Adhyaya 23
Bhumi KhandaAdhyaya 2345 Verses

Adhyaya 23

Bala: The Rise and Slaying of the Dānava (and the Devas’ Restoration)

诸仙人赞叹此能除罪的圣闻,祈请苏多(Sūta)开示宇宙的创造与毁灭;苏多允诺详尽宣说,聆听者可得深妙智慧。 叙事转入天神与阿修罗的循环:毗湿奴以化身那罗辛哈与婆罗诃诛灭希兰尼亚迦湿布与希兰尼亚迦叉后,诸天重得其位,祭祀(yajña)复兴。狄蒂因二子被杀而悲恸,往见迦叶波求赐一位能征服世界之子;迦叶波应允,婆罗(Bala)诞生,受名、受戒启蒙,并以梵行(brahmacarya)与吠陀戒律修习。 达奴怂恿婆罗为阿修罗族复仇,欲诛因陀罗及诸天。阿底提告诫因陀罗;因陀罗虽惧而志坚,趁婆罗于辛度河/海滨行暮昏礼拜之时出击,将其击杀。由此天界秩序复归,诸天得安,世间复得太平。

Shlokas

Verse 1

ऋषय ऊचुः । विचित्रेयं कथा पुण्या धन्या यशोविधायिनी । सर्वपापहरा प्रोक्ता भवता वदतां वर

诸仙人说道:“此故事奇妙殊胜——清净神圣、吉祥增福、成就名闻。由你宣说,噢善说第一者,此法能除一切罪业。”

Verse 2

सृष्टिसंबंधमेतन्नस्तद्भवान्वक्तुमर्हति । पूर्वमेव यथासृष्टिर्विस्तरात्सूतनंदन

愿你慈悲为我等开示此与创生相关之事:最初之时,创造如何发生,请详尽宣说,噢苏多之子。

Verse 3

सूत उवाच । विस्तरेण प्रवक्ष्यामि सृष्टिसंहारकारणम् । श्रुतमात्रेण यस्यापि नरः सर्वज्ञतां व्रजेत्

苏多说道:“我将详尽宣说创生与毁灭之因;仅仅听闻此理,人亦可趋入一切智。”

Verse 4

हिरण्यकश्यपेनापि व्यापितं भुवनत्रयम् । तपसाराध्य प्रबह्माणं वरं प्राप्तं सुदुर्लभम्

即便是希兰尼亚迦湿耶波也曾席卷三界;他以苦行敬奉梵天,遂得一项极难获得的恩赐。

Verse 5

तस्माद्देवान्महाभागादमरत्वं तथैव च । देवांल्लोकान्स संव्याप्य प्रभुत्वं स्वयमर्जितम्

因此,诸天从那位大福德者处亦得不死之身;而他遍满诸天之界,凭自身精进赢得主宰之权。

Verse 6

ततो देवाः सगंधर्वा मुनयो वेदपारगाः । नागाश्च किन्नराः सिद्धा यक्षाश्चैव तथापरे

于是,诸天与乾闼婆同来,通达吠陀的圣仙亦至;并有那伽、紧那罗、悉达、夜叉等诸类众生一并聚集。

Verse 7

ब्रह्माणं तु पुरस्कृत्य जग्मुर्नारायणं प्रभुम् । क्षीरसागरसंसुप्तं योगनिद्रां गतं प्रभुम्

他们以梵天为前导,前往至上主那罗延;彼时主卧于乳海之上,入于瑜伽之眠而安睡。

Verse 8

तं संबोध्य महास्तोत्रैर्देवाः प्रांजलयस्तथा । संबुद्धे सति देवेशे वृत्तं तस्य दुरात्मनः

随后,诸天合掌以宏大赞颂之歌唤醒彼主;待天主苏醒,他们便向他陈述那恶心者之事的始末。

Verse 9

आचचक्षुर्महाप्राज्ञ समाकर्ण्य जगत्पतिः । नृसिंहरूपमास्थाय हिरण्यकशिपुं व्यहन्

大圣者啊,宇宙之主听罢其言,便示现那罗辛哈之形,诛灭希兰尼亚迦希布。

Verse 10

पुनर्वाराहरूपेण हिरण्याक्षो महाबलः । उद्धृता वसुधा पुण्या असुरो घातितस्तदा

随后,主再现野猪神形(婆罗诃 Varāha),诛灭大力的希兰亚克沙(Hiraṇyākṣa),并将神圣的大地托举而起。

Verse 11

अन्यांश्चघातयामास दानवान्घोरदर्शनान् । एवं चैतेषु नष्टेषु दानवेषु महत्सु च

他又使其他形貌可怖的达那婆(Dānava)尽皆被诛。如此,当那些伟大的达那婆也都灭尽之时,……

Verse 12

अन्येषु तेषु नष्टेषु दितिपुत्रेषु वै तदा । पुनः स्थानेषु प्राप्तेषु देवेषु च महत्सु च

当时,既然其余的底提之子(Diti-putra)也已灭亡,而诸大神明亦再度回到各自的本位,

Verse 13

यज्ञेष्वेव प्रवृत्तेषु सर्वेषु धर्मकर्मसु । सुस्थेषु सर्वलोकेषु सा दितिर्दुःखपीडिता

当诸般祭祀(yajña)兴盛进行,一切法义之业皆得施行,诸世界安泰昌隆之时——唯有底提(Diti)为忧苦所逼。

Verse 14

पुत्रशोकेन संतप्ता हाहाभूता विचेतना । भर्तारं सूर्यसंकाशं तपस्तेजः समन्वितम्

她因丧子之痛而灼心,哀号“呜呼,呜呼”,几近失神;遂趋近其夫——光辉如日,具足苦行(tapas)炽烈威光者。

Verse 15

दातारं च महात्मानं भर्तारं कश्यपं तदा । भक्त्या प्रणम्य विप्रेन्द्र तमुवाच महामतिम्

于是她以虔敬顶礼迦叶波——她高贵的夫君、伟大的施主、心怀广大者——便对那位至智者说道:噢,婆罗门中最胜者。

Verse 16

भगवन्नष्टपुत्राहं कृता देवेन चक्रिणा । दैतेया दानवाः सर्वे देवैश्चैव निपातिताः

噢,世尊,持轮之神使我失尽诸子;一切代提耶与达那婆,也都被诸天击倒。

Verse 17

पुत्रशोकानलेनाहं संतप्ता मुनिसत्तम । ममानंदकरं पुत्रं सर्वतेजोहरं विभो

我被丧子之悲的烈火所焚,噢,牟尼中最胜者,我备受煎熬。噢,主宰啊,我那带给我欢喜的儿子,夺去了我一切光辉。

Verse 18

सुबलं चारुसर्वांगं देवराजसमप्रभम् । बुद्धिमंतं सुसर्वज्ञं ज्ञातारं सर्वपंडितम्

他力大无比,肢体端严,光耀如天帝;聪慧过人,真如全知,善于辨别洞察,为诸学者之最上。

Verse 19

तपस्तेजः समायुक्तं सबलं चारुलक्षणम् । ब्रह्मण्यं ज्ञानवेत्तारं देवब्राह्मणपूजकम्

他具足苦行所生的光威,强健而具吉祥相;敬奉梵、通达真知,礼敬诸天,并尊崇婆罗门。

Verse 20

जेतारं सर्वलोकानां ममानंदकरं द्विज । सर्वलक्षणसंपन्नं पुत्रं मे देहि त्वं विभो

噢婆罗门,请赐我一子——能征服诸世界,使我欢喜,并具足一切吉祥相者,噢大能者。

Verse 21

एवमाकर्ण्य वै तस्याः कश्यपो वाक्यमुत्तमम् । कृपाविष्टमनास्तुष्टो दुःखिताया द्विजोत्तम

听罢她那至善之言,迦叶波——最尊贵的再生者——心为慈悲所充,虽为那受苦女子的哀伤所动,仍感欣慰。

Verse 22

तामुवाच महाभाग कृपणां दीनमानसाम् । तस्याः शिरसि संन्यस्य स्वहस्तं भावतत्परः

那位尊贵者对她——贫苦而心神沉重者——开口言说,并将自己的手安放在她头上,满怀慈悲之意。

Verse 23

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे बल । दैत्यवधोनाम त्रयोविंशोऽध्यायः

至此,《圣莲花往世书》之《大地品》、五万五千颂汇编中,名为“婆罗——诛灭代底耶”的第二十三章圆满结束。

Verse 24

तपस्तेपे निरालंबः साधयन्परमव्रतः । एतस्मिन्नंतरे सा तु दधार गर्भमुत्तमम्

他不倚外助而修行苦行,坚住于至上誓愿。其间,她在腹中怀上了殊胜之胎。

Verse 25

सा दितिः सर्वधर्मज्ञा चारुकर्मा मनस्विनी । शतवर्षप्रमाणं सा शुचि स्वांता बभूव ह

那位底提,通晓一切法度,行止端雅,心志坚毅;她寿满百年,身心清净,内在安宁。

Verse 26

तया वै जनितः पुत्रो ब्रह्मतेजः समन्वितः । अथ कश्यप आयातो हर्षेण महतान्वितः

由她确实诞生一子,具足梵之光辉。随后迦叶波到来,满怀大喜。

Verse 27

चकार नाम मेधावी तस्य पुत्रस्य सत्तमः । बलमित्यब्रवीत्पुत्रं नामतः सदृशो महान्

那位睿智而至善之人给儿子取名;他称孩子为“婆罗(Bala)”,而这伟大的孩童确与其名相称。

Verse 28

एवं नाम चकाराथ व्रतबंधं चकार सः । प्राह पुत्र महाभाग ब्रह्मचर्यं प्रसाधय

他如此完成命名之礼,又为他举行系于誓戒的入戒仪式。随后说道:“福德深厚的儿子啊,当如法成就梵行(brahmacarya),守持学子清净之戒。”

Verse 29

एवमेवं करिष्यामि तव वाक्यं द्विजोत्तम । वेदस्याध्ययनं कुर्यां ब्रह्मचर्येण सत्तम

“如是,如是;我必依你之言而行,二生中最胜者啊。我将守持梵行,研习吠陀,尊贵者啊。”

Verse 30

एवं वर्षशतं साग्रं गतं तस्य तपस्यतः । मातुः समक्षमायातस्तपस्तेजः समन्वितः

就这样,在他修持苦行一百余年之后,他来到母亲面前,周身具足由苦行所生的光辉与威德。

Verse 31

तपोवीर्यमयं दिव्यं ब्रह्मचर्यं महात्मनः । दितिः पश्यति पुत्रस्य हर्षेण महतान्विता

底提怀着极大的欢喜,看见她圣子那神圣的梵行(清净持戒),充满由苦行所生的威力。

Verse 32

तमुवाच महात्मानं बलं पुत्रं तपस्विनम् । मेधाविनं महात्मानं प्रज्ञाज्ञानविशारदम्

随后,他对儿子婆罗(Bala)说道:这位苦行者大心宏量,聪慧高贵,精通智慧与真知。

Verse 33

त्वयि जीवति मेधाविन्प्रजीवंति सुता मम । हिरण्यकशिपाद्यास्ते ये हताश्चक्रपाणिना

只要你尚在人世,智者啊,我的诸子便仍可延续其命——从希兰尼亚迦湿布起,那些曾被执轮之主所诛者。

Verse 34

वैरं साधय मे वत्स जहि देवान्रिपून्रणे । सा दनुस्तमुवाचेदं बलं पुत्रं महाबलम्

“为我成就这宿怨吧,孩子;在战场上诛灭诸天——我们的仇敌。”丹奴如此对她的大力之子婆罗说道。

Verse 35

आदाविंद्रं हि देवेंद्रं द्रुतं सूदय पुत्रक । पश्चाद्देवा निपात्यंतां ततो गरुडवाहनः

“首先,迅速击倒因陀罗——诸天之主,我儿。随后令其余诸神尽皆坠落;然后再对付那位乘迦楼罗者。”

Verse 36

तयोराकर्ण्य सा देवी अदितिः पतिदेवता । दुःखेन महताविष्टा पुत्रमिंद्रमभाषत

听闻他们的话语,女神阿底提——以夫为天、奉夫如神——被巨大悲痛所淹没,便对其子因陀罗说道。

Verse 37

दितिपुत्रो महाकायो वर्द्धते ब्रह्मतेजसा । देवानां हि वधार्थाय तपस्तेपे निरंजने

狄蒂之子身躯伟岸,凭借由梵天之威所生的光辉而增长。确然,为了诛灭诸天,他在清净无垢的荒林中修行苦行。

Verse 38

एवं जानीहि देवेश यदि क्षेममिहेच्छसि । एवमाकर्ण्य तद्वाक्यं स मातुः पाकशासनः

“若你欲在此得安泰,诸天之主啊,当如是知。”如此听闻其言后,帕迦沙娑那(因陀罗),母亲之子,便依之而行。

Verse 39

चिंतामवाप दुःखेन महतीं देवराट्तदा । महाभयेन संत्रस्तश्चिंतयामास वै ततः

于是,诸天之王因悲苦而陷入深重忧虑;又为大恐惧所震慑,便开始思量下一步当如何行事。

Verse 40

कथमेनं हनिष्यामि देवधर्मविदूषकम् । इति निश्चित्य देवेशो बलस्य निधनं प्रति

“我当如何诛灭这玷污诸天圣法之人?”——如此决断后,诸天之主便将心意转向毁灭婆罗(Bala)。

Verse 41

एकदा हि बलः सोपि संध्यार्थं सिंधुमाश्रितः । कृष्णाजिनेन दिव्येन दंडकाष्ठेन राजितः

有一次,婆罗(Bala)欲行暮晨交替之沙弥耶(sandhyā)仪轨,便依止信度河(Sindhu)之滨——身披神圣黑羚皮,手持木杖而庄严。

Verse 42

अमलेनापि पुण्येन ब्रह्मचर्येण तेन सः । सागरस्योपकंठे तं संध्यासनमुपागतम्

凭借那清净的福德与其梵行(brahmacarya),他来到大海之滨,前去就座行沙弥耶(sandhyā)之礼拜。

Verse 43

जपमानं सुशांतं तं ददृशे पाकशासनः । वज्रेण तेन दिव्येन ताडितो दितिनंदनः

天帝帕迦沙娑那(因陀罗)见他安然寂静,专注持诵(japa)。以那神圣金刚杵(vajra)击之,狄蒂之子遂被击倒。

Verse 44

बलं निपतितं दृष्ट्वा गतसत्वं गतं भुवि । हर्षेण महताविष्टो देवराण्मुमुदे तदा

见阿修罗婆罗(Bala)仆倒于地,力尽神散、命息已离,诸天之王便充满大欢喜而欣然庆悦。

Verse 45

एवं निपात्य तं दैत्यं दितिनंदनमेव च । राज्यं चकार धर्मात्मा सुखेन पाकशासनः

于是,他击倒了那位达那婆——狄提之子亦在其中——具正法之心的帕迦沙萨那(因陀罗)便安乐宁静地统治其国。