर्दोग्धा महाबलः
在他们之中,作“犊”者实为光耀的毗卢遮那(Virocana),威德炽盛;为檀底耶众之祭司者为双首者(Dvimūrdhā),而大力的摩度(Madhu)为挤乳者。
Verse 53
तया हि मायया दैत्याः प्रवर्त्तंते महाबलाः । महाप्रज्ञा महाकाया महातेजः पराक्रमाः
诚然,凭借那般幻力(māyā),大力的檀底耶众被驱使而起——慧识广大,身形宏巨,威光炽然,勇武卓绝。
Verse 54
तद्बलं पौरुषं तेषां तेन जीवंति दानवाः । तयैते माययाद्यापि सर्वमाया द्विजोत्तमाः
那力量——亦即他们的雄健勇武——维系着诸达那婆;正凭此幻力(māyā),直到今日他们仍迷惑一切众生,噢,最胜的二次生者。
Verse 55
प्रवर्तंते मितप्रज्ञास्ते तदेषामिदं बलम् । तथा तु दुग्धा यक्षैः सा सर्वाधारासु मेदिनी
那些慧量适中的人使诸事运转——这确是他们的力量。同样地,那承载万有的大地,当时也被夜叉众所汲乳。
Verse 56
इति शुश्रुम विप्रेंद्राः पुराकल्पे महात्मभिः । अंतर्धानमयं क्षीरमयस्पात्रे सुविस्तरे
我们曾如此听闻,噢,婆罗门之最胜者:在远古劫中由大圣者所传——有一器皿由乳所成,广大铺展,并具隐没之力(不可见)。
Verse 57
वैश्रवणो महाप्राज्ञस्तदा वत्सः प्रकल्पितः । मणिधरस्य पिता पुण्यः प्राज्ञो बुद्धिमतां वरः
当时,具大智慧的毗舍罗伐那(Vaiśravaṇa)被立为“犊”(Vatsa);他是摩尼持(Maṇidhara)之贤善之父,明辨而为智者之冠。
Verse 58
दोग्धा रजतनाभस्तु तस्याश्चासीन्महामतिः । सर्वज्ञः सर्वधर्मज्ञो यक्षराजसुतो बली
其汲乳者为罗阇多那婆(Rajatanābha);又有一位大心者在场——遍知一切、通达诸法(dharma)——即夜叉王之子、强力的婆利(Bali)。
Verse 59
अष्टबाहुर्महातेजा द्विशीर्षः सुमहातपाः । यक्षावर्तंत तेनापि सर्वदैव द्विजोत्तमाः
他具八臂,光辉炽盛;又有二首,苦行威严。因其缘故,噢,最胜的二生者(婆罗门)啊,夜叉亦恒常巡守,时刻警觉不息。
Verse 60
पुनर्दुग्धा इयं पृथ्वी राक्षसैश्च महाबलैः । तथा चैषा पिशाचैश्च सातुरैर्दग्धवारिभिः
此大地又一次被强力的罗刹“榨取至枯竭”;亦被毗舍遮所侵夺——困苦焦渴,仿佛其水分尽被焚灼而干涸。
Verse 61
उत्प्लुतं नृकपालं तं शावपात्रमयः कृतम् । सुप्रजां भोक्तुकामास्ते तीव्रकोपपराक्रमाः
那人头骨忽然跃现于前,被制成尸器之碗。众者—怒焰炽盛、凶猛逞强—立于其处,欲吞食那贤淑的女子。
Verse 62
दोग्धा रजतनाभस्तु तेषामासीन्महाबलः । सुमाली नाम वत्सश्च शोणितं क्षीरमेव च
在他们之中,强大的罗阇檀那婆(Rajatanābha)充作挤乳者;名为苏摩梨(Sumālī)者为犊。所挤出的却是血——确然是血,代替了乳。
Verse 63
रक्षांसि यातुधानाश्च पिशाचाश्च महाबलाः । यक्षास्तेन च जीवंति भूतसङ्घाश्च दारुणाः
强大的罗刹、夜徒陀那与毗舍遮皆以此为生;夜叉亦然,乃至可怖的诸部鬼众(Bhūta)亦赖此存活。
Verse 64
गंधर्वैरप्सरोभिश्च पुनर्दुग्धा वसुंधरा । कृत्वा वत्सं सुविद्वांसं तैश्च चित्ररथं पुनः
大地又被乾闼婆与阿普萨罗众所“挤乳”;他们以至慧之士为犊,再次汲取其乳,并与奇多罗罗陀同作此事。
Verse 65
दुदुहुः पद्मपात्रे तु गांधर्वं गीतसंकुलम् । सुरुचिर्नाम गंधर्वस्तेषामासीन्महामतिः
他们把充满歌咏的天界乾闼婆乐,倾注于莲华之杯中。其中有一位名为苏鲁奇的乾闼婆,智慧宏深。
Verse 66
दोग्धा पुण्यतमश्चैव तस्याश्च द्विजसत्तमाः । शुचिगीतं महात्मानः सुक्षीरं दुदुहुस्तदा
其时,最具功德的挤乳者与诸最胜二生者——那些大心之士——从她那里挤出至纯、以清净歌声相应的上妙乳汁。
Verse 67
गंधर्वास्तेन जीवंति अन्याश्चाप्सरसस्तथा । पर्वतैश्च महापुण्यैर्दुग्धा चेयं वसुंधरा
凭借那如甘露之精华,乾闼婆得以生存,阿普萨罗亦复如是。又因诸大功德之山岳,此大地仿佛被挤乳而流出其宝藏。
Verse 68
रत्नानि विविधान्येव ओषधीश्चामृतोपमाः । वत्सश्चैव महाभागो हिमवान्परिकल्पितः
种种宝珠,以及堪比甘露的灵药草木;并且那大福之“犊”亦被安立——喜马梵(雪山王)被如法任命。
Verse 69
मेरुर्दोग्धा च संजातः पात्रं कृत्वा तु शैलजम् । तेन क्षीरेण संवृद्धाः शैलाः सर्वे महौजसः
须弥山成为挤乳者,又制成一只山生之器;诸山由彼乳所滋养,尽皆增长,威力无比。
Verse 70
पुनर्दुग्धा महावृक्षैः पुण्यैः कल्पद्रुमादिभिः । पालाशं पात्रामानिन्युश्छिन्नदग्धप्ररोहणम्
又被诸圣大树所挤乳,如能满愿的劫树等;他们带来一只以帕拉沙木制成的器皿,即使砍断焚烧亦能再生萌芽。
Verse 71
शालो दुदोह पुष्पांगः प्लक्षो वत्सोऽभवत्तदा । गुह्यकैश्चारणैः सिद्धैर्विद्याधरगणैस्तदा
其时挤乳于娑罗树,由普什帕昂伽为挤乳者;而榕叶无花果树(Plakṣa)为犊,诸隐神、歌神、成就者与持明众皆在场。
Verse 72
दुग्धा चेयं सर्वधात्री सर्वकामप्रदायिनी । यं यमिच्छंति ये लोकाः पात्रवत्सविशेषणैः
此(母牛)能出乳,普遍养育,赐与一切所愿之福。众生所求,皆如愿得,随其器之堪受与犊之差别而定。
Verse 73
तैस्तैस्तेषां ददात्येव क्षीरं सद्भावमीदृशम् । इयं धात्री विधात्री तु इयं श्रेष्ठा वसुंधरा
她确实随其所应而赐予乳汁,如此慈善之性。此大地为养育者、为安排者;此持财大地(Vasuṃdharā)最为殊胜。
Verse 74
सर्वकामदुघा धेनुरियं पुण्यैरलंकृता । इयं ज्येष्ठा प्रतिष्ठा तु इयं सृष्टिरियं प्रजा
此乃满愿之神牛,以功德为饰。她确为最古之根基;她即是创造本身——她即是一切众生之族类。
Verse 75
पावनी पुण्यदा पुण्या सर्वसस्य प्ररोहिणी । चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च
她是净化者,赐福德者,自身亦圣,令一切五谷萌发。她是动与不动万有之依止,亦确为万物之胎藏与本源。
Verse 76
महालक्ष्मीरियं विद्या सर्वविश्वमयी सदा । सर्वकामदुघा दोग्ध्री सर्वबीजप्ररोहिणी
此智慧即是摩诃拉克什弥本身,恒常遍满整个宇宙。她是能挤出一切所愿之乳者,亦是令诸种子悉皆萌发者。
Verse 77
सर्वेषां श्रेयसां माता सर्वलोकधरा इयम् । पंचानामपि भूतानां प्रकाशो रूपमेव च
她是一切吉祥之母,承载诸世界。即便对五大元素而言,她亦是其光明本身与形相本身。
Verse 78
असीदियं समुद्रांता मेदिनीति परिश्रुता । मधुकैटभयोः कृत्स्ना मेदसा समभिप्लुता
此大地四周为海所界,素以“梅迪尼(Medinī)”之名著称;因为它曾被魔众马杜与凯塔婆之脂(medas)完全淹没。
Verse 79
तेनेयं मेदिनी नाम प्रोच्यते ब्रह्मवादिभिः । ततोभ्युपगमात्प्राज्ञ पृथोर्वैन्यस्य सत्तमाः
因此,此大地为阐明梵(Brahman)之诸贤称为“梅迪尼”(Medinī);又因她接纳了他,智者啊,世间最善之人皆以她与维那之子普利图(Pṛthu)相联系而知之。
Verse 80
दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते । तेन राज्ञा द्विजश्रेष्ठाः पालितेयं वसुंधरा
既得“女儿”之位,这位女神便被称为“普利提毗”(Pṛthvī)。噢,最胜的二次生者啊,正是那位国王护持了这位“持宝大地”(Vasundharā)。
Verse 81
ग्रामाधारं गृहाणां च पुरपत्तनमालिनी । सस्याकरवती स्फीता सर्वतीर्थमयी द्विजाः
噢,二次生者们啊,她正是村落与家宅之依止,点缀以城邑与市镇;田畴矿藏丰饶,兴盛富足,并且具足一切圣地朝圣处的神圣。
Verse 82
एवं वसुमती देवी सर्वलोकमयी सदा । एवं प्रभावो राजेंद्रः पुराणे परिपठ्यते
如是,女神瓦苏玛蒂(Vasumatī,大地)恒常遍含诸世界。如是,噢,诸王之最胜者,她的伟大在《普拉那》中被诵述。
Verse 83
पृथुर्वैन्यो महाभागः सर्वकर्मप्रकाशकः । यथा विष्णुर्यथा ब्रह्मा यथा रुद्रः सनातनः
维那之子普利图(Pṛthu)大有福德,能显发并照明一切正法之行——如毗湿奴(Viṣṇu),如梵天(Brahmā),如永恒的鲁陀罗(Rudra)。
Verse 84
नमस्कार्यास्त्रयो देवा देवाद्यैर्ब्रह्मवादिभिः । ब्राह्मणैरृषिभिः सर्वैर्नमस्कार्यो नृपोत्तमः
三位神明堪受虔敬礼拜;诸天中最尊者与宣说梵(Brahman)之师亦当受礼。诸婆罗门与一切圣仙(ṛṣi)皆应致敬;同样,最上之王亦堪受顶礼。
Verse 85
वर्णानामाश्रमाणां यः स्थापकः सर्वलोकधृक् । पार्थिवैश्च महाभागैः पार्थिवत्वमिहेप्सुभिः
那位建立诸种姓秩序(varṇa)与人生住期(āśrama)、并荷持一切世界者——为求此世王权的有福君王与诸卓越统治者,当寻求并敬奉于他。
Verse 86
आदिराजो नमस्कार्यः पृथुर्वैन्यः प्रतापवान् । धनुर्वेदार्थिभिर्योधैः सदैव जयकांक्षिभिः
元初之王、威德炽盛的普利图·韦尼亚(Pṛthu Vainya)堪受敬礼;他常为研习弓术之学(dhanurveda)的武士所环绕,恒怀求胜之志。
Verse 87
नमस्कार्यो महाराजो वृत्तिदाता महीभृताम् । एवं पात्रविशेषाश्च मया ख्याता द्विजोत्तमाः
大王——赐予诸地之主以生计者——堪受虔敬顶礼。如是,噢最胜的两次生者(dvija),我已宣说诸种堪受布施之殊胜受者。
Verse 88
वत्सानां सुविशेषाश्च दोग्धॄणां भवदग्रतः । क्षीरस्यापि विशेषं तु यथोद्दिष्टं हि भूभुजा
在你面前,噢大王,将宣说诸类殊胜之犊与挤乳者;并亦详述乳之差别功德——正如大地之主先前所指示者。
Verse 89
समाख्यातं तथाग्रे च भवतां वै यथार्थतः । धन्यं यशस्यमारोग्यं पुण्यं पापप्रणाशनम्
已如实、如法为诸位宣说清楚。此法吉祥,能赐名声,增益安康,具足功德,并能灭除罪业。
Verse 90
पृथोर्वैन्यस्य चरितं यः शृणोति द्विजोत्तमाः । तस्य भागीरथी स्नानमहन्यहनि जायते
噢,最胜的两次生者,凡聆听普利图·韦尼亚事迹者,于其身上日日生起如沐浴薄伽罗提河(恒河)之功德。
Verse 91
सर्वपापविशुद्धात्मा विष्णुलोकं प्रयाति सः
其心灵清净,尽除诸罪,便得往生毗湿奴之界。