Adhyaya 103
Bhumi KhandaAdhyaya 103139 Verses

Adhyaya 103

Aśokasundarī and Huṇḍa: Chastity, Karma, and the Foretold Rise of Nahuṣa

在难陀那天园中,阿首迦孙达丽(Aśokasundarī,亦名尼施迦罗 Niścalā),作为湿婆之女,安住欢喜。此时,毗婆罗吉提之子浑陀(Huṇḍa)为其美德所迷,前来求婚。天女宣示守夫贞行(pativratā-dharma),并言其婚配早由天命所定,当归月族那胡沙(Nahuṣa),且预告将有一子承续尊贵王统。 浑陀不信预言,以年少年长之辩强词夺理,又施幻力(māyā)诱骗她至须弥山(Meru)上的城邑。天女忿怒显现为诅咒,并立誓于恒河(Gaṅgā)岸修苦行(tapas),以此昭示业力(karma)与命定之不可违。 随后浑陀与大臣坎帕那(Kampana)商议,欲先发制人阻断那胡沙的降生。叙事转至阿瑜(Āyu)无嗣之忧与其遇见达多特利耶(Dattātreya):圣者以看似矛盾的出离行持试炼信心,终赐恩加被,使预定的王族血脉得以成就。

Shlokas

Verse 1

कुंजल उवाच । अशोकसुंदरी जाता सर्वयोषिद्वरा तदा । रेमे सुनंदने पुण्ये सर्वकामगुणान्विते

昆阇罗(Kuṃjala)说道:其时阿首迦孙达丽(Aśokasundarī)诞生,冠绝诸女;她在名为善喜林(Sunandana)的圣洁林苑中欢悦嬉游,具足一切成就所愿之德。

Verse 2

सुरूपाभिः सुकन्याभिर्देवानां चारुहासिनी । सर्वान्भोगान्प्रभुंजाना गीतनृत्यविचक्षणा

她被美丽而贤淑的少女们环绕,在诸天神前含笑嫣然;尽享一切妙乐,并精通歌唱与舞蹈。

Verse 3

विप्रचित्तेः सुतो हुंडो रौद्रस्तीव्रश्च सर्वदा । स्वेच्छाचारो महाकामी नंदनं प्रविवेश ह

毗婆罗吉提之子胡ṇḍa,常怀凶猛暴烈之性,唯随己欲而行,欲火炽盛,遂闯入难陀那——天界的欢悦园林。

Verse 4

अशोकसुंदरीं दृष्ट्वा सर्वालंकारसंयुताम् । तस्यास्तु दर्शनाद्दैत्यो विद्धः कामस्य मार्गणैः

他见到阿修迦孙达丽,佩戴诸般华饰;那罗刹仅凭一眼,便被爱神迦摩之箭所中。

Verse 5

तामुवाच महाकायः का त्वं कस्यासि वा शुभे । कस्मात्त्वं कारणाच्चात्र आगतासि वनोत्तमम्

于是那魁伟之人对她说道:“吉祥的女子,你是谁,属于谁家?因何缘故来到此处这最胜之林?”

Verse 6

अशोकसुंदर्युवाच । शिवस्यापि सुपुण्यस्य सुताहं शृणु सांप्रतम् । स्वसाहं कार्तिकेयस्य जननी गोत्रजापि मे

阿修迦孙达丽说道:“如今请听我言:我确是至善圣德的湿婆之女。我亦是迦尔提凯亚之妹;而他的母亲也同属我的族系(gotra)。”

Verse 7

बालभावेन संप्राप्ता लीलया नंदनं वनम् । भवान्कोहि किमर्थं तु मामेवं परिपृच्छति

我怀着孩童般的心情,嬉戏来到难陀那林苑。可你是谁,又为何这样盘问我?

Verse 8

हुंड उवाच । विप्रचित्तेः सुतश्चाहं गुणलक्षणसंयुतः । हुंडेति नाम्ना विख्यातो बलवीर्यमदोद्धतः

胡ṇḍa说道:“我是毗婆罗吉提之子,具足诸般德相与特征。我以‘胡ṇḍa’之名闻名,因力量与勇武而自负狂傲。”

Verse 9

दैत्यानामप्यहं श्रेष्ठो मत्समो नास्ति राक्षसः । देवेषु मर्त्यलोकेषु तपसा यशसा कुले

“即便在代提耶之中,我亦为最胜;在罗刹之中,无人与我等同。于诸天与人世之间,凭借苦行(tapas)、名声与门第,我皆卓然超越。”

Verse 10

अन्येषु नागलोकेषु धनभोगैर्वरानने । दर्शनात्ते विशालाक्षि हतः कंदर्पमार्गणैः

美颜者啊,在别的那伽世界自有财富与享乐;然而大眼者啊,我只一见你,便已被爱神迦摩的箭矢所中。

Verse 11

शरणं ते ह्यहं प्राप्तः प्रसादसुमुखी भव । भव स्ववल्लभा भार्या मम प्राणसमा प्रिया

我确已投奔于你,求你垂怜,愿你面含慈悦。请成为我钟爱的妻子,亲爱如同我的生命之息。

Verse 12

अशोकसुंदर्युवाच । श्रूयतामभिधास्यामि सर्वसंबंधकारणम् । भवितव्या सुजातस्य लोके स्त्री पुरुषस्य हि

阿修迦孙达丽说道:“请听,我将宣说促成一切因缘关系的根本原因。确实在此世间,出身良善的男子,必有命定之妻。”

Verse 13

भवितव्यस्तथा भर्ता स्त्रिया यः सदृशो गुणैः । संसारे लोकमार्गोयं शृणु हुंड यथाविधि

因此,女子当以命中注定、与己相称之人为夫——德行相近,堪为匹配。这便是世间行持的常道;胡恩达啊,请听其如法所立。

Verse 14

अस्त्येव कारणं चात्र यथा तेन भवाम्यहम् । सुभार्या दैत्यराजेंद्र शृणुष्व यतमानसः

确有其因,使我成为如今这般。诸魔王之因陀罗啊,请专心聆听——贤善之妻啊——以凝定之心受持。

Verse 15

वृक्षराजादहं जाता यदा काले महामते । शंभोर्भावं सुसंगृह्य पार्वत्या कल्पिता ह्यहम्

大慧者啊,于适当之时,我从树王而生;又因善能领会商布(湿婆)之意,我由帕尔瓦蒂所塑成。

Verse 16

देवस्यानुमते देव्या सृष्टो भर्ता ममैव हि । सोमवंशे महाप्राज्ञः स धर्मात्मा भविष्यति

在天神允可之下,女神确已为我造就一位夫君。他将出自月族,具大智慧,秉性正法而行。

Verse 17

जिष्णुर्जिष्णुसमो वीर्ये तेजसा पावकोपमः । सर्वज्ञः सत्यसंधश्च त्यागे वैश्रवणोपमः

他常得胜利;在勇力上与吉湿奴(因陀罗)相等。其光辉如火焰。通达一切,坚守真实;在施舍上可比毗舍罗伐那(俱毗罗)。

Verse 18

यज्वा दानपतिः सोपि रूपेण मन्मथोपमः । नहुषोनाम धर्मात्मा गुणशील महानिधिः

他亦是行祭(yajña)之人,为施舍之主;其容貌可比摩摩他(迦摩)。那位名为那胡沙的正法之士,品行端正,是功德的大宝藏。

Verse 19

देव्या देवेन मे दत्तःख्यातोभर्ताभविष्यति । तस्मात्सर्वगुणोपेतं पुत्रमाप्स्यामि सुंदरम्

那由女神与天神赐予我的著名夫君,必将成为我的配偶。因此我将得一位俊美之子,具足一切德行。

Verse 20

इंद्रोपेंद्र समं लोके ययातिं जनवल्लभम् । लप्स्याम्यहं रणे धीरं तस्माच्छंभोः प्रसादतः

凭借商婆(Śambhu)的恩典,我将在战阵中得一位沉着坚毅的英雄——雅雅提,众民所爱,在世间与因陀罗及优彭陀罗同等。

Verse 21

अहं पतिव्रता वीर परभार्या विशेषतः । अतस्त्वं सर्वथा हुंड त्यज भ्रांतिमितो व्रज

我是守贞的妻子,勇士啊;更何况我确是他人之正妻。因此,胡恩达啊,务必尽弃此迷妄,从此处离去。

Verse 22

प्रहस्यैव वचो ब्रूते अशोकसुंदरीं प्रति । हुंड उवाच । नैव युक्तं त्वया प्रोक्तं देव्या देवेन चैव हि

他含笑对阿输迦孙达丽说道。浑荼言:“你所说的全然不相宜;女神与天神所言亦复如此。”

Verse 23

नहुषोनाम धर्मात्मा सोमवंशे भविष्यति । भवती वयसा श्रेष्ठा कनिष्ठो न स युज्यते

在月族(苏摩王系)中,将出现一位名为那胡沙的正法之人。然而你年岁更长;他既年少,不宜与汝结为婚配。

Verse 24

कनिष्ठा स्त्री प्रशस्ता तु पुरुषो न प्रशस्यते । कदा स पुरुषो भद्रे तव भर्ता भविष्यति

年少之女固然受称赞,男子却不受称许。吉祥的淑女啊,那男子何时方为汝之夫君?

Verse 25

तारुण्यं यौवनं चापि नाशमेवं प्रयास्यति । यौवनस्य बलेनापि रूपवत्यः सदा स्त्रियः

青春与少壮亦如是流逝,终归败坏消散。纵凭青春之力,容貌姝丽的女子也不能永恒如初。

Verse 26

पुरुषाणां वल्लभत्वं प्रयांति वरवर्णिनि । तारुण्यं हि महामूलं युवतीनां वरानने

肤色皎洁的佳人啊,女子为男子所钟爱;因为青春确是少女之大根本,容颜美好的你啊。

Verse 27

तस्या धारेण भुंजंति भोगान्कामान्मनोनुगान् । कदा सोभ्येष्यते भद्रे आयोः पुत्रः शृणुष्व मे

依凭她的护持,他们享受随心而起的种种乐与欲。“吉祥的女士啊,Āyu之子何时归来?请听我言。”

Verse 28

यौवनं वर्ततेऽद्यैव वृथा चैव भविष्यति । गर्भत्वं च शिशुत्वं च कौमारं च निशामय

青春只在今日;不久便成虚空而逝。也当观照生命的流转:在胎中、为婴儿、及童年之时。

Verse 29

कदासौ यौवनोपेतस्तव योग्यो भविष्यति । यौवनस्य प्रभावेन पिबस्व मधुमाधवीम्

他何时得具青春之盛,方堪与你相配?凭青春之力,饮此蜜甜的Mādhavī——春之甘酿。

Verse 30

मया सह विशालाक्षि रमस्व त्वं सुखेन वै । हुंडस्य वचनं श्रुत्वा शिवस्य तनया पुनः

“大眼的佳人啊,与我同住,安乐而欢。”听了Huṇḍa之言,湿婆之女便又作回应。

Verse 31

उवाच दानवेंद्रं तं साध्वसेन समन्विता । अष्टाविंशतिके प्राप्ते द्वापराख्ये युगे तदा

她与Sādhvasenā相伴,于第二十八个名为Dvāpara的时代到来之时,对那位达那婆之主开口说道。

Verse 32

शेषावतारो धर्मात्मा वसुदेवसुतो बलः । रेवतस्य सुतां दिव्यां भार्यां स च करिष्यति

婆苏提婆之子巴拉,具足正法,为舍沙之化身,将迎娶雷瓦塔那位神圣的女儿为妻。

Verse 33

सापि जाता महाभाग कृताख्ये हि युगोत्तमे । युगत्रयप्रमाणेन सा हि ज्येष्ठा बलादपि

大福者啊,她亦生于名为“克利多”的最胜时代;以三劫为量,她确为长者,且具与生俱来的强盛之力。

Verse 34

बलस्य सा प्रिया जाता रेवती प्राणसंमिता । भविष्यद्वापरे प्राप्त इह सा तु भविष्यति

她成为巴拉的挚爱——雷瓦蒂,亲若性命。待未来的兜婆罗时代到来,她必在此成为他的配偶。

Verse 35

मायावती पुरा जाता गंधर्वतनया वरा । अपहृत्य नियम्यैव शंबरो दानवोत्तमः

往昔,摩耶伐底降生,为甘达婆族的殊胜之女;最强的达那婆——商婆罗——掳走她,并将她拘禁掌控。

Verse 36

तस्या भर्ता समाख्यातो माधवस्य सुतो बली । प्रद्युम्नो नाम वीरेशो यादवेश्वरनंदनः

她的夫君名闻遐迩,是摩陀婆那位大力之子——名为普拉丢摩那,诸勇士之主,雅度王族君主所钟爱的后裔。

Verse 37

तस्मिन्युगे भविष्येत भाव्यं दृष्टं पुरातनैः । व्यासादिभिर्महाभागैर्ज्ञानवद्भिर्महात्मभिः

在那一时代,命定之事必将成就——早为古圣先贤所预见,为毗耶娑等大福德的圣仙、具智慧与大心者所洞察。

Verse 38

एवं हि दृश्यते दैत्य वाक्यं देव्या तदोदितम् । मां प्रति हि जगद्धात्र्या पुत्र्या हिमवतस्तदा

确然如此可见,噢,阿修罗:这些话当时由女神所宣说——她是世界之母、喜马瓦特之女——在那时对我而说。

Verse 39

त्वं तु लोभेन कामेन लुब्धो वदसि दुष्कृतम् । किल्बिषेण समाजुष्टं वेदशास्त्रविवर्जितम्

而你——为贪欲与情欲所蒙蔽——却谈论恶行;浸染罪垢,完全背离吠陀与诸论典(śāstra)的教导。

Verse 40

यद्यस्यदिष्टमेवास्ति शुभं वाप्यशुभं दृढम् । पूर्वकर्मानुसारेण तत्तस्य परिजायते

凡人所具之命分——或吉或凶,既已坚定——皆依其往昔业行(karma)而为其成熟显现。

Verse 41

देवानां ब्राह्मणानां च वदने यत्सुभाषितम् । निःसरेद्यदि सत्यं तदन्यथा नैव जायते

诸神与婆罗门口中所出之善言——若为真实,必得应验;若非真实,则终究不生、不成。

Verse 42

मद्भाग्यादेवमाज्ञातं नहुषस्यापि तस्य च । समायोगं विचार्यैवं देव्या प्रोक्तं शिवेन च

凭我之福德,此事已如是明了——亦及那胡沙(Nahusha)之事。如此审察因缘之后,此言由女神宣说,亦由湿婆(Śiva)所说。

Verse 43

एवं ज्ञात्वा शमं गच्छ त्यज भ्रांतिं मनःस्थिताम् । नैव शक्तो भवान्दैत्य मे मनश्चालितुं ध्रुवम्

既知此理,当归于寂静安定;舍弃盘踞心中的迷妄。汝这阿修罗(Daitya),决不能动摇我坚固之心。

Verse 44

पतिव्रता दृढा चित्ते स को मे चालितुं क्षमः । महाशापेन धक्ष्यामि इतो गच्छ महासुर

我乃贞顺持戒之妻(pativratā),心志坚固,谁能动摇我?我将以大咒诅焚烧汝;速离此处,强大之阿修罗!

Verse 45

एवमाकर्ण्य तद्वाक्यं हुंडो वै दानवो बली । मनसा चिंतयामास कथं भार्या भवेदियम्

闻此言语,强大的檀那婆(Dānava)胡恩达(Huṇḍa)于心中思量:“此女如何方能成为我之妻?”

Verse 46

विचिंत्य हुंडो मायावी अंतर्धानं समागतः । ततो निष्क्रम्य वेगेन तस्मात्स्थानाद्विहाय ताम् । अन्यस्मिन्दिवसे प्राप्ते मायां कृत्वा तमोमयीम्

思毕,善施幻术之胡恩达(Huṇḍa)遁入隐形。继而迅疾离开彼处,弃她而去;待他日时机到来,便造作一层由黑暗凝成的幻相(māyā)。

Verse 47

दिव्यं मायामयं रूपं कृत्वा नार्यास्तु दानवः । मायया कन्यका रूपो बभूव मम नंदन

那达那婆化作由神圣幻力(摩耶)织成的女子之身;凭其幻术,他竟成了少女的形貌,我儿。

Verse 48

सा कन्यापि वरारोहा मायारूपागमत्ततः । हास्यलीला समायुक्ता यत्रास्ते भवनंदिनी

那少女亦然——容姿秀丽、仪态高雅——随即取幻化之身,前往婆伐难陀尼居处,伴着嬉笑与游戏。

Verse 49

उवाच वाक्यं स्निग्धेव अशोकसुंदरीं प्रति । कासि कस्यासि सुभगे तिष्ठसि त्वं तपोवने

他以温柔之语对阿输迦孙达丽说道:“吉祥的你是谁?你属谁家?为何住在这苦行之林?”

Verse 50

किमर्थं क्रियते बाले कामशोषणकं तपः । तन्ममाचक्ष्व सुभगे किंनिमित्तं सुदुष्करम्

“小女啊,为何要行此苦行——这能枯竭欲望的修持?吉祥者,请告知我:因何缘故要承担如此艰难之事?”

Verse 51

तन्निशम्य शुभं वाक्यं दानवेनापि भाषितम् । मायारूपेण छन्नेन साभिलाषेण सत्वरम्

听闻那吉祥之语——虽出自达那婆之口——他藏身于幻相之中,欲念炽盛,便立刻行动。

Verse 52

आत्मसृष्टि सुवृत्तांतं प्रवृत्तं तु यथा पुरा । तपसः कारणं सर्वं समाचष्ट सुदुःखिता

她悲痛万分,详尽叙述了自己如何自生而起、往昔如何成就的全部经过,并说明一切皆以苦行为因(tapas,圣修与苦行)。

Verse 53

उपप्लवं तु तस्यापि दानवस्य दुरात्मनः । मायारूपं न जानाति सौहृदात्कथितं तया

然而那邪恶的达那婆并未认出临近的灾厄只是幻力(māyā)的化现,尽管她出于情爱已如此告知。

Verse 54

हुंड उवाच । पतिव्रतासि हे देवि साधुव्रतपरायणा । साधुशीलसमाचारा साधुचारा महासती

胡ṇḍa说道:“女神啊,你是守夫之誓的贞妇(pativratā),全心安住于清净誓愿;品性端正、行持如法,乃大贞烈之圣女(satī)。”

Verse 55

अहं पतिव्रता भद्रे पतिव्रतपरायणा । तपश्चरामि सुभगे भर्तुरर्थे महासती

“贤淑的夫人啊,我乃守夫之誓的贞妇(pativratā),一心安住于贞信之愿;有福者啊,我为夫君之故修行苦行(tapas),以大德之妇自持。”

Verse 56

मम भर्ता हतस्तेन हुंडेनापि दुरात्मना । तस्य नाशाय वै घोरं तपस्यामि महत्तपः

“我的夫君被那邪恶的胡ṇḍa所杀。为令其覆灭,我修行可怖而宏大的苦行(tapas),行大精进。”

Verse 57

एहि मे स्वाश्रमे पुण्ये गंगातीरे वसाम्यहम् । अन्यैर्मनोहरैर्वाक्यैरुक्ता प्रत्ययकारकैः

“来我自己那神圣的修行林苑吧;我住在恒河(Gaṅgā)之滨。人们也曾以其他动人的言辞对我说话——那些旨在令人心生信任与笃信的话。”

Verse 58

हुंडेन सखिभावेन मोहिता शिवनंदिनी । समाकृष्टा सुवेगेन महामोहेन मोहिता

Śiva之女被Huṇḍa以友谊之名所迷惑,迅疾被牵引向他——心神恍惚,彻底沉没于强烈的迷恋之中。

Verse 59

आनीतात्मगृहं दिव्यमनौपम्यं सुशोभनम् । मेरोस्तु शिखरे पुत्र वैडूर्याख्यं पुरोत्तमम्

他将其带到自己那天界居所——无比无双、辉煌庄严——在须弥山(Meru)之巅,吾子啊:那座名为毗琉璃(Vaiḍūrya)的最胜之城。

Verse 60

अस्ति सर्वगुणोपेतं कांचनाख्यं महाशिवम् । तुंगप्रासादसंबाधैः कलशैर्दंडचामरैः

那里有一座名为“迦旃那”(Kāñcana)的摩诃湿婆(Mahāśiva)大圣殿,具足一切胜妙;高楼殿阁林立,并以宝瓶顶(kalaśa)、仪杖与牦牛尾拂(cāmara)庄严装饰。

Verse 61

नानवृक्षसमोपेतैर्वनैर्नीलैर्घनोपमैः । वापीकूपतडागैश्च नदीभिस्तु जलाशयैः

其间点缀着众多树种繁茂的森林,色泽深蓝,宛如浓云;又有诸般水藏:阶井(vāpī)、井、池塘、河流以及其他水域。

Verse 62

शोभमानं महारत्नैः प्राकारैर्हेमसंयतैः । सर्वकामसमृद्धार्थं संपूर्णं दानवस्य हि

那城以大宝珠辉耀,金饰城垣与堡垒灿然。诸事圆满,具足一切能成就诸愿之物;实为达那婆(Dānava)所有。

Verse 63

ददृशे सा पुरं रम्यमशोकसुंदरी तदा । कस्य देवस्य संस्थानं कथयस्व सखे मम

于是阿首迦孙达丽(Aśokasundarī)望见一座可爱之城。“告诉我吧,朋友——此处是谁的神祇之居所?”

Verse 64

सोवाच दानवेंद्रस्य दृष्टपूर्वस्य वै त्वया । तस्य स्थानं महाभागे सोऽहं दानवपुंगवः

他说:“有福的女士啊,你确曾见过达那婆之王。我正是那达那婆中的魁首,此处便是他的居所。”

Verse 65

मया त्वं तु समानीता मायया वरवर्णिनि । तामाभाष्य गृहं नीता शातकौंभं सुशोभनम्

“然而,肤色殊美的女士啊,我以幻力将你带到此处。”说罢,他引她进入一座金光辉映、极其华美的宅邸。

Verse 66

नानावेश्मैः समाजुष्टं कैलासशिखरोपमम् । निवेश्य सुंदरीं तत्र दोलायां कामपीडितः

在一处楼阁重重、宛如迦罗娑山(Kailāsa)峰顶的居所中,他将那美人安置于秋千之上;而他自己为欲火所逼,心神煎迫。

Verse 67

पुनः स्वरूपी दैत्येंद्रः कामबाणप्रपीडितः । करसंपुटमाबध्य उवाच वचनं तदा

于是,代提耶之主复归本形,被爱神迦摩之箭所灼逼,合掌作礼,遂说出如下言辞。

Verse 68

यं यं त्वं वांछसे भद्रे तं तं दद्मि न संशयः । भज मां त्वं विशालाक्षि भजंतं कामपीडितम्

善祥者啊,你所愿之事,我必赐予,毫无疑虑。大眼女神啊,请礼敬我——这被欲火所逼、亦礼敬于你的我。

Verse 69

श्रीदेव्युवाच । नैव चालयितुं शक्तो भवान्मां दानवेश्वरः । मनसापि न वै धार्यं मम मोहं समागतम्

圣母室利天女说道:“丹那婆之主啊,你丝毫不能动摇我。那临到我身的迷惑,纵以心念亦难抑止。”

Verse 70

भवादृशैर्महापापैर्देवैर्वा दानवाधमैः । दुष्प्राप्याहं न संदेहो मा वदस्व पुनः पुनः

像你这等大罪之徒——纵是诸天,或丹那婆中最卑下者——也难以得我,毫无疑虑。莫要一再重复此言。

Verse 71

स्कंदानुजा सा तपसाभियुक्ता जाज्वल्यमाना महता रुषा च । संहर्तुकामा परि दानवं तं कालस्य जिह्वेव यथा स्फुरंती

天将军斯坎达之妹——以苦行自持——赫然炽燃,因大怒而光焰腾起。她欲灭彼丹那婆,环绕其身奔涌闪耀,宛如时劫(死神)之舌在颤动。

Verse 72

पुनरुवाच सा देवी तमेवं दानवाधमम् । उग्रं कर्म कृतं पाप चात्मनाशनहेतवे

那位女神再次对那个卑鄙的恶魔说道:“你犯下了凶残且罪恶的行径,这将成为你自身毁灭的根源。”

Verse 73

आत्मवंशस्य नाशाय स्वजनस्यास्य वै त्वया । दीप्ता स्वगृहमानीता सुशिखा कृष्णवर्त्मनः

为了毁灭你自己的家族和亲属,你确实把一团燃烧着熊熊烈焰、遵循黑暗之道的火带进了你的家中。

Verse 74

यथाऽशुभः कूटपक्षी सर्वशोकैः समुद्गतः । गृहं तु विशते यस्य तस्य नाशं प्रयच्छति

就像一只充满各种悲伤的不祥之鸟进入某人的家中,并给那个人带来毁灭一样。

Verse 75

स्वजनस्य च सर्वस्य सधनस्य कुलस्य च । स द्विजो नाशमिच्छेत विशत्येव यदा गृहम्

当那位再生族(婆罗门)进入一所房子时,他不应企图毁灭他所有的族人、家庭的财富或家族的血脉。

Verse 76

तथा तेहं गृहं प्राप्ता तव नाशं समीहती । पुत्राणां धनधान्यस्य तव वंशस्य सांप्रतम्

同样地,既然来到了你的家中,我现在就要寻求你的毁灭——就在此时此刻,毁灭你的儿子们、你的财富与粮食,以及你的家族。

Verse 77

जीवं कुलं धनं धान्यं पुत्रपौत्रादिकं तव । सर्वं ते नाशयित्वाहं यास्यामि च न संशयः

你的性命——你的族系、财宝、粮谷,以及你的儿子、孙子等一切——我都将尽数毁灭;随后我必离去,毫无疑虑。

Verse 78

यथा त्वयाहमानीता चरंती परमं तपः । पतिकामा प्रवांच्छंती नहुषं चायुनंदनम्

正如你在我修行至高苦行之时将我带来,如今我亦然——怀着求夫之愿并寻觅之心——我寻求了阿瑜之子那胡沙(Nahusha)。

Verse 79

तथा त्वां मम भर्ता च नाशयिष्यति दानव । मन्निमित्तौपायोऽयं दृष्टो देवेन वै पुरा

同样地,我的夫君必将毁灭你,哦达那婆(Dānava)。此计——以我为缘的权宜之策——早在久远之前便为神明所预见。

Verse 80

सत्येयं लौकिकी गाथा यां गायंति विदो जनाः । प्रत्यक्षं दृश्यते लोके न विंदंति कुबुद्धयः

智者所歌咏的这句世间谚语确为真实:世上明明可见之事,愚昧之人却不能识得。

Verse 81

येन यत्र प्रभोक्तव्यं यस्माद्दुःखसुखादिकम् । स एव भुंजते तत्र तस्मादेव न संशयः

无论某人应当领受何种乐或苦——在何处、因何缘——唯有他自己在那里受用或承受;对此毫无疑惑。

Verse 82

कर्मणोस्य फलं भुंक्ष्व स्वकीयस्य महीतले । यास्यसे निरयस्थानं परदाराभिमर्शनात्

在此大地上受用你自作之业的果报;但若侵犯他人之妻,必堕入地狱之处。

Verse 83

सुतीक्ष्णं हि सुधारं तु सुखड्गं च विघट्टति । अंगुल्यग्रेण कोपाय तथा मां विद्धि सांप्रतम्

纵使极锋利、精磨的宝剑,也要击之以验其刃;同样地,以指尖之触、因嗔怒而起——当知我此刻亦被激发。

Verse 84

सिंहस्य संमुखं गत्वा क्रुद्धस्य गर्जितस्य च । को लुनाति मुखात्केशान्साहसाकारसंयुतः

谁会走到一头暴怒咆哮的狮子面前,还敢以鲁莽之心从它口中拔毛?

Verse 85

सत्याचारां दमोपेतां नियतां तपसि स्थिताम् । निधनं चेच्छते यो वै स वै मां भोक्तुमिच्छति

凡真求死亡者,安住于真实之行,具自制,守戒律,恒住苦行(tapas)之中——此人确实欲与我相应、分受于我。

Verse 86

समणिं कृष्णसर्पस्य जीवमानस्य सांप्रतम् । गृहीतुमिच्छते सो हि यथा कालेन प्रेषितः

此刻他竟想夺取黑蛇尚活之时的宝珠,仿佛是被时间(死神)亲自差遣一般。

Verse 87

भवांस्तु प्रेषितो मूढ कालेन कालमोहितः । तदा ते ईदृशी जाता कुमतिः किं नपश्यसि

愚人啊,你乃被“时”本身所差遣,又被“时”所迷惑;因此你心中生起这般乖谬之见——你为何不自觉呢?

Verse 88

ऋते तु आयुपुत्रेण समालोकयते हि कः । अन्यो हि निधनं याति ममरूपावलोकनात्

然而,除阿瑜之子外,谁能直视于我?他人但凡一见我之形相,便立遭死亡。

Verse 89

एवमाभाषयित्वा तं गंगातीरं गता सती । सशोका दुःखसंविग्ना नियतानि यमान्विता

她如此对他说罢,那位贞善之女便往恒河之岸而去:满怀忧伤,为苦所扰,却坚定奉持诸“制戒”(yama)与自律之行。

Verse 90

पूर्वमाचरितं घोरं पतिकामनया तपः । तव नाशार्थमिच्छंती चरिष्ये दारुणं पुनः

往昔我为求得夫君而行可怖之苦行(tapas);如今我愿你灭亡,必将再度修持严酷的苦行。

Verse 91

यदा त्वां निहतं दुष्टं नहुषेण महात्मना । निशितैर्वज्रसंकाशैर्बाणैराशीविषोपमैः

当你这恶徒被大魂的那胡沙(Nahuṣa)所击倒——以锋利如金刚雷霆之箭,宛若致命毒蛇——

Verse 92

रणे निपतितं पाप मुक्तकेशं सलोहितम् । गतासुं च प्रपश्यामि तदा यास्याम्यहं पतिम्

“罪人啊,若我见到我的夫君战场倒下——发散披乱,遍染鲜血,气息已绝——那时我也将随我主而去。”

Verse 93

एवं सुनियमं कृत्वा गंगातीरमनुत्तमम् । संस्थिता हुंडनाशाय निश्चला शिवनंदिनी

于是,立下严峻的戒行之后,尼湿迦罗——湿婆之女——伫立于无与伦比的恒河岸边,心志坚定,誓欲灭除胡恩达族。

Verse 94

वह्नेर्यथादीप्तिमती शिखोज्ज्वला तेजोभियुक्ता प्रदहेत्सुलोकान् । क्रोधेन दीप्ता विबुधेशपुत्री गंगातटे दुश्चरमाचरत्तपः

正如火焰之舌炽然明耀,挟带热力,足以焚尽诸世界;同样地,因忿怒而燃起的天主之女,在恒河岸边修行了极其艰难的苦行。

Verse 95

कुंजल उवाच । एवमुक्ता महाभाग शिवस्य तनया गता । गंगांभसि ततः स्नात्वा स्वपुरे कांचनाह्वये

昆伽罗说道:如此被告诫后,那位尊贵的湿婆之女便离去。随后她在恒河之水中沐浴,前往自己名为迦旃那的城邑。

Verse 96

तपश्चचार तन्वंगी हुंडस्य वधहेतवे । अशोकसुंदरी बाला सत्येन च समन्विता

肢体纤秀的少女阿输迦孙达丽,为诛杀胡恩达而修行苦行,并具足真实不妄之德。

Verse 97

हुंडोपि दुःखितोभूतः शापदग्धेन चेतसा । चिंतयामास संतप्त अतीव वचनानलैः

连胡ṇḍa也忧苦不安;他的心被诅咒灼烧,又被尖刻言语之火深深煎迫,遂陷入惶惶的思虑之中。

Verse 98

समाहूय अमात्यं तं कंपनाख्यमथाब्रवीत् । समाचष्ट स वृत्तांतं तस्याः शापोद्भवं महत्

于是他召来名为Kampana的大臣开口说道,并将始末尽述——那由她的诅咒所引发的重大后果。

Verse 99

शप्तोस्म्यशोकसुंदर्या शिवस्यापि सुकन्यया । नहुषस्यापि मे भर्त्तुस्त्वं तु हस्तान्मरिष्यसि

“我已受诅咒——出自阿śokasundarī,湿婆那位贤德的女儿。你也必将死于我夫那胡ṣa之手。”

Verse 100

नैव जातस्त्वसौ गर्भ आयोर्भार्या च गुर्विणी । यथा सत्याद्व्यलीकस्तु तस्याः शापस्तथा कुरु

那胎儿根本未曾受孕,Āyu之妻也并未怀胎。因此,正如我所言皆是真实无欺,愿她的诅咒也如是应验。

Verse 101

कंपन उवाच । अपहृत्य प्रियां तस्य आयोश्चापि समानय । अनेनापि प्रकारेण तव शत्रुर्न जायते

Kampana说道:“掳走他所爱之人,也把Āyus一并带来。如此一来,你也不会有仇敌兴起。”

Verse 102

नो वा प्रपातयस्व त्वं गर्भं तस्याः प्रभीषणैः । अनेनापि प्रकारेण तव शत्रुर्न जायते

否则,切莫以可怖的威吓使她胎中流产;即便如此,也不会有你的仇敌出生。

Verse 103

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे त्र्यधिकशततमोऽध्यायः

至此,《圣莲华往世书》大地篇中——维那传说之内、师圣渡口功德章中、恰瓦那事迹里——第一百零三章圆满。

Verse 104

एवं संमंत्र्य तेनापि कंपनेन स दानवः । अभूत्स उद्यमोपेतो नहुषस्य प्रणाशने

如是商议之后,又因那战栗所催,这位达那婆坚定其志,着手谋求那胡沙的毁灭。

Verse 105

विष्णुरुवाच । एलपुत्रो महाभाग आयुर्नाम क्षितीश्वरः । सार्वभौमः स धर्मात्मा सत्यव्रतपरायणः

毗湿奴说道:“伊拉之子,福德殊胜的大王名为阿瑜,是转轮般的至上君主;其心正直,奉持真实之誓。”

Verse 106

इंद्रोपेंद्रसमो राजा तपसा यशसा बलैः । दानयज्ञैः सुपुण्यैश्च सत्येन नियमेन च

那位国王可比因陀罗与优彭陀罗,具足苦行、名声与威力;又以大福德的布施与祭祀,以及真实与戒律自持而庄严。

Verse 107

एकच्छत्रेण वै राज्यं चक्रे भूपतिसत्तमः । पृथिव्यां सर्वधर्मज्ञः सोमवंशस्य भूषणम्

那位最卓越的君王以一柄王伞统一天下,建立一统之权;在大地上他通达一切法(dharma),为月族(苏摩王族)之光饰。

Verse 108

पुत्रं न विंदते राजा तेन दुःखी व्यजायत । चिंतयामास धर्मात्मा कथं मे जायते सुतः

国王未得一子,因此忧苦而起。那位具正法之心者沉思道:“我如何才能得生一子?”

Verse 109

इति चिंतां समापेदे आयुश्च पृथिवीपतिः । पुत्रार्थं परमं यत्नमकरोत्सुसमाहितः

于是,大地之主阿瑜王陷入沉思;他心神安定,竭尽至诚之力,只为求得一子。

Verse 110

अत्रिपुत्रो महात्मा वै दत्तात्रेयो महामुनिः । क्रीडमानः स्त्रिया सार्द्धं मदिरारुणलोचनः

大圣牟尼达塔特雷亚——阿特里之子、伟大之灵——正与一女子嬉游,他的双眼赤红,宛如染了酒色。

Verse 111

वारुण्या मत्त धर्मात्मा स्त्रीवृंदैश्च समावृतः । अंके युवतिमाधाय सर्वयोषिद्वरां शुभाम्

他饮vāruṇī而醉,虽被称为具法之人,却被众多女子围绕;又将一位年轻的少女置于膝上,怀抱那位吉祥者——诸女中最胜者。

Verse 112

गायते नृत्यते विप्रः सुरां च पिबते भृशम् । विना यज्ञोपवीतेन महायोगीश्वरोत्तमः

那位婆罗门歌唱起舞,甚至纵饮烈酒;然而即使不佩戴祭线(yajñopavīta),他仍被称为诸大瑜伽行者中至上的主宰。

Verse 113

पुष्पमालाभिर्दिव्याभिर्मुक्ताहारपरिच्छदैः । चंदनागुरुदिग्धांगो राजमानो मुनीश्वरः

他佩戴天妙花鬘,缀以珍珠项链与诸般饰物;身涂檀香与沉香,作为诸牟尼之主,光辉灿然。

Verse 114

तस्याश्रमं नृपो गत्वा तं दृष्ट्वा द्विजसत्तमम् । प्रणाममकरोन्मूर्ध्ना दण्डवत्सुसमाहितः

国王前往他的精舍,见到那位最胜的二生者,便心神安定,俯首顶礼,行“杖式”全身投地之礼。

Verse 115

अत्रिपुत्रः स धर्मात्मा समालोक्य नृपोत्तमम् । आगतं पुरतो भक्त्या अथ ध्यानं समास्थितः

那位阿特里之子、具法性者,见最胜之王怀着虔敬来到面前,便随即安住于禅定(dhyāna)。

Verse 116

एवं वर्षशतं प्राप्तं तस्य भूपस्य सत्तम । निश्चलं शांतिमापन्नं मानसं भक्तितत्परम्

如此,当那位贤王度过百年之时,他的心意安住不动,得至寂静安宁,并全然专注于奉爱(bhakti)。

Verse 117

समाहूय उवाचेदं किमर्थं क्लिश्यसे नृप । ब्रह्माचारेण हीनोस्मि ब्रह्मत्वं नास्ति मे कदा

召来之后,他说道:“你为何自苦,国王啊?我已失却梵行(brahmacarya);真正的婆罗门之德从未在我身上显现。”

Verse 118

सुरामांसप्रलुब्धोऽस्मि स्त्रियासक्तः सदैव हि । वरदाने न मे शक्तिरन्यं शुश्रूष ब्राह्मणम्

“我沉溺于酒与肉,且常常迷恋女色。我无力赐予恩愿;你当侍奉别的婆罗门。”

Verse 119

आयुरुवाच । भवादृशो महाभाग नास्ति ब्राह्मणसत्तमः । सर्वकामप्रदाता वै त्रैलोक्ये परमेश्वरः

阿瑜说道:“大福德者啊,婆罗门中最上者——无人能及你。你实为三界至上主,能赐一切所愿之福。”

Verse 120

अत्रिवंशे महाभाग गोविंदः परमेश्वरः । ब्राह्मणस्य स्वरूपेण भवान्वै गरुडध्वजः

有福者啊,在阿特里(Atri)之族系中,至上主戈文达显现;而你这持迦楼罗旗帜者,也以婆罗门之形而示现。

Verse 121

नमोऽस्तु देवदेवेश नमोऽस्तु परमेश्वर । त्वामहं शरणं प्राप्तः शरणागतवत्सल

礼敬于你,诸神之主;礼敬于你,至上主宰。我今归依于你,慈护一切来投之众的主啊。

Verse 122

उद्धरस्व हृषीकेश मायां कृत्वा प्रतिष्ठसि । विश्वस्थानां प्रजानां तु विद्वांसं विश्वनायकम्

噢,Hṛṣīkeśa,请救度他。你摄受你的幻力(māyā)而安住于世。愿你护持那位智者——世界之主——并护佑居于宇宙诸界的众生。

Verse 123

जानाम्यहं जगन्नाथं भवंतं मधुसूदनम् । मामेव रक्ष गोविंद विश्वरूप नमोस्तु ते

我知你是Jagannātha,是Madhusūdana。唯愿你护我,噢Govinda;噢具宇宙之形者,向你顶礼。

Verse 124

कुंजल उवाच । गते बहुतिथे काले दत्तात्रेयो नृपोत्तमम् । उवाच मत्तरूपेण कुरुष्व वचनं मम

Kuṁjala说:过了很久,Dattātreya对那位卓越的国王说道,装作醉态而言:“照我所说去做。”

Verse 125

कपाले मे सुरां देहि पाचितं मांसभोजनम् । एवमाकर्ण्य तद्वाक्यं स चायुः पृथिवीपतिः

“把酒倒入我的骷髅钵中,并以熟肉为食供我。”听到这话,国王Āyu——大地之主——便随即应行。

Verse 126

उत्सुकस्तु कपालेन सुरामाहृत्य वेगवान् । पलं सुपाचितं चैव च्छित्त्वा हस्तेन सत्वरम्

他心怀急切,迅速以骷髅钵盛来酒;继而匆忙间亲手切下了一块熟透的肉。

Verse 127

नृपेंद्रः प्रददौ चापि दत्तात्रेयाय सत्तम । अथ प्रसन्नचेताः स संजातो मुनिपुंगवः

那位至善的国王也将供施奉献给达塔特雷耶。随后心意欢悦,他成为诸牟尼中最卓越的圣贤。

Verse 128

दृष्ट्वा भक्तिं प्रभावं च गुरुशुश्रूषणं परम् । समुवाच नृपेंद्रं तमायुं प्रणतमानसम्

见到他的虔敬、灵力与对上师至上的侍奉,他便对那位名为阿尤的国王开口;其心谦卑俯伏。

Verse 129

वरं वरय भद्रं ते दुर्लभं भुवि भूपते । सर्वमेव प्रदास्यामि यंयमिच्छसि सांप्रतम्

请你选择一项恩赐,愿其为你带来吉祥,国王啊。虽在人间难得,我将赐予你一切——此刻你所愿者皆可。

Verse 130

राजोवाच । भवान्दाता वरं सत्यं कृपया मुनिसत्तम । पुत्रं देहि गुणोपेतं सर्वज्ञं गुणसंयुतम्

国王说道:“圣贤之最啊,你确是真正赐福者。愿你以慈悲赐我一子,具足德行,通达一切,圆满诸善德。”

Verse 131

देववीर्यं सुतेजं च अजेयं देवदानवैः । क्षत्रियै राक्षसैर्घोरैर्दानवैः किन्नरैस्तथा

他具足神圣威力与炽盛光辉,坚不可胜——无论诸天(deva)或达那婆(Dānava),乃至刹帝利、可怖的罗刹、达那婆与紧那罗,皆不能降伏。

Verse 132

देवब्राह्मणसंभक्तः प्रजापालो विशेषतः । यज्वा दानपतिः शूरः शरणागतवत्सलः

他虔敬诸天与婆罗门,尤为护佑臣民;常行祭祀(yajña),为布施之主,英勇无畏,并慈怜一切来投归依者。

Verse 133

दाता भोक्ता महात्मा च वेदशास्त्रेषु पंडितः । धनुर्वेदेषु निपुणः शास्त्रेषु च परायणः

他慷慨施与,亦能正当受用,为大心之人;通达吠陀与诸论典(śāstra),精于弓术之学(Dhanurveda),并全然奉行经典教诲。

Verse 134

अनाहतमतिर्धीरः संग्रामेष्वपराजितः । एवं गुणः सुरूपश्च यस्माद्वंशः प्रसूयते

其志不为所伤,沉毅勇敢,战阵之中未尝败北;具此德行与端严相貌,乃能由其而生出高贵的族系。

Verse 135

देहि पुत्रं महाभाग ममवंशप्रधारकम् । यदि चापि वरो देयस्त्वया मे कृपया विभो

赐我一子吧,吉祥尊者,使我家族血脉得以承续。若你愿赐恩施愿,请以慈悲赐予我,伟大的主宰。

Verse 136

दत्तात्रेय उवाच । एवमस्तु महाभाग तव पुत्रो भविष्यति । गृहे वंशकरः पुण्यः सर्वजीवदयाकरः

达多特利耶(Dattātreya)说道:“如是,贤者。你将得一子;在你家中续立宗脉,具足清净功德,并怜悯一切众生。”

Verse 137

एभिर्गुणैस्तु संयुक्तो वैष्णवांशेन संयुतः । राजा च सार्वभौमश्च इंद्रतुल्यो नरेश्वरः

具足这些德行,并与毗湿奴本质之一分相应者,如此之王成为普世的君主——如因陀罗般,实为人间之主。

Verse 138

एवं खलु वरं दत्वा ददौ फलमनुत्तमम् । भूपमाह महायोगी सुभार्यायै प्रदीयताम्

如是赐下恩许之后,他又施与无上之果报。大瑜伽行者遂对国王说道:“当赐与汝之贤德妻。”

Verse 139

एवमुक्त्वा विसृज्यैव तमायुं प्रणतं पुरः । आशीर्भिरभिनंद्यैव अंतर्द्धानमधीयत

言毕,他遣退了在前俯伏的阿瑜;以祝福与称许加持之,旋即隐没不见。