
पितापुत्रसंवादः — अनसूयामाहात्म्योपाख्यानम् (Pitāputrasaṃvādaḥ — Anasūyāmāhātmyopākhyānam)
Surya's Dynasty
本章叙述父子对谈,阐明出离与舍弃执著之道。儿子劝父亲远离欲望、嗔怒与我慢,使心归于真我(Ātman)的寂静,趋向解脱。继而讲述阿那苏雅与曼达维亚的故事,彰显贞妇誓行(pativratā)的威德:凭真实与清净的誓愿,阿那苏雅竟能令日出暂止,以护持夫君,显示正法之力足以超越自然常则。
Verse 1
इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादो नाम पञ्चदशोऽध्यायः । षोडशोऽध्यायः पितावाच कथितं मे त्वया वत्स संसारस्य व्यवस्थितम् । स्वरूपमतीहेयस्य घटीयन्त्रवदव्ययम् ॥
如是,在尊贵的《摩尔迦ṇḍeya往世书》中,第十五章《父子对话》至此终了。第十六章:父亲说道:“亲爱的孩子,你已向我阐明轮回(saṃsāra)依序运作之理——其相难越、无有间断,宛如水钟之机括。”
Verse 2
तदेवमेतदखिलं मयावगतमीदृशम् । किं मया वद कर्तव्यमेवस्मिन् व्यवस्थिते ॥
因此,如今我已如其本然地明了这一切。请告诉我——既然诸事如此安排,我当作何所行?
Verse 3
पुत्र उवाच यदि मद्वचनं तात श्रद्धधास्यविशङ्कितः । तत् परित्यज्य गार्हस्थ्यं वानप्रस्थपरो भव ॥
儿子说道:“父亲,若你对我的话毫无疑惑而信受,就当舍弃居家之业,专心奉行林居期(vānaprastha)的道路。”
Verse 4
तम् अनुष्ठाय विधिवद् विहायाग्निपरिग्रहम् । आत्मन्यात्मानमाधाय निर्द्वन्द्वो निष्परिग्रहः ॥
“既已如法受持彼等修行,并舍弃供奉祭火之事,当令自我安住于真我之中;超越对待二边,离于一切占有。”
Verse 5
एकान्तराशी वश्यात्मा भव भिक्षुरतन्द्रितः । तत्र योगापरो भूत्वा बाह्यस्पर्शविवर्जितः ॥
“当独处而受食,自我调御;成为精勤的行乞沙门。于彼处专注于瑜伽,安住为远离外缘接触者(感官触境与世务往来)。”
Verse 6
ततः प्राप्स्यति तं योगं दुःशसंयोगभेषजम् । मुक्तिहेतुमनौपम्यमनाक्ख्येयमसङ्गिनम् । यत्संयोगान्न ते योगो भूयो भूतैर्भविष्यति ॥
“于是你将证得彼瑜伽——为难堪之结合(与苦相连)之良药。此乃解脱之因:无比、不可言说、而无所系著。由其成就,你将不复与具身众生再有任何‘瑜伽’(系缚之联系),即不再受生。”
Verse 7
पितावाच वत्स योगं ममाचक्ष्व मुक्तिहेतुमतः परम् । येन भूतैः पुनर्भूतो नेदृगः खमवाप्नुयाम् ॥
父亲说道:“爱子啊,请教我那瑜伽——解脱之至上因;凭此,即使我再度在众生之中受生,也不致在(存在之)苍穹——轮回之天——再遭此等忧苦之命运。”
Verse 8
यत्रासक्तिपरस्यात्मा मम संसारबन्धनैः । नैति योगमयोगोऽपि तं योगमधुना वद ॥
请现在告诉我那种瑜伽:使我之自性专注于无执,而不被轮回(saṃsāra)的系缚所束缚——在其中,甚至“非瑜伽”也不会变成另一种“瑜伽”(成为新的束缚之联系)。
Verse 9
संसारादित्यतापार्तिविप्लुष्यद्देहमांससम् । ब्रह्मज्ञानाम्बुशीतॆन सिञ्च मां वाक्यवारिणा ॥
我的身与心被轮回之日的炽热所灼,如同滴落消耗一般。愿你以言语之雨,洒我以梵(Brahman)智的清凉之水。
Verse 10
अविद्याकृष्णसर्पेण दष्टं तद्विषपीडितम् । स्ववाक्यामृतपानेन मां जीवय पुनर्मृतम् ॥
我被无明之黑蛇所噬,又为其毒所压迫;愿你使我这几同死者复苏,令我饮你言语之甘露(amṛta)。
Verse 11
पुत्रदारगृहक्षेत्रममत्वनिगडार्दितम् । मां मोचयेष्टसद्भावविज्ञानोद्घाटनैस्त्वरन् ॥
我为对儿子、妻子、家宅与田土的“我所”之系缚所苦。愿你速以开启真实实相之智与所求至上善之道,而解脱我。
Verse 12
पुत्र उवाच शृणु तात यथा योगो दत्तात्रेयेण धीमता । अलर्काय पुरा प्रोक्तः सम्यक् पृष्टेन विस्तरात् ॥
儿子说道:“父亲,请听:昔日智者达多特利耶(Dattātreya)在被正当地请问时,曾如何详尽地向阿拉尔迦(Alarka)教授瑜伽。”
Verse 13
पितोवाच दत्तात्रेयः सुतः कस्य कथं वा योगमुक्तवान् । कश्चालर्को महाभागो यो यौगं परिपृष्टवान् ॥
父亲说道:“达塔特雷耶(Dattātreya)是谁之子?他如何以瑜伽而证得解脱(mokṣa)?那位有福的阿拉尔卡(Alarka),向人请问瑜伽者,又是谁?”
Verse 14
पुत्र उवाच कौशिको ब्राह्मणः कश्चित् प्रतिष्ठानेऽभवत् पुरे । सोऽन्यजन्मकृतैः पापैः कुष्ठरोगातुरोऽभवत् ॥
儿子说道:“在普拉提什塔那(Pratiṣṭhāna)城中,有一位名叫考希迦(Kauśika)的婆罗门。因前生所造之罪,他患上麻风之疾。”
Verse 15
तं तथा व्याधितं भार्या पतिं देवमिवार्च्चयत् । पादाभ्यङ्गाङ्गसंवाह-स्त्रानाच्छादनभोजनैः ॥
虽身染重病,他的妻子仍如敬奉天神般敬事其夫:为他按摩双足,涂抹摩擦四肢,为他沐浴、更衣,并奉食喂养。
Verse 16
श्लेष्म-मूत्र-पुरीषासृक्-प्रवाहक्षालनॆन च । रहश्चैवोपचारॆण प्रियसम्भाषणॆन च ॥
又为他洗净所流之痰、尿、粪与血;在私密处悉心照料;并以柔和慈爱的言语与他交谈。
Verse 17
स तया पूज्यमानोऽपि सदातीव विनीतया । अतीव तीव्रकोपत्वान्निर्भर्त्सयति निष्ठुरः ॥
虽她以极其谦卑之心敬奉于他,然而因其暴烈至极的嗔怒,那残酷之人仍不断呵斥责骂于她。
Verse 18
तथापि प्रणता भार्या तममन्यत दैवतम् । तं तथाप्यतिबीभत्सं सर्वश्रेष्ठममन्यत ॥
即便如此,那位虔敬的妻子仍将他视为自己的神明;纵然他极其令人厌恶,她依旧认为他是众人之中最上者。
Verse 19
अचङ्क्रमणशोलोऽपि स कदाचिद् द्विजोत्तमः । प्राह भार्यां नयस्वेति त्वं मां तस्या निवेशनम् ॥
尽管他不能行走,那位卓越的婆罗门曾对妻子说道:“带我去——引我去——到她的住处。”
Verse 20
या सा वेश्या मया दृष्टा राजमार्गे गृहोषिता । तां मां प्रापय धर्मज्ञे ! सैव मे हृदि वर्तते ॥
“我所见的那位妓女,住在王道大路旁的一所房屋里——懂得达摩者啊,带我去见她!唯有她住在我心中。”
Verse 21
दृष्टा सूर्योदये बाला रात्रिश्चेयमुपागता । दर्शनानन्तरं सा मे हृदयान्नापसर्पति ॥
“我在日出时见到那位少女,如今夜晚已至;自从见她之后,她便不曾离开我的心。”
Verse 22
यदि सा चारुसर्वाङ्गी पीनश्रोणिपयोधरा । नोपगूहति तन्वङ्गी तन्मां द्रक्ष्यसि वै मृतम् ॥
“若那位肢体纤细的女子——周身皆美,臀与乳丰盈——不拥抱我,那么你必定会见我死去。”
Verse 23
वामः कामो मनुष्याणां बहुभिः प्रार्थ्यते च सा । ममाशक्तिश्च गमने सङ्कुलं प्रतिभाति मे ॥
“人间的欲望本就反复无常,那女子又为众人所追求。至于我,实无力前往;此行在我看来艰难而纷乱,障碍重重。”
Verse 24
तत् तदा वचनं श्रुत्वा भर्तुः कामातुरस्य सा । तत्पत्नी सत्कुलोत्पन्ना महाभागा पतिव्रता ॥
她听见丈夫那被欲念所苦的话语后,那位出身良族、福德具足、敬奉夫君的妻子,便准备依从。
Verse 25
गागं परिकरं बद्ध्वा शुल्कमादाय चाधिकम् । स्कन्धे भर्तारमादाय जगाम मृदुगामिनी ॥
她捆好所需之物,收取酬金(并多得一些),便将丈夫负于肩上而出发——步履柔和。
Verse 26
निशि मेघास्तृते व्योम्नि चलद्विद्युत्प्रदर्शिते । राजमार्गे प्रियं भर्तुश्चिकीर्षन्ती द्विजाङ्गना ॥
夜间,苍穹为云所覆,又被游走的闪电照亮,那位婆罗门女子行于王道之上,只愿成就丈夫所喜之事。
Verse 27
पथि शूले तथा प्रोतं चौरं यौरशङ्कया । माण्डव्यमतिदुःखार्तमन्धकारेऽथ स द्विजः ॥
在路上、于黑暗之中,那位婆罗门(考希迦)遇见了被钉穿在木桩上的曼达维亚——因疑作盗贼而受刑——正被极剧之痛所折磨。
Verse 28
पत्नीस्कन्धे समारूढश्चालयामास कौशिकः । पादावमर्षणात् क्रुद्धो माण्डव्यस्तमुवाच ह ॥
他骑坐在妻子的肩上,考希迦推搡冲撞了他。因被其双足践踏/踢击而震怒,曼达维亚便对他说道。
Verse 29
येनाहमेवमत्यर्थं दुःखितश्चालितः पदाः । दशां कष्टामनुप्राप्तः स पापात्मा नराधमः ॥
“在这般凄惨境况中,我已受极大折磨;凡以脚踢打/撼动我者——此人乃罪恶之魂,乃人中最下者!”
Verse 30
सूर्योदयेऽवशः प्राणैर्विमोक्ष्यति न संशयः । भास्करालोकनादेव स विनाशमवाप्स्यति ॥
“日出之时,他将无助地舍弃性命——毫无疑问。仅仅见到日光,他便将走向毁灭。”
Verse 31
तस्य भार्याततः श्रुत्वा तं शापमतिदारुणम् । प्रोवाच व्यथिता सूर्यो नैवोदयमुपैष्यति ॥
于是他的妻子听到那极其可怖的诅咒,悲痛之下宣告:“太阳将绝不升起。”
Verse 32
ततः सूर्योदयाभावादभवत् सन्तता निशा । बहून्यहः प्रमाणानि ततो देवा भयं ययुः ॥
随后,由于日出未现,黑夜便连绵不断。经多日之久,诸天神祇于是陷入恐惧。
Verse 33
निःस्वाध्यायवषट्कार-स्वधास्वाहाविवर्जितम् । कथं नु खल्विदं सर्वं न गच्छेत् संक्षयं जगत् ॥
若整个世界缺失svādhyāya(吠陀自习研读)以及祭仪呼声——vaṣaṭ、svadhā、svāhā——它又怎能不走向毁坏?
Verse 34
अहोरात्रव्यवस्थाया विना मासर्तुसंक्षयः । तत्संक्षयान्न त्वयने ज्ञायेते दक्षिणोत्तरे ॥
若无昼夜的有序安排,月与季节便会崩解;而当其崩解时,南北二ayana(南行与北行)亦不可得知。
Verse 35
विना चायनविज्ञानात् कालः संवत्सरः कुतः । संवत्सरं विना नान्यत् कालज्ञानं प्रवर्तते ॥
又若不知诸ayana,何以成立名为“年”的时间单位?无有“年”,其余一切关于时间的认知亦不能如法推进。
Verse 36
पतिव्रताया वचसा नोद्गच्छति दिवाकरः । सूर्योदयṃ विना नैव स्नानदानादिकाः क्रियाः ॥
凭一位贞信持戒之妻(pativratā)的言命,太阳亦不升起;而无日出,则沐浴、布施等诸行皆不得行。
Verse 37
नाग्नेर्विहरणञ्चैव क्रात्वभावश्च लक्ष्यते । नैवाप्ययनमस्माकं विना होमेन जायते ॥
甚至火的“运行”(活动)与祭祀(yajña)之成立,也被观察为依赖仪轨;同样,我们的ayana(季节性行程)若无homa(火供)便不生起。
Verse 38
वयमाप्यायिता मर्त्यैर्यज्ञभागैर्यथोचितैः । वृष्ट्या ताननुगृह्णीमो मर्त्यान् शस्यादिसिद्धये ॥
我们由人类以祭祀中应得的份额而得滋养;又以降雨施恩于彼等,使庄稼等诸物得以成就兴盛。
Verse 39
निष्पादितास्वोषधीषु मर्त्या यज्ञैर्यजन्ति नः । तेषां वयं प्रयच्छामः कामान् यज्ञादिपूजिताः ॥
当药草与诸般出产已生起时,凡人以祭祀礼敬我们;而当我们以祭祀等受尊崇时,我们便赐予他们所愿之目标。
Verse 40
अधो हि वर्षाम वयं मर्त्याश्चोर्ध्वप्रवर्षिणः । तोयवर्षेण हि वयं हविर्वर्षेण मानवाः ॥
我们向下降雨,而凡人则“向上降雨”。我们以降下雨水而为之;人类以倾献供物(havis,祭献之酥乳等)而为之。
Verse 41
ये नास्माकं प्रयच्छन्ति नित्यनैमित्तकीः क्रियाः । क्रतुभागं दुरात्मानः स्वयञ्चाश्नन्ति लोलुपाः ॥
凡不向我们奉献应行的日常与时令仪轨者——那些邪恶而贪婪之人——便将祭祀之份据为己用而自食。
Verse 42
विनाशाय वयं तेषां तोयसूर्याग्निमारुतान् । क्षितिञ्च सन्दूषयामः पापानामपकारिणाम् ॥
为毁灭他们,我们使那些作恶害人的罪人之水、日、火、风,乃至大地,都变得败坏失调。
Verse 43
दुष्टतोयादिभोगेन तेषां दुष्कृतकर्मिणाम् । उपसर्गाः प्रवर्तन्ते मरणाय सुदारुणाः ॥
因饮用不净之水等物,作恶之人便遭受可怖的灾厄,步步逼近死亡。
Verse 44
ये त्वस्मान् प्रीणयित्वा तु भुञ्जते शेषमात्मना । तेषां पुण्यान् वयं लोकान् विदधाम महात्मनाम् ॥
然而,那些先令我等欢喜,继而自取所余者——我等赐予这些大心之人以功德之界。
Verse 45
तन्नास्ति सर्वमेवैतद्विनैषां व्युष्टिसंस्थितम् । कथं नु दिनसर्गः स्यादन्योऽन्यमवदन्सुराः ॥
若无他们建立黎明,这一切便不能成立;那么白昼又怎能发生?——诸神彼此如是言说。
Verse 46
तेषामेव समेतानां यज्ञव्युच्छित्तिशङ्किनाम् । देवानां वचनं श्रुत्वा प्राह देवः प्रजापतिः ॥
当诸神聚集,惧怕祭祀将息,而其言语被听闻之时,神祇般的生主(Prajāpati)开口说道。
Verse 47
तेजः परं तेजसैव तपसा च तपस्तथा । प्रशाम्यतेऽमरास्तस्माच्छृणुध्वं वचनं मम ॥
噫,不死者们!至上的光威(tejas)唯以光威自能平息,苦行之力(tapas)亦唯以苦行之力制伏;故当听我之言。
Verse 48
पतिव्रतायाः माहात्म्यान्नोद्गच्छति दिवाकरः । तस्य चानुदयाद्धानिर्मर्त्यानां भवतां तथा ॥
由于守夫誓的贞妇(pativratā)之伟大威德,太阳不再升起;而因其不升起,凡人(以及你们)同样遭受损害。
Verse 49
तस्मात् पतिव्रतामत्रेरनुभूयां तपस्विनीम् । प्रसादयत वै पत्नीं भानोरुदयकाम्यया ॥
因此,为求太阳再度升起,你们应前往礼敬并安抚阿特里之苦行、守夫誓之妻——阿那苏雅(Anasūyā)。
Verse 50
पुत्र उवाच तैः सा प्रसादिता गत्वा प्रोह्येष्टं व्रियतामिति । अयाचन्त दिनं देवाः भवत्विति यथा पुरा ॥
其子说道:她因他们而欢喜,遂前往并说道:“愿所期之仪轨得以圆满。”诸神于是祈求:“愿白昼如昔再现。”
Verse 51
अनसूयोवाच पतिव्रतायाः माहात्म्यं न हीयेत कथंत्विति । सम्मान्य तस्मात् तां साध्वीमहमः स्त्रक्ष्याम्यहं सुराः ॥
阿那苏雅说道:“守夫誓者(pativratā)的伟大岂能减损?”因此,诸神啊,礼敬那位贤德之女,我将使白昼生成。
Verse 52
यथा पुनरहोरात्र-संस्थानमुपजायते । यथा च तस्याः स्वपतिर् न साध्व्या नाशमेṣ्यति ॥
为使昼夜之秩序再度兴起,并使她的丈夫不因那位贤德之女而遭毁灭——此事必须得到确保。
Verse 53
पुत्र उवाच एवमुक्त्वा सुरां तस्याः गत्वा सा मन्दिरं शुभा । उवाच कुशलं पृष्टा धर्मं भर्तुस्तथात्मनः ॥
儿子说道:如此说罢,那位吉祥的女子便前往她(阿那苏雅)的居所。被问及安好与否时,她陈述了其夫与自身所守之正法(dharma)。
Verse 54
अनसूयोवाच कच्चिन्नन्दसि कल्याणि स्वभर्तुर्मुखदर्शनात् । कच्चिच्चाखिलदेवेभ्यो मन्यसेऽभ्यधिकं पतिम् ॥
阿那苏雅说道:噢,吉祥者,你见到夫君之面可心生欢喜吗?你是否认为你的夫君甚至胜过一切诸天?
Verse 55
भर्तृशुश्रूषणादेव मया प्राप्तं महत्फलम् । सर्वकामफलावाप्त्या प्रत्यूहाः परिवर्तिताः ॥
唯以侍奉夫君一事,我便获得了巨大的果报;既得一切所愿之果,诸般障碍皆被退却(消除)。
Verse 56
पञ्चर्णानि मनुष्येण साध्वि ! देयानि सर्वदा । तथात्मवर्णधर्मेण कर्तव्यो धनसंचयः ॥
噢,贤德的女子,世人恒当偿尽五种债务;而财富亦应依自身种姓之本分(varṇa-dharma)而正当积聚。
Verse 57
प्राप्तश्चार्थस्ततः पात्रे विनियोज्यो विधानतः । सत्यार्जव-तपो-दानैर्दयायुक्तो भवेत् सदा ॥
凡所得之财,当依规分配与堪受之人。应恒具真实、坦直、苦行(tapas)、布施与悲悯之心。
Verse 58
क्रियाश्च शास्त्रनिर्दिष्टा रागद्वेषविवर्जिताः । कर्तव्या अन्वहं श्रद्धा-पुरस्कारेण शक्तितः ॥
经论所规定之行持,应当日日奉行,远离贪著与憎恶;以信心为先,并随自力而行。
Verse 59
स्वजातिविहितानेव लोकानाप्नोति मानवः । क्लेशेन महता साध्वि ! प्राजापत्यादिकान् क्रमात् ॥
众生唯能到达为其自身身分(种姓/阶序,jāti/varna)所规定之诸界。噫,贤德之女,唯以大精进,方能依次抵达般阇钵底界(Prajāpatya)及其他境界。
Verse 60
स्त्रियस्त्वेवं समस्तस्य नरैर्दुःखार्जितस्य वै । पुण्यस्यार्धापहारिण्यः पतिशुश्रूषयैव हि ॥
是故,女子确能分受男子艰辛所获功德之半——唯由侍奉其夫而已。
Verse 61
नास्ति स्त्रीणां पृथग्यज्ञो न श्राद्धं नाप्युपोषितम् । भर्तृशुश्रूषयैवैतान् लोकानीष्टान् व्रजन्ति हि ॥
于女子而言,并无别立之祭祀,亦无别立之施罗陀(śrāddha),乃至作为独立仪轨之斋戒亦无;唯以侍奉其夫,实能往至所愿诸界。
Verse 62
तस्मात् साध्वि ! महाभागे ! पतिशुश्रूषणं प्रति । त्वया मतिः सदा कार्या यतो भर्ता परा गतिः ॥
是以,噫,贤善而有福之女,当恒常摄心于侍奉其夫——以夫为汝之至上归依与究竟所趣。
Verse 63
यद्देवेभ्यो यच्च पित्रागतेभ्यः कुर्याद्भर्ताभ्यर्च्चनं सत्क्रियातः । तस्याप्यर्धं केवलानन्यचित्ता नारी भुङ्क्ते भर्तृशुश्रूषयैव ॥
丈夫为诸天与祖灵(pitṛs)所行的一切供奉与如法仪轨,若女子一心专注、不为杂念所扰,仅以侍奉其夫,便得其中一半功德。
Verse 64
पुत्र उवाच तस्यास्तद्वचनं श्रुत्वा प्रतिपूज्य तथादरात् । प्रत्युवाचात्रिपत्नीं तामनसूयामिदं वचः ॥
儿子说道:听闻她的话语,并恭敬礼敬之后,他以如下言辞答复那位阿那苏雅——阿特里之妻。
Verse 65
धन्यास्म्यनुगृहीतास्मि देवैश्चाप्यवलोकिता । यन्मे प्रकृतिकल्याणि ! श्रद्धां वर्धयसे पुनः ॥
我实为有福;我实为蒙恩,甚至为诸天所垂顾——因为你,噢天性吉祥者,再一次增长了我的信心。
Verse 66
जानाम्येतन्न नारीणां काचित् पतिसमा गतिः । तत्प्रीतिश्चोपकाराय इह लोके परत्र च ॥
我知此理:对女子而言,没有任何道路(归依/归宿/目标)可与丈夫相等;令其欢喜,于今世与来世皆有利益。
Verse 67
पतिप्रसादादिह च प्रेत्य चैव यशस्विनि । नारी सुखमवाप्नोति नार्या भर्ता हि देवता ॥
凭丈夫之恩——在此世与身后,噢声名卓著者——女子得享安乐;因为丈夫确为妻子的神明。
Verse 68
सा त्वं ब्रूहि महाभागे ! प्राप्तायाः मम मन्दिरम् । आर्यायाः यन्मया कार्यं तथाऽऽर्येणापि वा शुभे ॥
因此,尊贵的夫人,既然你来到我家,请告诉我:我应当如何奉事一位高贵的宾客;而你这位高贵者,吉祥的女士,也应当如何行持?
Verse 69
अनसूयोवाच एते देवाः सहेन्द्रेण मामुपागम्य दुःखिताः । त्वद्वाख्यापास्तसत्कर्मदिननक्तनिरूपणाः ॥
阿那苏雅说道:这些天神连同因陀罗,在困厄中来到我这里——应行的祭仪被弃置,昼夜的法度也被扰乱,正如先前已向你陈述的那样。
Verse 70
याचन्तेऽहर्निशासंस्थां यथावदविखण्डिताम् । अहं तदर्थमायाता शृणु चैतद्वचो मम ॥
他们请求建立合乎正法、不断绝的昼夜安排。我正为此而来;请听我所言。
Verse 71
दिनाभावात् समस्तानामभावो यागकर्मणाम् । तदभावात् सुराः पुष्टिं नोपयान्ति तपस्विनि ॥
由于白昼缺失,一切祭祀之仪皆止息;而因其止息,诸天便不得滋养与力量,噢,修行的女圣者。
Verse 72
अह्नश्चैव समुच्छेदादुच्छेदः सर्वकर्मणाम् । तदुच्छेदादनावृष्ट्या जगदुच्छेदमेष्यति ॥
确实,当白昼被截断时,一切作为亦随之断绝;由此止息,因无降雨,世间将走向毁灭。
Verse 73
तत् त्वमिच्छसि चेदेतत् जगदुद्धर्तुमापदः । प्रसीद साध्वि ! लोकानां पूर्ववद्धर्ततां रविः ॥
若汝愿此——即救度世间脱离灾厄——愿贤德圣女垂慈!愿日神如昔支撑诸界。
Verse 74
ब्राह्मण्युवाच माण्डव्येन महाभागे ! शप्तो भर्ता ममेश्वरः । सूर्योदये विनाशं त्वं प्राप्ससीत्यतिमन्युनाः ॥
婆罗门女说道:“噢,高贵的圣女!我的主与夫君在曼达维耶大怒之下受其诅咒:‘日出之时,你将遭毁灭。’”
Verse 75
अनसूयोवाच यदि वा रोचते भद्रे ! ततस्त्वद्वचनादहम् । करोमि पूर्ववद्देहं भर्तारञ्च नवं तव ॥
阿那苏雅说道:“若此事令你欢喜,善良的圣女啊,那么依你之言,我将使你的身体复如从前——并且(赐予)你一位新的夫君。”
Verse 76
मया हि सर्वथा स्त्रीणां माहात्म्यं वरवर्णिनि । पतिव्रतानामाराध्यमिति संमानयामि ते ॥
因为我,肤色明净者啊,于一切方面尊崇女性之伟大——并认为守夫誓戒(pativratā)之妇的虔诚,实为应当礼敬供奉之德。
Verse 77
पुत्र उवाच तथेत्युक्ते तया सूर्यमाजुहाव तपस्विनी । अनसूयार्घ्यमुद्यम्य दशरात्रे तदा निशि ॥
其子说道:当她说“如是”之时,那位苦行女便召请日神;随后在十夜之期的夜间,阿那苏雅举起并奉献阿尔伽(arghya)供礼。
Verse 78
ततो विवस्वान् भगवान् फुल्लपद्मारुणाकृतिः । शैलराजानमुदयमारुरोहो रुमण्डलः ॥
随后,吉祥的毗婆斯梵(太阳神),其形体赤红如盛放的莲华,于黎明时分在群山之王之上升起,光轮广大。
Verse 79
समनन्तरमेवास्या भर्ता प्राणैर्व्ययुज्यत । पपत च महीपृष्ठे पतन्तं जगृहे च सा ॥
紧接着,她的丈夫与生命之气分离;他倒在大地之上,她在他坠落之际将他接住。
Verse 80
अनसूयोवाच न विषादस्त्वया भद्रे ! कर्तव्यः पश्य मे बलम् । पतिशुश्रूषयावाप्तं तपसः किं चिरेण ते ॥
阿那苏雅说道:“善良的夫人啊,切莫绝望——且看我的威力。既然(此等威力)可由对夫君的虔敬奉事而得,又何必久修苦行呢?”
Verse 81
यथा भर्तृसमं नान्यमपश्यं पुरुषं क्वचित् । रूपतः शीलतो बुद्ध्या वाङ्माधुर्य्यादिभूषणैः ॥
(她说道:)“我从未在任何地方见过有男子能与我夫相等——无论在容貌、品行、智慧,或在如言语甘美等种种‘饰德’方面。”
Verse 82
तेन सत्येन विप्रो 'यं व्याधिमुक्तः पुनर्युवा । प्राप्नोतु जीवितं भार्यासहायः शरदां शतम् ॥
凭此真实之言,愿此婆罗门脱离疾病而复得青春;并愿他与妻为伴,同享百秋之寿(即圆满而长久的生命)。
Verse 83
यथा भर्तृसमं नान्यमहं पश्यामि दैवतम् । तेन सत्येन विप्रोऽयं पुनर्जीवत्वनामयः ॥
“我不见有任何神祇可与我夫君等同;凭此真实之语,愿此婆罗门复得生命,远离诸病。”
Verse 84
कर्मणा मनसा वाचा भर्तुराराधनं प्रति । यथा ममोद्यमो नित्यं तथायं जीवतां द्विजः ॥
“以身、以意、以语,我的努力恒常趋向于礼敬与奉事夫君;愿此婆罗门亦得存活。”
Verse 85
पुत्र उवाच ततो विप्रः समुत्तस्थौ व्याधिमुक्तः पुनर्युवा । स्वभाभिर्भासयन् वेश्म वृन्दारक इवाजरः ॥
其子说道:“于是那婆罗门起身——病患尽除,复得青春——以自身光辉照耀其宅,如天界之众,永无衰老。”
Verse 86
ततोऽपतत् पुष्पवृष्टिर्देववाद्यादिनिस्वनः । लेभिरे च मुदं देवा अनसूयामथाब्रुवन् ॥
“随即花雨纷落,并有天乐器之声相和。诸神欢喜充满,遂对阿那苏雅说道。”
Verse 87
देवा ऊचुः वरं वृणीष्व कल्याणि देवकार्यं महत् कृतम् । त्वया यस्मात् ततो देवा वरदास्ते तपस्विनि ॥
诸神说道:“吉祥者啊,请择取一愿。既然你为诸神成就大业,诸神便为你施与恩赐,噢修行的女行者。”
Verse 88
अनसूयोवाच यदि देवाः प्रसन्ना मे पितामहपुरोगमाः । वरदा वरयोग्या च यद्यहं भवतां मता ॥
阿那苏雅说道:“若诸天——以大祖父梵天(Brahmā)为首——对我心生欢喜,若你们认为我堪受恩赐,而你们又是赐福者……”
Verse 89
तद्यान्तु मम पुत्रत्वं ब्रह्म-विष्णु-महेश्वराः । योगञ्च प्राप्नुयां भर्तृसहिता क्लेशमुक्तये ॥
“那么,愿梵天、毗湿奴与大自在天(Maheśvara)成为我的儿子;并愿我与夫君同证瑜伽,以得离诸苦恼。”
Verse 90
एवमस्त्विति तां देवा ब्रह्म-विष्णु-शिवादयः । प्रोक्त्वा जग्मुर्यथान्यायमनुमान्य तपस्विनीम् ॥
诸神——梵天、毗湿奴、湿婆及其余诸天——说道:“如是。”言毕,礼敬那位苦行女后,便依次如法而去。
The chapter asks how one should act after understanding saṃsāra’s instability—specifically, which discipline (yoga) functions as the direct cause of mokṣa. The son answers by prescribing renunciatory withdrawal (non-attachment, non-possession, inner absorption) and then reinforces the ethical dimension through an exemplum where vow-power and truth-speech have cosmic consequences.
This Adhyaya is not structured as a Manvantara catalogue; instead it advances the Purana’s analytical didactic mode by embedding a moral-cosmological case study (sunrise suspended, yajña interrupted, time-reckoning destabilized). Its contribution is thematic: it explains how dharma and tapas uphold cosmic time-order rather than detailing a specific Manu or Manvantara genealogy.
Adhyaya 16 is outside the Devi Mahatmyam (Adhyayas 81–93) and does not present Śākta stutis or battles. Its closest parallel is conceptual: it highlights extraordinary śakti manifested as pativratā-tapas (Anasūyā’s vow-power) that restores cosmic order, but it is not framed as Devī theology.