
Prāyaścitta: Catalogue of Sins, Narakas, and Graded Expiations (Kṛcchra–Cāndrāyaṇa–Japa)
本章延续《阿阇罗品》(Ācāra Khaṇḍa)对正行的关切,先揭示堕落的因果链:怠慢所规定的义务、行被谴责之事、放纵诸根不加节制。继而指出,prāyaścitta(忏悔与赎罪)能恢复个人内在与社会之间的和谐;若不作赎罪,则将趋向 naraka(地狱)之果报。文中依次列举多种地狱名号,并建立罪业分类:四大重罪(brahmahatyā、surāpāna、suvarṇa-steya、gurutalpa)以及众多轻罪,如淫行越轨、以欺诈为生、不如法的教授与受赠、贩卖禁物、弃置本分等。随后给出分级对治:先以自白与苦行生活为本;对杀婆罗门者设长期誓戒;对饮酒、盗金与 gurutalpa 规定相应苦行;并对杀牛、按 varṇa 的杀人、伤害动物或草木等列出专门赎罪法。章末系统整理主要誓戒(Sāntapana 至 Cāndrāyaṇa),强调 japa/prāṇāyāma 与 yama–niyama 为伦理根基,引向超越偶发赎罪、持续守持的达摩修持。
Verse 1
नाम चतुरुत्तरशततमो ऽध्यायः विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् / अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति
此名为《第一百零五章》。不行所当行,反行所当戒,又不摄伏诸根者,必致堕落。
Verse 2
तस्माद्यत्नेन कर्तव्यं प्रायश्चित्तं विशुद्धये / एवमस्यान्तरात्मा च लोकश्चैव प्रसदिति
因此,应当勤勉修行赎罪净化之仪(prāyaścitta);如此,内在之我(良知)与世间(社会)皆得安宁欢喜。
Verse 3
लोकः प्रसीदेदात्मैवं प्रायश्चित्तैरघक्षयः / प्रायश्चित्तमकुर्वाणाः पश्चात्तापविवर्जिताः
如此,凭借赎罪之行(prāyaścitta),世间与自身皆得悦服,罪业亦渐消减;而不行赎罪、又无悔意者,必受其恶行之果报。
Verse 4
नरकान्यान्ति पापा वै महारौरवरौरवान् / तामिस्त्रं लोहशङ्कुं च पूतिगन्धसमाकुलम्
诚然,罪人将堕入诸地狱——摩诃劳罗婆(Mahāraurava)与劳罗婆(Raurava);亦至昏暗地狱(Tāmistra)与铁桩地狱(Lohaśaṅku)——皆充满腥臭腐烂之气。
Verse 5
हंसाभं लोहितोदं च सञ्जीवननदीपथम् / महानिलयकाकोलमन्धतामिस्त्रवापनम्
“(又有)天鹅光狱(Hamsābha)与血沸狱(Lohitoda),以及生还河道(Sañjīvana 之河途);并有大居处狱(Mahānilaya)、鸦暗狱(Kākola)、极暗狱(Andhatāmisra)与压榨狱(Vāpana)。”
Verse 6
अवीचिं कुम्भीपाकं च यान्ति पापा ह्यपुण्यतः / ब्रह्महा मद्यपः स्तेयी संयोगी गुरुतल्पगः
由于毫无功德,罪人将堕入阿毗至(Avīci)与陶锅煎狱(Kumbhīpāka)——如杀害婆罗门者、嗜酒者、盗贼、犯他人妻者,以及亵渎师尊(guru)床榻者。
Verse 7
गुरुनिन्दा वेदनिन्दा ब्रह्महत्यासमे ह्युभे / निषिद्धभक्षणं जिह्मक्रियाचरणमेव च
诽谤上师与亵渎吠陀,二者皆等同于杀害婆罗门之罪。食用禁物与行事奸诈亦复如是。
Verse 8
रजस्वलामुखास्वादः सुरापानसमानि तु / अश्वरत्नादिहरणं सुवर्णस्तेयसंमितम्
亲尝经期女子之口,视同饮酒之罪;盗取良马珠宝,视同窃取黄金之罪。
Verse 9
सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च / सगोत्रासु तथा स्त्रीषु गुरुतल्पसमं स्मृतम्
与友妻、处女、同族女子、贱民女子或同戈特拉女子苟合,皆视同玷污上师之床。
Verse 10
पितुः स्वसारं मातुश्च मातुलानीं स्नुषाम पि / मातुः सपत्नीं भगिनीमाचार्यतनयां तथा
姑母、姨母、舅母、儿媳、继母、姐妹以及上师之女,皆应以此礼敬避嫌。
Verse 11
आचार्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः / छित्त्वा लिङ्गं वधस्तस्य सकामायाः स्त्रियास्तथा
染指师母或己女者,即为玷污上师之床;当断其阳具后处死,自愿之女亦受此刑。
Verse 12
गोवधो व्रात्यतास्तेयमृणानां च परिक्रिया / अनाहिताग्नितापण्यविक्रयः परिवेदनम्
屠杀圣牛;以“弗罗底耶”(vrātya,弃族之人)之身度日;盗窃;在债务之事上行不正当之处理;贩卖不当贩卖之物(尤指祭祀与神圣之物);以及前配偶尚在世而再婚——皆被宣说为罪业。
Verse 13
भृत्याचाध्ययनादानं भृतकाध्या पनन्तथा / पारदार्यं पारिवित्त्यं वार्धुष्यं लवणक्रिया
以薪酬授学;以求学而受赠;亦雇人代为授学;与他人妻通奸;未及兄长而先婚(违越婚序);取利放债;以及与盐相关之可责贸易与行当——皆被列为可诟之业。
Verse 14
सच्छूद्रविट्क्षत्त्रबन्धोर्निन्दितार्थोपजीविता / नास्तिक्यं व्रतलोपश्च शूल्यं गोश्वेव विक्रयः
以可讥之道谋生——如不当依附那些仅凭出身而称为“善良的”首陀罗、吠舍与徒具血统之刹帝利者;不信正法(nāstikya);毁弃誓戒;以签串肉而售之业(śūlya);以及贩卖牛与马——皆属可责之行。
Verse 15
पितृमातृसुहृत्त्यागस्तडागारामविक्रयः / कन्यायादूषण चैव परिविन्दकयाजनम्
弃舍父母与善友;出卖池塘与园林乐苑;玷污处女;并为“parivindaka”(违序之人)主持祭祀为祭官——皆被计为可责之业。
Verse 16
कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् / आत्मनोर्ऽथे क्रियारम्भो मद्यपस्त्रीनिषेवणम्
以诡诈之心仍将女儿嫁与其人;毁弃誓戒;为一己私利而兴作仪轨;饮酒沉醉;并与他人妻相狎——皆为所谴之行。
Verse 17
स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च / असच्छास्त्राभिगमनं भार्यात्मपरिवि क्रयः
舍弃诵习圣典(svādhyāya),怠慢祭火与子女,背离亲族;依附邪伪之教,并以妻子乃至自身为交易——此等皆为经中所谴责之恶行。
Verse 18
उपपापानि चोक्तानि प्रायश्चित्तं निबोधत / शिरः कपालध्वजवान् भिक्षाशी कर्म वेदयन्
诸副罪已述;今当了知其忏悔法(prāyaścitta):当以骷髅为首上之幡,依乞食而活,并公开宣告自身所作之业,以为苦行。
Verse 19
ब्रह्महा द्वादश समा मितभुक् शुद्धिमाप्नुयात् / लोमभ्यः स्वाहेति च वा लोमप्रभृति वै तनुम्
杀害婆罗门(brāhmaṇa)者,若以节制之食(mitabhuk)度十二年,便得清净。或复自身体之毛发起,作供献,以咒“向诸毛发曰svāhā”,作为指向自身之身祭。
Verse 20
मज्जान्तां जुहुयाद्वापि स्वस्वमन्त्रैर्यथाक्रमम् / शुद्धिः स्याद्ब्राह्मणत्राणात्कृत्वैवं शुद्धिरेव च
又或,身没于水中时,亦可依次以各自相应之真言作供献。由护持(救护)婆罗门而得清净;如是行之,清净必然成就。
Verse 21
निरातङ्कं द्विजं गां च ब्राह्मणार्थे हतो ऽपि वा / अरण्ये नियतो जुप्त्वा त्रिः कृत्वो वेदसंहिताम्
即便为婆罗门之故而行事时被杀——护持无过之二生者(dvija,婆罗门)或护持母牛——亦当自持入林,严谨持诵,三遍诵读吠陀《本集》(Saṃhitā)。
Verse 22
सरस्वतीं वा संसेव्यं धनं पात्रे समर्पयेत् / यागस्थक्षत्त्रविड्घात् चरेद्ब्रह्महणो व्रतम्
或者,先如法礼敬萨拉斯瓦蒂女神,再将财物供施于堪受之人。若杀害刹帝利或吠舍(Viḍ),或在祭祀(yajña)中杀人者,当行如同杀婆罗门者所规定的赎罪誓戒。
Verse 23
गर्भहा वा यथावर्णं तथात्रेयीनिषू (सू) दनम् / चरेद्ब्रतमहत्वापि घातनार्थमुपागतः
毁坏胎儿者——依其罪过轻重而定——纵然修持重大誓戒,仍被视为以杀害之心趋入诸行持;因此必受与堕胎(杀胎)相应的罪罚。
Verse 24
द्विगुणं सवनस्थे तु ब्राह्मणे व्रतमाचरेत् / सुराम्बुघृतगोमूत्रं पीत्वा शुद्धिः सुरापिणः
然而,对处于每日三次榨取苏摩(savana)之阶段的婆罗门,应以加倍之量行忏悔苦行。饮酒者之净化,则以饮下酒、水、酥油(ghee)与牛尿之混合而得。
Verse 25
अग्निवर्णं घृतं वापि चीरवास जटी भवेत् / व्रतं ब्रह्महणः कुर्यात्पुनः संस्कारमर्हति
当令其身具火之光彩(苦行之焰),以酥油(或简淡之食)为生;披树皮衣,结发成髻,成为行苦行者。修此誓戒后,杀婆罗门者复得资格,再受净化之仪(saṃskāra)。
Verse 26
रेतेविण्मूत्रपानाच्च सुरापा ब्राह्मणी तथा / पतिलोकपरिभ्रष्टा गृध्री स्यात्सूकरी शुनी
婆罗门女子若饮精液、粪秽或尿液;同样,若饮醉酒之物;或背离对夫应守之正当行持者——此等女子将再生为秃鹫、母猪或母犬。
Verse 27
स्वर्णहारी द्विजो राज्ञे दत्त्वा तु मुसलं तथा / कर्मणः ख्यापनं कृत्वा हतस्तेन भवेच्छुचिः
偷窃黄金的再生族,若向国王呈献大棒并公开忏悔其行径,随后被国王处死,便可获得净化。
Verse 28
आत्मतुल्यं सुवर्णं वा दत्त्वा शुद्धिमियाद्द्विजः / शयने सार्धमायस्या योषिता निभृतं स्वपेत्
再生族若布施与自身等重的黄金,即可获得净化;此后,他应与妻子一同在床上安寝。
Verse 29
उच्छेद्य लिङ्गं वृषणं नैरृत्यामुत्सृजोद्दिशि / प्राजापत्यं चरेत्कृच्छ्रं समा वा गुरुतल्पगः
犯下玷污师长床榻之罪者,应割去生殖器与睾丸并弃向西南方;随后修持普拉贾帕蒂苦行,或进行为期一年的严厉赎罪。
Verse 30
चान्द्रायणं वा त्रीन्मासनभ्यसेद्वेदसंहिताम् / पञ्चगव्यं पिबेद्गोघ्नो मासमासीत संयतः
或者他应修持月行苦行(Cāndrāyaṇa),或勤奋研读吠陀本集三个月。杀牛者应饮用五牛圣物(Pañcagavya),并自我克制,持戒生活一个月。
Verse 31
गोष्ठेशयो गो ऽनुगामी गोप्रदानेन शुध्यति / उपपातकशुद्धिः स्याच्चान्द्रायणव्रतेन च
睡在牛棚中并跟随牛只行走者,通过布施一头牛可获净化。轻微罪业(Upapātaka)的净化也可通过月行誓愿(Cāndrāyaṇa)达成。
Verse 32
पयसा वापि मासेन पराकेणापि वा पुनः / ऋषभैकं सहस्रं गा दद्यात्क्षत्त्रवधे पुमान्
若杀害刹帝利,男子当作赎罪:或唯饮牛乳一月,或修行名为“帕拉卡”(Parāka)之苦行;否则应布施一头公牛与一千头母牛。
Verse 33
ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् / वैश्यहाब्दं च (ब्दांश्च) रेदेतद्दद्याद्वैकशतं गवाम्
当为“梵杀”(brahma-hatyā)之罪修赎罪戒三年。若杀害吠舍,则当依所定之法修行一年(或依所述之分期),并以布施一百头牛作为赎罪。
Verse 34
षण्मासाच्छूद्रहा चैतद्दद्याद्वा धेनवो दश / अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत्
杀害首陀罗者,当行此赎罪六个月;或不然,布施十头母牛。若杀害清白无染之女子,则当修行与杀首陀罗同等之赎罪戒。
Verse 35
मार्जारगोधानकुलपशुमण्डूकघातनात् / पिबेत्क्षीरं त्र्यहं पापी कृच्छ्रं वाप्यधिकं चरेत्
若因杀猫、蜥蜴(godhā)、獴(nakula)、家畜或青蛙而得罪,罪人当唯饮牛乳三日,或修行“克里恰罗”(Kṛcchra)之苦行,乃至更严之行。
Verse 36
गजे नीलान्वृषान्पञ्च शुके वत्सं द्विहायनम् / खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायणः
于与“伽阇”(Gaja,象)相应之仪轨,应施舍五头青黑色公牛。于“舒迦”(Śuka,鹦鹉)之仪,应施舍一头两岁之犊。于“驴—山羊—公羊”(Khara–Aja–Meṣa)之仪,应施舍一头公牛;于“克劳恩恰”(Krauñca)之仪,应施舍一头三岁之牲。
Verse 37
वृक्षगुल्मलतावीरुच्छेदने जप्यमृक्शतम् / अवकीर्णो भवेद्गत्त्वा ब्रह्मचारी च योषितम्
砍伐树木、灌木、藤蔓与蔓生之物时,应以持诵(japa)诵读《梨俱吠陀》中的一百首Ṛk颂。若梵行者(brahmacārī)趋向女子,则成“avakīrṇa”,即从清净梵行之戒律中堕落者。
Verse 38
गर्दभं पशुमालभ्य नैरृतं च विशुध्यति / मधुमांसाशने कार्यं कृच्छ्रं शेषव्रतानि च
依仪轨以驴为祭牲奉献,则能净除奈利利多(Nairṛta,南方/鬼魅之污)的染污。若犯食蜜与食肉之罪,当行“Kṛcchra”苦行忏悔,并遵守其余所规定的诸般誓戒。
Verse 39
कृच्छ्रत्रयं गुरुः कुर्यान्म्रियेत् प्रहितो यदि / प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति
若弟子奉师命出行办事而身亡,师长应行三次“Kṛcchra”苦行以作赎罪。若有人违逆师命行事,唯有求得师长的恩许与欢喜(和解、忏悔求恕)方能得净。
Verse 40
रिपून्धान्यप्रदानाद्यैः स्नेहाद्यैर्वाप्युपक्रमेत् / क्रियमाणोपकारे च मृते विप्रे न पातकम्
应以施赠谷粮等物,或以温情亲近等相似方法,努力化解并赢得仇敌。若在施行此等助益之时,有婆罗门(brāhmaṇa)身亡,则不成罪过。
Verse 41
महापापोपपापाभ्यां योभिशस्तो मृषा परम् / अब्भक्षो मासमासीत स जापी नियतन्द्रियः
凡被诬指犯下大罪与小罪者——尤以虚妄之言所致——当以一月之期唯饮清水而住,勤修持诵(japa),并摄伏诸根,使身心受持清净。
Verse 42
अनियुक्तो भ्रातृभार्यां गच्छंश्चान्द्रायणं चरेत् / त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां शुचिर्भवेत्
若有人未经许可(无正当戒令)而与兄弟之妻行淫,当修行“月行忏”(Cāndrāyaṇa)之苦行。三夜期满,食用酥油(ghee)后,往水边沐浴,即得清净。
Verse 43
गोष्ठे वसन्ब्रह्मचारी मासमेकं पयोव्रती / गायत्त्रीजप्यनिरतो मुच्यते ऽसत्प्रतिग्रहात्
居于牛舍,作梵行学子一月,持“唯乳之誓”,并恒常专注于伽雅特丽(Gāyatrī)真言之持诵(japa)者,得脱受取不净施与之过失。
Verse 44
त्रिः कृच्छ्रमाचरेद्व्रात्ययाजको ऽपि चरन्नपि / वेदप्लावी यवाश्यब्दं त्यक्त्वा च शरणागतान्
即便是为“弗拉提亚”(vrātya,弃群者)主持祭祀的祭司,纵仍照常度日,也当行“Kṛcchra”苦行忏悔三次。同样,歪曲或滥用吠陀者,应舍弃卑下之语“yavāśya”,并不可抛弃前来归依求护之人。
Verse 45
प्राणायामत्रयं कुर्यात्खरयानोष्ट्रयानगः / नग्नः स्नात्वा च सुप्त्वा च गत्वा चैव दिवा स्त्रियम्
若曾骑驴或骑骆驼,若曾裸身;又在沐浴之后、睡眠之后,以及白昼亲近女子之后,当行三次调息之法——三重“普拉那亚玛”(prāṇāyāma)。
Verse 46
गुरुन्त्वं कृत्य हुङ्कृत्य विप्रं निर्जित्य वाद तः / प्रसाद्य तं च मुनयस्ततो ह्युपवसेद्दिनम्
若曾对师长傲慢无礼,辱及婆罗门(brāhmaṇa),并在辩论中胜过他;诸牟尼当先求其欢喜、乞其宽恕。其后,确应守一日之斋戒。
Verse 47
विप्रे दण्डोद्यमे कृच्छ्रमतिकृच्छ्रं निपातने / देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः
对婆罗门而言,若仅举杖示罚,则当行“Kṛcchra(苦行赎罪)”;若已实击,则当行“Atikṛcchra(更严苦行)”——须谨慎观量处所、时节、年龄、力能,并兼察罪业之性。
Verse 48
प्रायश्चितं प्रकल्प्यं स्याद्यत्र योक्ता तु निष्कृतिः / गर्भत्यागो भर्तृनिन्दा स्त्रीणां पतनकारणम्
凡应制定赎罪之处,当施以相应的净罪之法。对妇女而言,弃胎(堕胎)与诋毁夫君,皆为灵性堕落之因。
Verse 49
एष ग्रहान्तिके दोषः तस्मात्तां दूतरस्त्यजेत् / विख्यातदोषः कुर्वीत गुरोरनुमतं व्रतम्
此乃因近受行星不利之势而生之过;故当舍离彼事(行径或交往)。若此过已为人所知,当依师尊(guru)许可而修持誓戒(vrata)。
Verse 50
असंविख्यातदोषस्तु रहस्यं व्रतमाचरेत् / त्रिरात्रोपोषणो जप्त्वा ब्रह्महा त्वघमर्षणम्
然其罪未为众所知者,当修秘密之誓戒。三夜断食,并诵《Aghamarṣaṇa(除罪颂)》;即便杀婆罗门者,亦得净除罪垢。
Verse 51
अन्तर्जले विशुद्धे च दत्त्वा गां च पयस्विनीम् / लोमभ्यः स्वाहेति ऋचा दिवसं मारुताशनः
于清净之水中行施供养,又布施一头乳牛;其人当一日唯以风为食——并诵一则吠陀颂(ṛc),以“svāhā,奉于诸毛发”之句作供。
Verse 52
जले जप्त्वा तु जुहुयाच्चात्वारिंशद्घृताहुतीः / त्रिरात्रोपोषणो हुत्वा कूष्माण्डीभिर्घृतं शुचिः
先在水中诵持真言,当于圣火中奉献四十次酥油供。继而守持三夜斋戒,以酥油并供kūṣmāṇḍī(灰葫芦/南瓜)而行火供,身心清净者遂得净化。
Verse 53
सुरापः स्वर्णहारी च रुद्रजापी जले स्थितः / सहस्रशीर्षाजप्येन मुच्यते गुरुतल्पगः
饮酒者、盗金者,以及立于水中诵持鲁陀罗真言者——以《Sahasraśīrṣa》(千首赞)之持诵,纵使犯“污犯师床”(gurutaḷpaga)之罪者,亦得解脱其罪业重担。
Verse 54
प्राणायामशतं कुर्यात्सर्वपापापनुक्त्ये / ओङ्काराभियुतं सोमसलिलप्रशनाच्छुचिः
为除尽一切罪垢,当修一百遍调息(prāṇāyāma)。既得清净,便当随诵“唵(Oṁ)”而啜饮苏摩圣水。
Verse 55
कृत्वोपवासं रेतोविण्मूत्राणां प्राशनेद्विजः / अज्ञानकृतपापस्य नाशः सन्ध्यात्रये कृते
守斋之后,若二生者(dvija)依仪轨而食精液、粪与尿,则当三时桑迪亚(Sandhyā)礼毕,由无明所作之罪便得灭除。
Verse 56
रुद्रैकादशजप्याद्धि पापनाशो भवेद्द्विजैः / वेदाभ्यासरतं शान्तं पञ्चयज्ञक्रियापरम्
诚然,二生者以持诵“十一鲁陀罗”之咒,诸罪得灭。(其人)乐于研习吠陀,心地寂静,并专志于奉行五大祭(pañca-yajña)。
Verse 57
न स्पृशन्ति हा पापानि चाशु स्मृत्वा ह्यपोहितः / जप्त्वा सहस्रगायत्त्रीं शुचिर्ब्रह्महणादृते
罪业不能触及于他;只要忆念此法,便迅速得以净除。若诵持伽雅特丽(Gāyatrī)一千遍,即得清净——唯除杀害婆罗门者。
Verse 58
ब्रह्मचर्यं दया क्षान्तिर्ध्यानं सत्यमकल्कता / अहिंसा स्तेयमाधुर्ये दमश्चैते यमाः स्मृताः
梵行(清净自持)、慈悲、忍辱、禅观、真实、无垢清净、不害(阿希姆萨)、不盗、言行柔和甘美,以及调御诸根——这些被忆念为“制戒”(yama)。
Verse 59
स्नानमौनोपवासोज्यास्वाध्यायोपस्थनिग्रहः / तपो ऽक्रोधो गुरोर्भक्तिः शौचं च नियमाः स्मृताः
沐浴、守默、斋戒、诵念神圣的“唵”(Om)、自修经学(svādhyāya)、制御淫欲、苦行、无嗔、敬爱师长(guru)之奉爱,以及清净——这些被忆念为“行戒”(niyama)。
Verse 60
पञ्चगव्यं तु गोक्षीरं दधिमूत्रशकृद्घृतम् / जग्ध्वा परेह्न्युपवसेत्कृच्छ्रं सान्तपनं चरेत्
应服用“潘恰伽维亚”(pañcagavya):牛乳、凝乳、牛尿、牛粪与酥油;次日再行禁食。如此便修行名为“桑塔帕那·克里恰”(Sāntapana Kṛcchra)的赎罪仪轨。
Verse 61
पृथक् सान्तपनैर्द्रव्यैः षडहः सोपवासकः / सप्ताहेन तु कृच्छ्रो ऽयं महासान्तपनः स्मृतः
将桑塔帕那(Sāntapana)的诸物分别使用,并伴随禁食修持六日;当此艰苦之行于七日圆满时,即称为“大桑塔帕那”(Mahā-sāntapana)。
Verse 62
पर्णोदुम्बरराजीवबील्वपत्रकुशोदकैः / प्रत्येकं प्रत्यहाभ्यस्तैः पर्ण कृच्छ्र उदाहृतः
所谓“叶苦行”(parṇa-kṛcchra)被宣说为:日日各取一份为食,以帕拉沙、优昙婆罗、莲与毕尔瓦之叶为餐,并饮以由库沙草所净化的圣水。
Verse 63
तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् / एकरात्रोपवासश्च तप्तकृच्छ्रश्च पावनः
应当日日轮次饮用其一:加热之乳、酥油(ghee)与水。守一夜斋,并行“热苦行”(taptakṛcchra)之忏法,皆能净化身心。
Verse 64
एकभक्तेन नक्तेन तथैवायाचितेन च / उपवासेन चकन पादकृच्छ्र उदाहृतः
所谓“足分苦行”(pāda-kṛcchra,较轻之kṛcchra)被宣说为:一日一食、唯夜而食、唯受不求之食(不乞不择)、以及守斋断食。
Verse 65
यथा कथञ्चित्त्रिगुणः प्रजापत्यो ऽयमुच्यते / अयमेवातिकृच्छ्रः स्यात्पाणिपूर्णाम्बुभोजनात्
以某种方式,此法被称为“三重普罗阇钵底耶”(Prājāpatya)之忏行;而同一修持,若所摄仅限于以掌心掬取之水,便成为“极苦行”(Ati-kṛcchra)。
Verse 66
कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिम् / द्वादशाहोपवासैश्च पराकः समुदाहृतः
所谓“帕拉卡”(Parāka)之苦行被宣说为:行最严厉之苦行(kṛcchra-ati-kṛcchra),二十一日唯以乳为命,并兼修十二日长斋。
Verse 67
पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् / एकैकमुपवासश्च कृच्छ्रः सौम्यो ऽयमुच्यते
每日依次食用油饼渣、酸粥、酪乳、净水与大麦粉,并在其间各隔一日持斋;此种忏悔苦行名为“柔和”(Saumya)的Kṛcchra。
Verse 68
एषां त्रिरात्रमभ्यासादेकैकं स्याद्यथाक्रमात् / तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः
将上述各法依次各行三夜,循序相续,则名为“图拉普鲁沙”(Tulāpuruṣa)之仪,应知为十五日之行。
Verse 69
तिथिपिण्डांश्चरेद्वृद्ध्या शुक्ले शिख्यण्डसंमितान् / एकैकं ह्रासयेत्कृष्णे पिण्डं चान्द्रायणं चरेत्
于白半月(śukla)当日行供奉皮ṇḍa(团食/祭饭)而渐增其量——每一团约如孔雀雌卵之大;于黑半月(kṛṣṇa)则日减其量,一日减一。由此以调制之皮ṇḍa而修持“月行誓”(Cāndrāyaṇa)。
Verse 70
यथाकथञ्चित्पिण्डानां चत्वारिंशच्छतद्वयम् / मासेनैवोपभुञ्जीत चान्द्रायणमथापरम्
无论以何方便,当于一月之内安排并食用(受用)共二百四十个皮ṇḍa供团;随后,作为另一种行持,应当修行Cāndrāyaṇa(月行誓)。
Verse 71
कृत्वा त्रिषवणं स्नानं पिण्डं चान्द्रायणं चरेत् / पवित्राणि जपेत्पिण्डान् गायत्त्र्या चाभिमन्त्रयेत्
行一日三浴之后,当制备皮ṇḍa(亡灵祭饭团)并修持Cāndrāyaṇa之赎罪誓。应诵“Pavitrā”净化真言,并以Gāyatrī加持、祝圣诸皮ṇḍa。
Verse 72
अनादिष्टेषु पापेषु शुद्धिश्चान्द्रायणेन तु / धर्मार्थो यश्चरेदेतच्चन्द्रस्यैति सलोकताम्
对于未曾规定特定赎罪法的罪业,可由“月行誓”(Cāndrāyaṇa)而得清净。若有人以法(dharma)为旨而修此行,便得往生与月神旃陀罗(Candra)同一世界。
Verse 73
कृच्छ्रकृद्धर्मकामस्तु महतीं श्रियमश्नुते
若有人以契合法(dharma)之愿而修“克里恰罗苦行”(Kṛcchra),便能获得广大福泽与昌盛。
Cāndrāyaṇa is a lunar-regulated discipline of intake/offerings that increases through the bright fortnight and decreases through the dark fortnight (with piṇḍa regulation described). The chapter treats it as a comprehensive purifier, explicitly recommending it even when no specific expiation is prescribed.
It links grave actions to both naraka trajectories (naming multiple hells) and to graded expiations calibrated by severity (e.g., brahmahatyā vs. upapātaka). The logic is that moral gravity determines both the depth of karmic consequence and the intensity/duration of remedial tapas, dāna, and japa.
They function as internal purifiers: Aghamarṣaṇa, Gāyatrī, Sahasraśīrṣa, and Ekādaśa Rudra japa are prescribed as sin-destroying disciplines, while repeated prāṇāyāma is recommended to remove accumulated impurities—integrating bodily regulation with mantra-based purification.
Yamas include celibacy/self-restraint, compassion, forbearance, meditation, truthfulness, purity, non-violence, non-stealing, sweetness, and sense-control; niyamas include bathing, silence, fasting, Oṁ-japa, self-study, sexual restraint, austerity, freedom from anger, guru-devotion, and purity. They are included to show that expiation is stabilized by ongoing ethical discipline, not only by one-time rites.