
धूम्रलोचनवधः (Dhūmralocanavadhaḥ)
After the Mahatmya
在《马尔坎德耶往世书》第87章中,女神考希吉(Kaushiki)为摧灭阿修罗,从自身光辉中显现出威猛而神圣的迦梨(Kali)。舒姆婆与尼舒姆婆派遣“烟眼者”杜姆罗洛恰那(Dhumralochana)前来擒拿女神,却被女神的威力与神言所灭,并为迦梨之势所摧折。继而旃陀与蒙陀(Chanda、Munda)来犯,亦被迦梨斩杀,首级奉献于女神。女神因此赐迦梨名号“旃蒙荼”(Chamunda),彰显圣力(Shakti)护持正法之胜利。
Verse 1
इति श्रीमार्कण्डेयमहापुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये धूम्रलोचनवधो नाम षडशीतीतमोऽध्यायः । सप्तशीतीतमोऽध्यायः- ८७ ऋषिरुवाच— आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः । चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः ॥
至此,在《圣·摩尔甘德耶大往世书》中,于萨伐尔尼迦·摩奴万陀罗之段、《女神圣功德》(Devī Māhātmya)之内,名为“诛灭杜姆拉洛恰那(Dhūmralocana)”的第八十六章告终。第八十七章开始。仙人曰:其时,那些由旃陀(Caṇḍa)与牟ṇḍa(Muṇḍa)率领、奉顺婆(Śumbha)之命的代底耶(daitya)举兵而出,率四部军,兵刃高举。
Verse 2
ददृशुस्ते ततो देवीं ईषद्धासां व्यवस्थिताम् । सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने ॥
随后他们看见女神立于狮背,神情安定,微含笑意,驻足在那雄伟山岳之上一座巨大的金色峰巅。
Verse 3
ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यताः । आकृष्टचापासिधरास्तथान्ये सत्समीपगाः ॥
见到她,他们便整装欲擒;有的张弓在手、执剑而立,另一些则逼近她身旁。
Verse 4
ततः कोपं चकारोच्चैरम्बिका तानरीन् प्रति । कोपेन चास्या वदनं मषीवर्णमभूत्तदा ॥
于是安比迦对那些敌人骤然大怒;因这忿怒之力,当下她的面容变得如墨一般幽黑。
Verse 5
भ्रुकुटीकुटिलात्तस्याः ललाटफलकाश् द्रुतम् । काली करालवदना विनिष्क्रान्तासिपाशिनी ॥
从她因皱眉而起褶的额间,迅疾涌现出迦梨(Kālī)——面相凶烈——现身时手持利剑与绳索套(pāśa)。
Verse 6
विचित्रखट्वाङ्गधरा नरमालाविभूषणा । द्वीपिचर्मपरिधानाः शुष्कमांसातिभैरवा ॥
她执持奇异的骷髅顶杖;以人首花鬘为饰,披虎皮,极其可怖——如枯槁之肉(瘦削而骇人)。
Verse 7
अतिविस्तारवदना जिह्वाललनभीषणा । निमग्नारक्तनयना नादापूरितदिङ्मुखा ॥
她口阔无比;吐舌垂出,令人战栗;双目深陷而血红;以其咆哮充满诸方之面(遍满天际)。
Verse 8
सा वेगेनाभिपतिता घातयन्ती महासुरान् । सैन्ये तत्र सुरारीणाम् अभक्षयत तद्बलम् ॥
她疾驰冲入,击倒诸大阿修罗;在那里,于诸天之敌的军阵中,她吞噬了那一整支军众。
Verse 9
पार्ष्णिग्राहाङ्कुशग्राहियोधघण्टासमन्वितान् । समादायैकहस्तेन मुखे चिक्षेप वारणान् ॥
她以一手攫住群象——连同执持驱象钩刺与钩镰(aṅkuśa)的象骑,伴着战士铃铎之声——尽皆抛入自己口中。
Verse 10
तथैव योधं तुरगै रथं सारथिना सह । निक्षिप्य वक्त्रे दशनैश् चर्वयन्त्यतिभैरवम् ॥
同样,女神将那战士、群马与战车连同御者一并投入自己口中,以牙齿嚼碎——其景象骇人至极。
Verse 11
एकं जग्राह केशेषु ग्रीवायामथ चापरम् । पादेनाक्रम्य चैवान्यमुरसाऽन्यमपोथयत् ॥
她抓住一人之发,扼住另一人之颈;一人被她以足践踏,另一人又被她以胸膛压碎。
Verse 12
तैर् मुक्तानि च शस्त्राणि महास्त्राणि तथाऽसुरैः । मुखेन जग्राह रुषा दशनैर् मथितान्यपि ॥
而那些阿修罗所放出的武器——强大的飞射——女神在忿怒中以口衔住,甚至以牙齿将其碾碎。
Verse 13
बलिनां तद्बलं सर्वम् असुराणां दुरात्मनाम् । ममर्दाऽभक्षयच्चान्यान् अन्यांश्चाताडयत्तथा ॥
她摧碎了那些强大却心性邪恶的阿修罗的一切力量;有的被她吞噬,有的也被她击倒。
Verse 14
असिना निहताः केचित् केचित्खट्वाङ्गताडिताः । जग्मुर्विनाशम् असुरा दन्ताग्राभिहता रणॆ ॥
有的被她之剑所杀,有的被她的骷髅杖所击;诸阿修罗在战斗中走向毁灭,甚至被她牙尖所伤而毙。
Verse 15
क्षणेन तन्महासैन्यमसुराणां निपातितम् । दृष्ट्वा चण्डोऽभिमैर्भोमाक्षीं तां महासुरः ॥
顷刻之间,那庞大的阿修罗军便被击溃。见到可怖的婆摩阿克希(Bhomākṣī),大阿修罗旃陀(Caṇḍa)怀着凶猛之意向她逼近。
Verse 16
शरवर्षैर्महाभीमैर्भोमाक्षीं तां महासुरः । छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः ॥
大阿修罗以可怖的箭雨遮蔽了那位婆摩阿克希(Bhomākṣī);而蒙陀(Muṇḍa)也以成千上万掷出的轮盘(cakra)将她覆盖。
Verse 17
तानि चक्राण्यनेकानि विशमानानि तन्मुखम् । बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम् ॥
那些众多的轮盘向她面前飞来,在浓密的兵刃之云中放光——宛如无数太阳的光轮。
Verse 18
ततो जहासातिरुषा भीमं भैरवनादिनी । काली करालवक्त्रान्तर्दुर्दर्शदशनोज्ज्वला ॥
于是迦梨(Kālī)在炽烈的忿怒中大笑——可怖如怖畏尊(Bhairava)之吼——口张得骇人,炽燃的牙齿令人不敢直视。
Verse 19
उत्थाय च महासींहं देवी चण्डमधावत । गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ॥
女神如大狮奋起,猛然扑向旃陀(Caṇḍa)。她揪住其发,以宝剑斩下其首。
Verse 20
छिन्ने शिरसि दैत्येन्द्रश्चक्रे नादं सुभैरवम् । तेन नादेन महता त्रासितं भुवनत्रयम् ॥
当他的头颅被斩落时,代底耶众之主发出极其可怖的巨吼;那宏大的声响使三界因恐惧而震动。
Verse 21
अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम् । तमप्यपातयद्भूमौ सा खड्गाभिहता रुषा ॥
于是,穆ṇḍa见Caṇḍa已被诛杀,便冲向她。她亦怒起,以剑击之,将其斩倒在地。
Verse 22
हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम् । मुण्डं च सुमहावीर्यं दिशो भेजे भयातुरम् ॥
随后,余下的军队见Caṇḍa倒下,且勇猛的穆ṇḍa亦已覆灭,便惊惧四散,奔逃向诸方。
Verse 23
शिरञ्चण्डस्य काली च गृहीत्वा मुण्डमेव च । प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् ॥
迦梨取了Caṇḍa之首,又取穆ṇḍa之首,走近Caṇḍikā,对她说道,言语间夹杂着狂烈而高亢的狞笑。
Verse 24
मया तवात्रोपहृतौ चण्डमुण्डौ महापशू । युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि ॥
“我已将Caṇḍa与穆ṇḍa——那两头巨大的恶兽——带到你前。在战斗的祭献中,将由你亲自诛灭Śumbha与Niśumbha。”
Verse 25
ऋषिरुवाच तावानीतौ ततो दृष्ट्वा चणाडमुण्डौ महासुरौ । उवाच कालीं कल्याणी ललितं चण्डिका वचः ॥
仙人说道:随后,见那两位大阿修罗——旃陀与牟ṇ陀——被押至她前,吉祥的旃ḍikā以柔和之语对迦梨说道。
Verse 26
श्रीदेव्युवाच यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता । चामुण्डेति ततो लोके ख्याता देवि भविष्यसि ॥
圣母女神说道:因为你前来时擒获了旃陀与牟ṇ陀,因此在世间,噢女神,你将以“迦牟ṇḍā(Cāmuṇḍā)”之名而著称。
The chapter foregrounds shaktic sovereignty: when cosmic disorder intensifies, the Devī externalizes a specialized power (Kālī) as an emanation of her own will. The ethical logic is that adharma, embodied by predatory asuric aggression, is countered not by negotiation but by a proportionate, purgative force that restores cosmic balance.
Although the action is martial, it is explicitly situated within the Sāvarṇika Manvantara framing of the Devī Māhātmya, reinforcing that the Devī’s interventions recur across manvantara-cycles as a transhistorical principle of protection and re-stabilization of dharma.
It supplies a key theological and liturgical node: Kālī’s emergence from Ambikā’s brow and the slaying of Caṇḍa and Muṇḍa culminate in the bestowal of the name Cāmuṇḍā. This episode grounds later hymnology, iconography, and devotional usage of ‘Chamunda’ as a recognized form of the Devī.