Adhyaya 12
AuttamiTamasaManvantara39 Shlokas

Adhyaya 12: The Son Describes the Narakas: Mahāraurava, Tamas, Nikṛntana, Apratiṣṭha, Asipatravana, and Taptakumbha

नरकवर्णनम् (Narakavarṇanam)

Auttami and Tamasa

本章中,儿子为警诫造恶者而叙述诸地狱之相。他描绘 Mahāraurava、Tamas、Nikṛntana、Apratiṣṭha、Asipatravana 与 Taptakumbha 等为极其惨烈的受报之处,众生之灵随其所作业而受相应果报。此叙述令人心生敬畏与警醒,劝人归依正法、行持善业。

Divine Beings

Yamānugāḥ (attendants of Yama)

Celestial Realms

Mahāraurava (महाराुरव)Tamas (तमस्)Nikṛntana (निकृन्तन)Apratiṣṭha (अप्रतिष्ठ)Asipatravana (असिपत्रवन)Taptakumbha (तप्तकुम्भ)

Key Content Points

Mahāraurava: a heated copper terrain with binding, dragging, and predation; suffering persists for vast durations proportional to sin.Tamas: an antithetical naraka of intense cold and darkness, marked by trembling, broken teeth, hunger, thirst, and bone-splitting winds.Nikṛntana and Apratiṣṭha: infernal “devices” (wheels, cutting mechanisms, water-machines) that inflict repetitive dismemberment and rotation without release until pāpa is depleted.Asipatravana: a mirage-like grove promising cool shade; sword-like leaves and attack-dogs drive beings back onto burning ground.Taptakumbha: sinners are cast headlong into boiling cauldrons filled with blazing oil and metallic powders, repeatedly extracted and re-immersed by Yama’s attendants.

Focus Keywords

Markandeya Purana Adhyaya 12Markandeya Purana Naraka VarnanaMaharaurava NarakaAsipatravana hell descriptionTaptakumbha NarakaYama attendants Yamadutas in PuranaPuranic karma and retributionPitri Putra Samvada Markandeya Purana

Shlokas in Adhyaya 12

Verse 1

इति श्रीमार्कण्डेयपुराणे पितृपुत्रसंवादो नाम एकादशोऽध्यायः । द्वादशोऽध्यायः । पितोवाच— साधु वत्स! त्वयाख्यातं संसारगहनं परम् । ज्ञानप्रदानसम्भूतं समाश्रित्य महाफलम् ॥

至此,《吉祥摩罗迦ṇḍeya往世书》第十一章——名为“父子对话”——宣告结束。今起第十二章。父亲说道:“说得好,爱子。你已描绘了轮回那幽深的丛莽;依凭由施与正知而生的大果……”

Verse 2

तत्र ते नरकाः सर्वे यथा वै रौरवस्तथा । वर्णितास्तान् समाचक्ष्व विस्तरेण महामते ॥

在那里,你已叙述了诸般地狱——如罗柔婆(Raurava)等。如今请你详尽讲述之,大心者。

Verse 3

पुत्र उवाच— रौरवस्ते समाख्यातः प्रथमं नरको मया । महाराैरवसंज्ञं तु शृणुष्व नरकं पितः ॥

儿子说道:“罗柔婆(Raurava)——第一地狱——我已向父亲叙述。如今请听名为大罗柔婆(Mahāraurava)的地狱,父亲啊。”

Verse 4

योजनानां सहस्राणि सप्त पञ्च समन्ततः । तत्र ताम्रमयी भूमिरधस्तस्य हुताशनः ॥

在四方各处,延展七千与五千由旬之遥,有一片以铜铸成的大地;其下则是烈火。

Verse 5

तत्तापतप्ता सर्वाशा प्रोद्यदिन्दुसमप्रभा । विभात्यतिमहारौद्रा दर्शनस्पर्शनादिषु ॥

被那热力从四面灼烧,它放射出如初升之月般的光辉;然而在目睹、触碰等方面,却极其可怖。

Verse 6

तस्यां बद्धः कराभ्यां च पद्भ्यां चैव यमानुगैः । मुच्यते पापकृन्मध्ये लुठमानः स गच्छति ॥

在那里,作恶者被阎摩的使者缚住手足,放置于其间;他便扭曲翻滚,辗转前行。

Verse 7

काकैर्वकैर्वृकोलूकैर्वृश्चिकैर्मशकैस्तथा । भक्ष्यमाणस्तथा गृध्रैर्द्रुतं मार्गे विकृष्यते ॥

他被乌鸦、鹭、狼与鸮啄噬,又被蝎子与蚊虫叮咬,并且被秃鹫吞啄;于是沿着道路被迅速拖拽而行。

Verse 8

दह्यमानः पितर्मातर् भ्रातस्तातेति चाकुलः । वदत्यसकृदुद्विग्नो न शान्तिमधिगच्छति ॥

在焚烧与惊惶之中,他反复呼号:“父亲!母亲!兄弟!儿子!”——一次又一次地躁动不安,终究不得安宁。

Verse 9

एवं तस्मान्नरैर्मोक्षो ह्यतिक्रान्तैरवाप्यते । वर्षायुतायुतैः पापं यैः कृतं दुष्टबुद्धिभिः ॥

因此,唯有越过那般折磨之后,此等之人方得解脱;那些心智邪恶、造作罪业者,必当受苦数千万年。

Verse 10

तथान्यस्तु तमो नाम सोऽतिशीतः स्वभावतः । महारौरववद्दीर्घस्तथा स तमसा वृतः ॥

又有一处(地狱)名为“多摩斯”(Tamas);其性极寒。它如同“摩诃劳罗婆”(Mahāraurava)一般广大延展,并被黑暗所笼罩。

Verse 11

शीतार्तास्तत्र धावन्तो नरास्तमसि दारुणे । परस्परं समासाद्य परिरभ्याश्रयन्ति च ॥

众生为寒冷所逼,在那可怖的黑暗中四处奔走;彼此相遇时,便相拥相缠,以求庇护与取暖。

Verse 12

दन्तास्तेषाञ्च भज्यन्ते शीतार्तिपरिकम्पिताः । क्षुत्तृष्णाप्रबलास्तत्र तथैवान्येऽप्युपद्रवाः ॥

他们因寒苦而战栗,牙齿崩裂;在那里饥渴极盛,并有种种其他苦恼。

Verse 13

हिमखण्डवहो वायुर्भिनत्त्यस्थीनि दारुणः । मज्जासृग्गलितं तस्मादश्नुवन्ति क्षुधान्विताः ॥

一阵可怖之风裹挟冰块,劈裂他们的骨骼;又因饥饿所驱,他们吞食渗出的东西——骨髓与鲜血。

Verse 14

लेलिह्यमाना भ्राम्यन्ते परस्परसमागमे । एवं तत्रापि सुमहान् क्लेशस्तमसि मानवैः ॥

他们在剧痛中摇晃翻滚,彼此相撞时便踉跄跌倒。于是,在那黑暗之中,人们遭受极其巨大的折磨。

Verse 15

प्राप्यते ब्राह्मणश्रेष्ठ यावद्दुष्कृतसंक्षयः । निकृन्तन इति ख्यातस्ततो ’न्यो नरकोत्तमः ॥

噢,婆罗门中最殊胜者,此处须受至自身恶业耗尽为止。此狱名为“尼克林塔那”(Nikṛntana);其后尚有另一最上之地狱。

Verse 16

तस्मिन् कुलालचक्राणि भ्राम्यन्त्यविरतं पितः । तेष्वारोप्य निकृत्यन्ते कालसूत्रेण मानवाः ॥

在那地狱中,噢,父亲,陶工之轮不停旋转。人被置于其上,复为“迦罗苏多罗”(Kālasūtra)所割裂成块。

Verse 17

यमानुगाङ्गुलिस्थेन आपादतलमस्तकम् । न चैषां जीवितभ्रंशो जायते द्विजसत्तम ॥

由阎摩之使者以指或手自足底按压至头顶,然而,噢,最胜的二生者,他们的性命仍不离去。

Verse 18

छिन्नानि तेषां शतशः खण्डान्यैक्यं व्रजन्ति च । एवं वर्षसहस्राणि छिद्यन्ते पापकर्मिणः ॥

他们被斩断的肢体,成百上千,又复聚合如初;因此,作恶者在千年之久不断被分割斩裂。

Verse 19

तावद् यावदशेषं वै तत्पापं हि क्षयं गतम् । अप्रतिष्ठञ्च नरकं शृणुष्व गदतो मम ॥

这种状态一直持续到那罪业确实完全消亡为止。现在听我说,关于那个名为阿普拉提什塔(Apratiṣṭha)的地狱。

Verse 20

अत्रस्थैर्नारकैर्दुःखमसह्यमनुभूयते । तान्येव यत्र चक्राणि घटीयन्त्राणि चान्यतः ॥

身处此地狱的众生遭受着难以忍受的痛苦——这里有同样的轮子,别处还有水车机械(ghaṭī-yantras)。

Verse 21

दुःखस्य हेतुभूतानि पापकर्मकृतां नृणाम् । चक्रेष्वारोपिताः केचिद् भ्राम्यन्ते तत्र मानवाः ॥

对于犯下罪行的人来说,种下的因成为了受苦的基础。有些人被绑在轮子上,在那里不停旋转。

Verse 22

यावद्वर्षसहस्राणि न तेषां स्थितिरन्तरा । घटीयन्त्रेषु चैवाऽन्यो बद्धस्तोये यथा घटी ॥

几千年来,他们的这种状态从未停歇。另一个人被绑在水车机械中,就像水中的罐子(ghaṭī)一样。

Verse 23

भ्राम्यन्ते मानवाः रक्तमुदिगरन्तः पुनः पुनः । अस्त्रैर्मुखविनिष्क्रान्तैः नेत्रैरश्रुविलम्बिभिः ॥

人们旋转着,一次又一次地呕吐鲜血——同时武器从他们的口中伸出,他们的眼睛垂下,泪流满面。

Verse 24

दुःखानि ते प्राप्नुवन्ति यान्यसह्यानि जन्तुभिः । असिपत्रवनं नाम नरकं शृणु चापरम् ॥

他们遭受诸般苦楚——为众生所难以忍受。且再听一处名为阿西帕特罗瓦那(Asipatravana,“剑叶之林”)的地狱。

Verse 25

योजनानां सहस्रं यो ज्वलदग्न्यास्तृतावनिः । तप्ताः सूर्यकरैश्चण्डैर्यत्रातीव सुदारुणैः ॥

有一处地域,广达一千由旬,其地面遍布炽燃之火;在那里,众生被太阳凶烈而极其残酷的光线灼烧。

Verse 26

प्रपतन्ति सदा तत्र प्राणिनो नरकौकसः । तन्मध्ये च वनं रम्यं स्निग्धपत्रं विभाव्यते ॥

居于此地狱的众生不断坠落其间;而在其中央,却可见一片迷人的森林,叶色光润,繁茂葱郁,宛如生机盎然。

Verse 27

पत्राणि तत्र खङ्गानां फलानि द्विजसत्तमम् । श्वानश्च तत्र सबलाः स्वनन्त्ययुतशोभिताः ॥

在那里,叶皆为剑,果亦如是,噢,二次生者中最胜者。又有强悍之犬,仿佛以无数嚎叫与哀号为其饰。

Verse 28

महावक्त्रा महादंष्ट्रा व्याघ्रा इव भयानकाः । ततस्तद्वनमालोक्य शिशिरच्छायमग्रतः ॥

其口巨大,獠牙森然——如虎般可怖。于是,当他们看见那森林清凉的荫影在前方时,

Verse 29

प्रयान्ति प्राणिनस्तत्र तीव्रतृट्परिपीडिताः । हा मातर्हा तात ! इति क्रन्दन्तोऽतीव दुःखिताः ॥

众生往彼,受极渴苦,号泣唤言:『痛哉母兮!痛哉父兮!』忧苦充满。

Verse 30

दह्यमानाङ्घ्रयुगला धरणीस्थेन वह्निना । तेषां गतानां तत्रासिपत्रपाती समीरणः ॥

彼足双烧,因地有火。既至彼处,有风起吹,令剑叶落。

Verse 31

प्रवाति तेन पात्यन्ते तेषां खड्गान्यथोपरि । ततः पतन्ति ते भूमौ ज्वलत्पावकसञ्चये ॥

风吹剑落,堕彼身上;彼即坠地,入大火聚。

Verse 32

लेलिह्यमाने चान्यत्र व्याप्ताशेषमहीतले । सारमेयास्ततः शीघ्रं शातयन्ति शरीरतः ॥

猛火周遍,以此地表,悉皆弥覆;诸恶狗等,急啮其身。

Verse 33

तेषामङ्गानि रुदतामनेकान्यतिभीषणाः । असिपत्रवनं तात ! मयैतत्कीर्तितं तव ॥

彼号哭时,肢体分裂,甚可怖畏。如是,爱者,我已为汝说此剑叶林地狱。

Verse 34

अतः परं भीमतरेण तप्तकुम्भं निबोध मे । समन्ततस्तप्तकुम्भा वह्निज्वालासमावृताः ॥

如今当从我处得知那更为可怖的地狱,名为“塔普塔库姆婆”(Taptakumbha)。四面皆有炽热的大锅,周遭被火舌所包裹。

Verse 35

ज्वलदग्निचयोद्वृत्ततैलायश्चूर्णपूरिताः । तेषु दुष्कृतकर्माणो याम्यैः क्षिप्ता ह्यधोमुखाः ॥

那些大锅中充满炽燃的火堆、沸腾外溢的热油与铁粉。作恶之人被阎摩(Yama)的使者倒栽般掷入其中。

Verse 36

क्वाथ्यन्ते विस्फुटद्गात्र-गलन्मज्जजलाविलाः । स्फुरत्कपालनेत्रास्थिच्छिद्यमाना विभीषणैः ॥

他们被煮沸——肢体迸裂,骨髓滴落流淌使汤液浑浊——而可怖之众在闪烁的头骨、眼珠与白骨之间砍剁他们。

Verse 37

गृध्रैरुत्पाट्य मुच्यन्ते पुनस्तेष्वेव वेगितैः । पुनः सिमसिमायन्ते तैलेनैक्यं व्रजन्ति च ॥

被秃鹫拖拽而出,他们暂得释放——却又迅速被抛回同一口大锅之中。再度滋滋作响,再度与热油融为一体。

Verse 38

द्रवीभूतैः शिरोगात्र-स्नायु-मांस-त्वगस्थिभिः । ततो याम्यैर्नरैराशु दर्व्या घट्टनघट्टिताः ॥

当头与身、筋腱、血肉、皮肤与骨骼尽皆化为液体时,阎摩(Yama)之人便迅速以大勺搅动并刮取他们。

Verse 39

कृतावर्ते महातैले मथ्यन्ते पापकर्मिणः । एष ते विस्तरेणोक्तस्तप्तकुम्भो मया पितः ॥

In that great oil, made to whirl in eddies, the sinners are churned. Thus have I, your father, described to you in detail the (hell) Taptakumbha.

Frequently Asked Questions

The chapter examines karmic proportionality: how specific forms of pāpa mature into correspondingly structured punishments, endured for immense but finite periods until demerit is exhausted. The ethical emphasis is deterrence through a concrete, sensory mapping of consequence.

It does not develop Manvantara chronology directly. Instead, it functions as an eschatological and moral excursus within the dialogue framework, reinforcing karma-doctrine that underlies Purāṇic historiography across Manvantaras.

This Adhyāya is outside the Devi Māhātmya section (Adhyāyas 81–93) and contains no direct Śākta stuti, goddess-epithet theology, or battle narrative. Its contribution is indirect: it supplies a karmic-ethical backdrop commonly presupposed by later devotional and theological portions of the Purāṇa.