
शुम्भवधः (Śumbhavadhaḥ)
Dharma Teachings
本章中,安比迦(Ambikā)—圣母杜尔迦—在尼舒姆婆(Niśumbha)被诛之后,与舒姆婆(Śumbha)展开决战。女神宣示:迦梨(Kālī)、查蒙荼(Cāmuṇḍā)及诸般神力(Śakti)皆为她一体之威德所现,随即尽皆回摄融入安比迦。最终舒姆婆被圣母降伏诛灭,正法复兴,诸界重归安宁。
Verse 1
ऋषिर्उवाच। निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम्। हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः॥
仙人说道:见到自己如同性命般珍爱的兄弟尼输婆(Nishumbha)被杀,且军队正遭毁灭,输婆(Shumbha)怒火充盈,说出了这些话。
Verse 2
बलावलेपाद्दुष्टे त्वं मा दुर्गे गर्वमावह । अन्यासां बलमाश्रित्य युध्यसे यातिमानिनी ॥
恶徒啊!杜尔迦(Durga),莫因你的力量而自矜。你是倚仗他者之力而战的,傲慢至极的女子啊!
Verse 3
श्रीदेव्युवाच । एकैवाहं जगत्यत्र द्वितीया का ममापरा । पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः ॥
女神说道:在此宇宙之中,唯有我独自存在;除我之外,复有谁在?恶徒啊,且看我这些化现如何尽皆归入我一体之中。
Verse 4
ऋषिरुवाच । ततः समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम् । तस्या देव्यास्तनौ जग्मुरेकावासीत्तदाम्बिका ॥
仙人说道:于是诸女神在梵摩尼(Brahmani)的率领下,尽皆融入女神(Devi)的身躯之中;唯有安比迦(Ambika)独自留下。
Verse 5
श्रीदेव्युवाच । अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता । तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव ॥
女神说道:“我曾以我的神圣威德(Vibhuti)在此显现为多种形相;如今这一切皆由我收摄归一。我确实独自屹立。于战斗中当坚住不动!”
Verse 6
ऋषिह्रुवाच । ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः । पश्यतां सर्वदेवानां असुराणां च दारुणम् ॥
仙人说道:于是女神与舒姆婆(Shumbha)之间展开了可怖的战斗,诸天与诸魔皆在旁见证。
Verse 7
शरवर्षैः शितैः शस्त्रैस्तथा चास्त्रैः सुदारुणैः । तयोर्युद्धमभूद् भूयः सर्वलोकभयङ्करम् ॥
在锋利箭雨、诸般兵器与极其可怖的飞射神兵的倾泻之下,两者[女神与舒姆婆]之间的战斗再度爆发,使一切世界皆生恐惧。
Verse 8
दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका । बभञ्ज तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः ॥
而安比迦所发出的无数神圣飞射之器,达底耶(Daitya)之主皆以自身能相克的兵器将其尽数击碎。
Verse 9
मुक्तानि तेन चास्त्राणि दिव्यानि परमेś्वरि । बभञ्ज लीलयैवोग्रहुंकारोच्चारणादिभिः ॥
噢,至上圣母!他所放出的诸般神圣飞弹,女神以凶烈的发声——如可怖的战吼“吽迦罗”(huṃkāra)等——便轻易将其击碎。
Verse 10
ततः शरशतैर्देवीमाच्छादयत सोऽसुरः । सा च तत्कुपिता देवी धनुश्चिच्छेद चेṣुभिः ॥
随后那阿修罗以数百支箭矢遮蔽女神。女神因此震怒,以自身的箭矢将他的弓斩断成碎片。
Verse 11
छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे । चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् ॥
当他的弓被斩断后,那代提耶之主便执起长枪(śakti)。女神以自己的神轮将其亦斩断,即使那枪仍握在他手中。
Verse 12
ततः खड्गमुपादाय शतचन्द्रं च भानुमत् । अभ्यधावत्तदा देवीṃ दैत्यानामधिपेś्वरः ॥
随后,那代提耶的王者执起宝剑与一面光辉闪耀、饰有百轮明月纹记的盾牌,向女神猛然冲去。
Verse 13
तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका । धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम् ॥
他冲锋之际,旃提迦(Caṇḍikā)迅疾斩断其剑;又以自弓发出的锐箭,洞穿其盾,那盾明耀如日光之辉。
Verse 14
अश्वांश्च पातयामास रथं सारथिना सह । हताश्वः स तदा दैत्यश्छिन्नधान्वा विसारथिः । जग्राह मुद्गरं घोरमम्बिकानिधनodyataḥ ॥
她击倒了他的战马与战车,并连同御者一并诛灭。随后那达伊提亚,马已被杀、弓已折断、又失去御者,便握起可怖的巨槌,立志要杀害安比迦(Ambikā)。
Verse 15
चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः । तथापि सोऽभ्यधावत्तां मुṣ्टिमुद्यम्य वेगवान् ॥
当他逼近时,她以锐利的箭矢斩断了他的巨槌。即便如此,他仍怒火迅疾,举拳冲向她。
Verse 16
स मुṣ्टिं पातयामास हृदये दैत्यपुṅ्गवः । देव्यास्तं चापि सा देवी तलेनोरस्यताडयत् ॥
那位达伊提亚中的雄牛以拳击中她的胸膛;而女神亦以掌心击打他的胸口。
Verse 17
तलप्रहाराभिहतो निपपात महीतले । स दैत्यराजः सहसा पुनरेव तथोत्थितः ॥
被她掌击所中,魔王倒落于地;然而转瞬之间,他又猛然起身。
Verse 18
उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः । तत्रापि सा निराधारा युयुधे तेन चण्डिका ॥
他纵身跃起,抓住女神,直升高空。即使在那无所凭依之处,旃提迦(Caṇḍikā)仍与他搏战。
Verse 19
नियुद्धं खे तदा दैत्यश्चण्डिका च परस्परम् । चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम् ॥
于是,那位阿修罗与旃提迦在空中展开近身搏战——起初——此番交锋令诸位已臻圆满的圣仙大为惊异。
Verse 20
ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह । उत्पाट्य भ्रामयामास चिक्षेप धरणीतले ॥
随后,他与安比迦久战近搏,便抓住女神,将她旋转抡起,猛然掷向大地。
Verse 21
स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगितः । अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया ॥
被掷落后,他坠至大地;举起拳头,怒火奔涌,那心性邪恶者猛冲向前,欲杀旃提迦。
Verse 22
तमायान्तं ततो देवी सर्वदैत्यजनेश्वरम् । जगत्यां पातयामास भित्त्वा शूलेन वक्षसि ॥
于是,女神在大地上击倒那逼近的阿修罗军主宰,以长矛刺穿其胸膛。
Verse 23
स गतासुः पपातोर्व्यां देवीशूलाग्रविक्षतः । चालयन् सकलां पृथ्वीं साब्धिद्वीपां स पर्वताम् ॥
被女神长矛之锋所伤,他无生命地倒伏于地,震动了整个世界——海洋、群岛与群山尽皆摇撼。
Verse 24
ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि । जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ॥
当那恶者被诛灭之时,万象皆归寂静;世间得大安泰,天空亦复澄明。
Verse 25
उत्पातमेघाः सोल्का ये प्रागासंस्ते शमं ययुः । सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥
先前出现、挟带凶兆并伴随流星的云团亦复平息;那些曾逆常道而流的诸河,在他于彼处被击倒时,皆归于正途。
Verse 26
ततो देवगणाः सर्वे हर्षनिर्भमानसाः । बभूवुर्निहते तस्मिन् गन्धर्वा ललितं जगुः ॥
于是当他被诛杀之时,诸天众皆充满欢喜,乾闼婆亦以妙音歌咏。
Verse 27
अवादयंस् तथैवान्ये ननृतुश्चाप्सरोगणाः । ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः ॥
又有他者奏诸乐器;众阿普萨罗(天女)起舞。吉祥之风吹拂,日轮以辉煌光明照耀。
The chapter addresses the theological challenge of apparent plurality in divine power: Śumbha claims the Goddess depends on others, and she replies with a non-dual assertion that all devīs are her own vibhūtis, collapsing multiplicity into a single sovereign śakti.
Placed within the Sāvarṇika Manvantara setting of the Devīmāhātmya, this Adhyaya functions as a Manvantara-era exemplum: a crisis of asuric rule is resolved by the Goddess, reaffirming cosmic governance and dharmic stability characteristic of Manvantara historiography.
It delivers the Devīmāhātmya’s climactic doctrinal and narrative closure: the devī host is reabsorbed into Ambikā to demonstrate ekatva (oneness) of śakti, and Śumbha’s death by the śūla confirms the Goddess as the supreme, self-sufficient divine agency restoring universal auspiciousness.