
Śrīpura-Nirmāṇa-Prastāva (Inquiry into Śrīpura and its Construction) / “The Proposal to Build Śrīpura”
本章延续《拉利塔传》(Lalitopākhyāna)脉络中海耶格利瓦与阿迦斯提耶的对话。阿迦斯提耶以建筑与宇宙图式之问,探询“室利城”(Śrīpura)为何物:其形制、尺度、色相光辉,以及最初由谁建造。海耶格利瓦答曰:在圣母拉利塔显现神圣戏行(līlā)并取得决定性胜利、尤其诛灭班达(Bhaṇḍāsura)而使宇宙秩序复归之后,诸天遂起愿为拉利塔与迦美湿伐罗(Kāmeśvara)建立恒常而辉煌的居处——“常享具一切义之殿”(nityopabhoga-sarvārtha mandira)。天界执政者召请工艺之主毗湿瓦羯摩(Viśvakarman)与摩耶(Maya),称赞其通达圣典(śāstra),能以意念成就宏伟设计。二人奉命依“十六”(ṣoḍaśī)圣域逻辑建造多座宝饰的室利城(Śrīnagarī),以安立拉利塔十六重临在,长久护持世间。由此,神话之胜转化为神圣都市营造:宇宙主权以规划空间呈现,并映入仪轨地理与流出神学之图。
Verse 1
इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने मदनपुनर्भवो नाम त्रिंशो ऽध्यायः अगस्त्य उवाच किमिदं श्रीपुरं नाम केन रूपेण वर्तते / केन वानिर्मितं पूर्व तत्सर्वं मे निवदय
如是,在《圣梵卵大往世书》后分中,于海耶格利瓦与阿迦斯底耶之对话、拉利塔传说里,有名为“摩陀那再生”的第三十章。阿迦斯底耶说道:“此名为室利补罗(Śrīpura)者为何物?以何形相而住?往昔由谁建造?愿为我详尽宣说。”
Verse 2
कियत्प्रमाणं किं वर्णं कथयस्व मम प्रभो / त्वमेव सर्वसन्देहपङ्कशोषणभास्करः
请告知我,主尊:其规模几何?其色相为何?唯有您是能晒干一切疑惑淤泥的太阳。
Verse 3
हयग्रीव उवाच यथा चक्ररथं प्राप्य पूर्वोक्तैर्लक्षणैर्युतम् / महायागानलोत्पन्ना ललिता परमेश्वरी
海耶格利瓦说道:“当她获得具足先前所述诸相的轮车(Cakraratha)之时,那从大祭火焰中显现的拉利塔·至上女主(Lalitā Parameśvarī)……”
Verse 4
कृत्वा वैवाहिकीं लीलां ब्रह्माद्यैः प्रार्थिता पुनः / व्यजेष्ट भण्डनामानमसुरं लोककण्टकम्
完成婚礼的神圣戏游后,又应梵天等诸神再三祈请,女神遂战胜名为“班陀”的阿修罗——那扼住世间咽喉的祸患。
Verse 5
तदा देवा महेन्द्राद्याः सन्तोषं बहु भेजिरे / अथ कामेश्वरस्यापि ललितायाश्च शोभनम् / नित्योपभोगसर्वार्थं मन्दिरं कर्तुमुत्सुकाः
当时,以摩诃因陀罗为首的诸天大得欢喜。继而他们渴望为迦摩自在天与吉祥的拉利塔女神建造一座华美宫殿,供恒常受用、具足一切所需。
Verse 6
कुमारा ललितादेव्या ब्रह्मविष्णुमहेश्वराः / वर्धकिं विश्वकर्माणं सुराणां शिल्पकोविदम्
拉利塔女神之子库玛罗,与梵天、毗湿奴及大自在天,一同召来毗首羯磨——诸天的伟大工匠,精通造作之艺。
Verse 7
सुराणां शिल्पनं च मयं मायाविचक्षणम् / आहूय कृतसत्कारानूचिरे ललिताज्ञया
他们又召来摩耶——诸天的工艺师,洞悉幻力之妙;礼敬款待之后,便依拉利塔的圣命而宣言。
Verse 8
अधिकारिपुरुषा ऊचुः भो विश्वकर्मञ्छिल्पज्ञ भोभो मय महोदय / भवन्तौ सर्वशास्त्रज्ञौ घटनामार्गकोविदौ
诸位主事者说道:“噢,毗首羯磨,通晓工艺者!噢,摩耶,大德尊者!二位通达一切论典,精于营造与构作之道。”
Verse 9
संकल्पमात्रेण महाशिल्पकल्पविशारदौ / युवाभ्यां ललितादेव्या नित्यज्ञानमहोदधेः
仅凭一念之愿,那两位精通大神工造化的青年,奉事拉利塔女神——恒常智慧的大海。
Verse 10
षोडशीक्षेत्रमध्येषु तत्क्षेत्रसमसंख्यया / कर्तव्या श्रीनगर्यो हि नानारत्नैरलङ्कृताः
在十六处圣域之中,应建起吉祥的“室利”诸城,其数与圣域相等,并以种种宝珠庄严装饰。
Verse 11
यत्र षोडशधा भिन्ना ललिता परमेश्वरी / विश्वत्राणाय सततं निवासं रचयिष्यति
在那里,至上女主拉利塔分现十六种形相,将为护持世界而营建恒常的居所。
Verse 12
अस्माकं हि प्रियमिदं मरुतामपिच प्रियम् / सर्वलोकप्रियं चैतत्तन्नाम्नैव विरच्यताम्
此事为我等所爱,亦为诸风神摩鲁特所爱;且为一切世间所喜——愿就以其名而成就之。
Verse 13
इति कारणदेवानां वचनं सुनिशम्य तौ / विश्वकर्ममयौ नत्वा व्यभाषेतां तथास्त्विति
二人细听诸因缘天神之言后,礼敬具毗湿瓦羯磨之力者,答曰:“愿如是成就。”
Verse 14
पुनर्नत्वा पृष्टवन्तौ तौ तान्कारण पूरुषान् / केषु क्षेत्रेषु कर्तव्याः श्रीनगर्यो महोदयाः
随后他们再度顶礼,问那些“因之神人”(Kāraṇa Puruṣa)道:“应当在何等圣地(kṣetra)建立吉祥的圣城(Śrī-nagara),使其昌盛辉煌?”
Verse 15
ब्रह्माद्याः परिपृष्टास्ते प्रोचुस्तौ शिल्पिनौ पुनः / क्षेत्राणां प्रविभागं तु कल्पयन्तौ यथोचितम्
当他们恭敬请问时,梵天等诸神便再次告示那两位工巧者,使其依正法与相称之度,筹划诸圣地(kṣetra)的分区与安置。
Verse 16
कारणपुरुषा ऊचुः प्रथमं मेरुपृष्ठे तु निषधे च महीधरे / हेमकूटे हिमगिरौ पञ्चमे गन्धमादने
因之神人(Kāraṇa Puruṣa)说道:“第一在须弥山(Meru)之背与尼沙陀山(Niṣadha);又在金峰(Hemakūṭa)与雪山(Himagiri);第五在香醉山(Gandhamādana)。”
Verse 17
नीले मेषे च शृङ्गारे महेन्द्रे च महागिरौ / क्षेत्राणि हि नवैतानि भौमानि विदितान्यथ
又在尼罗山(Nīla)、梅沙山(Meṣa)、室陵伽罗山(Śṛṅgāra),以及摩诃因陀罗山(Mahendra)与大山摩诃吉利(Mahāgiri)——此九处皆为大地之圣域(kṣetra),世所共知。
Verse 18
औदकानि तु सप्तैव प्रोक्तान्यखिल सिन्धुषु / लवणो ऽब्धीक्षुसाराब्धिः सुराब्धिर्घृतसागरः
至于水界之圣域,则说有七种,遍在诸海:咸海、甘蔗汁海、苏罗酒海,以及酥油海(ghṛta-sāgara)。
Verse 19
दधिसिन्धुः क्षीरसिन्धुर्जलसिन्धुश्च सप्तमः / पूर्वोक्ता नव शैलेन्द्राः पश्चात्सप्त च सिन्धवः
凝乳之海、乳之海与水之海,为第七海。先前已述九座山王,随后又说七条“信度”(诸河/诸海)。
Verse 20
आत्दृत्य षोडश क्षेत्राण्यंबाश्रीपुरकॢप्तये / येषु दिव्यानि वेश्मानि ललिताया महौजसः / सृजतं दिव्यघटनापण्डितौ शिल्पिनौ युवाम्
当以恭敬之心,筹设十六处圣域,以营建圣母安婆之吉祥城(Śrīpura)。于彼处,汝二位青年巧匠,精通神圣营造,当为大威德的拉利塔女神建造诸天宫殿。
Verse 21
येषु क्षेत्रेषु कॢप्तानि घ्नन्त्या देव्या महासुरान् / नामानि नित्यानाम्नैव प्रथितानि न संशयः
在那些圣域中,当女神诛灭诸大阿修罗之时所设立的名号,皆以永恒之名“尼提雅(Nityā)”而著称,毫无疑惑。
Verse 22
सा हि नित्यास्वरूपेण कालव्याप्तिकरी परा / सर्वं कलयते देवी कलनाङ्कतया जगत्
她确为永恒之相(Nityā),至上者,令时间遍覆一切。女神衡量万有,并以“计量之印”(kalanā)标记整个世界。
Verse 23
नित्यानाच महाराज्ञी नित्या यत्र न तद्भिदा / अतस्तदीयनाम्ना तु सनामा प्रथिता पुरा
在诸“尼提雅”之中,大王后即是尼提雅;尼提雅所在之处,了无差别。因此自古以来,她便以自身圣名而著称,名实相符。
Verse 24
कामेश्वरीपुरी चैव भगमालापुरी तथा / नित्यक्लिन्नापुरीत्यादिनामानि प्रथितान्यलम्
又有“迦梅湿瓦丽城”(Kāmeśvarīpurī)与“婆伽摩罗城”(Bhagamālāpurī);以及“常润湿城”(Nityaklinnāpurī)等名号,皆盛名远播。
Verse 25
अतो नामानि वर्णेन योग्ये पुण्यतमे दिने / महाशिल्पप्रकारेण पुरीं रचयतां शुभाम्
因此,在最为吉祥而相宜的圣日里,应依诸名号之字母次第,以宏伟的工艺法度营建一座吉庆之城。
Verse 26
इति कारणकृत्येन्द्रैर्ब्रह्मविष्णुमहेश्वरैः / प्रोक्तौ तौ श्रीपुरीस्थेषु तेषु क्षेत्रेषु चक्रतुः
如是,掌理因缘事业之主——梵天、毗湿奴与大自在天(摩醯湿伐罗)——宣说此二事,并在室利城(Śrīpurī)诸圣处及那些圣域(kṣetra)中施行。
Verse 27
अथ श्रीपुरविस्तारं पुराधिष्ठातृदेवताः / कथयाम्यहमाधार्य लोपामुद्रापते शृणु
随后,我将依此根本,讲述室利城(Śrīpura)的广大与守护统摄此城的主宰神众;噢,罗波慕陀罗之夫啊,请聆听。
Verse 28
यो मेरुरखिलाधारस्तुङ्गश्चानन्तयोजनः / चतुर्दशजगच्चक्रसंप्रोतनिजविग्रहः
须弥山(Meru)为一切世界之依止,巍峨高耸,延至无量由旬;其自身形体与十四世界之轮相贯相缀。
Verse 29
तस्य चत्वारि शृङ्गाणि शक्रनैरृतवायुषु / मध्यस्थलेषु जातानि प्रोच्छ्रायस्तेषु कथ्यते
它有四支角,生于帝释(因陀罗)、尼利哩多与风神(伐由)诸方;在其中间之处,宣说其角之高峻。
Verse 30
पूर्वोक्तशृङ्गत्रितयं शतयोजनमुन्नतम् / शतयोजनविस्तारं तेषु लोकास्त्रयो मताः
先前所说的三支角,高一百由旬,广亦一百由旬;其上被认为安立着三界三世间。
Verse 31
ब्रह्मलोको विष्णुलोकः शिवलोकस्तथैव च / एतेषां गृहविन्यासान्वक्ष्याम्यवसरान्तरे
其上有梵天界(Brahmaloka)、毗湿奴界(Vishnuloka)以及湿婆界(Shivaloka);至于这些居处的布局,我将于他时再说。
Verse 32
मध्ये स्थितस्य शृङ्गस्य विस्तारं चोच्छ्रयं शृणु / चतुःशतं योजनानामुच्छ्रितं विस्तृतं तथा
请听那居于中央之角的广与高:其高四百由旬,其广亦复如是。
Verse 33
तत्रैव शृङ्गे महति शिल्पिभ्यां श्रीपुरं कृतम् / चतुःशतं योजनानां विस्तृत कुम्भसंभव
就在那宏伟之角上,两位巧匠建成了吉祥之城“室利城”(Śrīpura);其广袤四百由旬,噢,壶生者(俱婆三婆婆,阿伽斯提耶)!
Verse 34
तत्रायं प्रविभागस्ते प्रविविच्य प्रदर्श्यते / प्राकारः प्रथमः प्रोक्तः कालायसविनिर्मितः
于彼处,此等分界将被细察而为汝显明。所说第一重城垣(prākāra),乃以黑铁(kālāyasa)铸成。
Verse 35
षट्दशाधिकसाहस्रयोजनायतवेष्टनः / चतुर्दिक्षु द्वार्युतश्च चतुर्योजनमुच्छ्रितः
其环绕之长达一万六千由旬,且更有余。四方皆设门阙,高四由旬。
Verse 36
शालमूलपरीणाहो योजनायुतमब्धिप / शालाग्रस्य तु गव्यूतेर्नद्धवातायनं पृथक्
噫,大海之主,娑罗(śāla)之根部周围广达一万由旬。至其顶端,窗牖皆紧缚而各自分列,相隔一伽维优提(gavyūti)。
Verse 37
शालद्वारस्य चौन्नत्यमेकयोजनमाश्रितम् / द्वारेद्वारे कपाटे द्वे गव्यूत्यर्धप्रविस्तरे
娑罗之门高一由旬。每一门皆有两扇门扉,每扇宽半伽维优提。
Verse 38
एकयोजनमुन्नद्धे कालायस विनिर्मिते / उभयोरर्गला चेत्थमर्धक्रोशसमायता
门扉加固至一由旬之厚高,皆以黑铁(kālāyasa)制成。两侧门闩(argalā)如是,长达半拘舍(krośa)。
Verse 39
एवं चतुर्षु द्वारेषु सदृशं परिकीर्तितम् / गोपुरस्य तु संस्थानं कथये कुंभसंभव
如是,四方诸门皆被称述为相同之制。今我当宣说高普罗(gopura,门楼)之形制,噢,壶生者(Kumbhasambhava)。
Verse 40
पूर्वोक्तस्य तु शालस्य मूले योजनसंमिते / पार्श्वद्वये योजने द्वे द्वे समादाय निर्मिते
于前所述殿廊之基,量为一由旬。其左右两侧,各取二由旬而建成。
Verse 41
विस्तारमपि तावन्तं संप्राप्तं द्वारगर्भितम् / पार्श्वद्वयं योजने द्वे मध्ये शालस्य योजनम्
其宽亦至同等之量,并含门内之区。左右两侧各二由旬,中间殿廊为一由旬。
Verse 42
मेलयित्वा पञ्च मुने योजनानि प्रमाणतः / पार्श्वद्वयेन सार्धेन क्रोशयुग्मेन संयुतम्
噢,牟尼,依量度合并则为五由旬;并与两侧及其半分相连,又配以一对拘舍(krośa)。
Verse 43
मेलयित्वा पञ्चसंख्यायोजनान्यायतस्तथा / एवं प्राकारतस्तत्र गोपुरं रचितं मुने
同样地,于纵向亦合为五由旬之长。于是,噢,牟尼,彼处依城垣(prākāra)而建成高普罗(门楼)。
Verse 44
तस्माद्गोपुरमूलस्य वेष्टो विंशतियोजनः / उपर्युपरि वेष्टस्य ह्रास एव प्रकीर्त्यते
因此,自高普罗门楼之基起,其环绕的围垣长二十由旬;而层层向上,其围度唯有渐次缩减,经典如是宣说。
Verse 45
गोपुरस्योन्नतिः प्रोक्तापञ्चविंशतियोजना / योजनेयोजने द्वारं सकपाटं मनोहरम्
又说那高普罗门楼之高为二十五由旬;每一由旬皆设一门,具门扇,庄严可爱。
Verse 46
भूमिकाश्चापि तावन्त्यो यथोर्ध्वं ह्राससंयुताः / गोपुराग्रस्य निस्तारो योजनं हि समाश्रितः
其层级亦如是众多,且随高度而渐次收敛;至于高普罗之顶,其横度依一由旬而定。
Verse 47
आयामो ऽपि च तावान्वै तत्र त्रिमुकुटं स्मृतम् / मुकुटस्य तु विस्तारः क्रोशमानो घटोद्भव
其长度亦复如是;其上又记说有三重宝冠。噫,壶生者啊,此冠之广度为一拘舍。
Verse 48
क्रोशद्वयं समुन्नद्धं ह्रासं गोपुरवन्मुने / मुकुटस्यान्तरे क्षोणी क्रोशार्धेन च संमिता
牟尼啊,此宝冠高起二拘舍,亦如高普罗般渐次收敛;而冠内之地,其量为半拘舍。
Verse 49
मुकुटं पश्चिमे प्राच्यां दक्षिणे द्वारगोपुरे / दक्षोत्तरस्तु मुकुटाः पश्चिमद्वारगोपुरे
在西方与东方,于南门的高塔门楼(gopura)之上安置圣冠(mukuṭa);而在西门的门楼之上,诸圣冠依南与北之向陈设。
Verse 50
दक्षिणद्वारवत्प्रोक्ता उत्तरद्वाःकिरीटिकाः / पश्चिमद्वारवत्पूर्वद्वारे मुकुटकल्पना
北门的宝冠(kirīṭa)被宣说与南门相同;而东门的圣冠安置之法,则如同西门一般。
Verse 51
कालायसाख्यशालस्यान्तरे मारुतयोजने / अन्तरे कांस्यशालस्य पूर्ववद्गोपुरो ऽन्वितः
在名为Kālāyasa(黑铁)之殿的内间,相隔一由旬,如风之行;而在Kāṃsya(青铜)之殿的内间,也如前所述,配有门楼高塔(gopura)。
Verse 52
शालमूलप्रमाणं च पूर्ववत्परिकीर्तितम् / कांस्यशालो ऽपि पूर्वादिदिक्षु द्वारसमन्विन्तः
殿堂根基的尺度亦如前所宣说。Kāṃsya(青铜)之殿同样,在东方等诸方皆具足门扉。
Verse 53
द्वारेद्वारे गोपुराणि पर्वलक्षणभाञ्जि च / कालायसस्य कांस्यस्य योंऽतर्देशः समन्ततः
门门皆有层级相状的高塔门楼(gopura);而Kālāyasa(黑铁)与Kāṃsya(青铜)之间的内域,周遍四方环绕。
Verse 54
नानावृक्षमहोद्यानं तत्प्रोक्तं कुम्भसंभव / उद्भिज्जाद्यं यावदस्ति तत्सर्वं तत्र वर्तते
那座拥有无数树木的大园林,被称为“俱瓶所生(Kumbhasambhava)”;凡从大地萌生之物,乃至一切存在者,皆在其中。
Verse 55
परंसहस्रास्तरवः सदापुष्पाः सदाफलाः / सदापल्लवशोभाढ्याः सदा सौरभसंकुलाः
其间树木逾千,常开常花,常结常果;嫩叶常新而增其华美,芬芳常满而充其园林。
Verse 56
चूताः कङ्कोलका लोध्रा बकुलाः कर्णिकारकाः / शिंशपाश्च शिरीषाश्च देवदारुनमेरवः
其中有注多树(芒果)、甘拘罗迦、洛陀罗、婆拘罗、羯尼迦罗;又有辛舍波与尸利沙,并有天香杉(devadāru)与那梅卢等树。
Verse 57
पुन्नागा नागभद्राश्च मुचुकुन्दाश्च कट्फलाः / एलालवङ्गास्तक्कोलास्तथा कर्पूरशाखिनः
又有奔那伽与那伽跋陀罗,目珠军陀与迦特颇罗;并有豆蔻(elā)、丁香(lavaṅga)、塔拘罗,以及枝叶散发樟脑(karpūra)清香之树。
Verse 58
पीलवः काकतुण्ड्यश्च शालकाश्चासनास्तथा / काञ्चनाराश्च लकुचाः पनसा हिङ्गुलास्तथा
还有毗罗婆、迦迦吞陀耶、舍罗迦与阿娑那;又有金花树(kāñcanāra)与拉拘迦;并有波那娑(菠萝蜜)及兴古罗等树。
Verse 59
पाटलाश्च फलिन्यश्च जटिल्यो जघनेफलाः / गणिकाश्च कुरण्टाश्च बन्धुजीवाश्च दाडिमाः
其间有钵吒罗树与诸多结果之木;有根丛纠结之植与下部结实之木;又有伽尼迦花、库兰塔花、班度吉瓦花,以及石榴树(达底摩)。
Verse 60
अश्वकर्णा हस्तिकर्णाश्चांपेयाः कनकद्रुमाः / यूथिकास्तालपर्ण्यश्च तुलस्यश्च सदाफलाः
又有马耳树(Aśvakarṇā)与象耳树(Hastikarṇā);有瞻波树(Cāṃpeya)与金树(Kanakadruma);有聚香花(Yūthikā)、多罗叶树(Tālaparṇī)、圣罗勒图拉西(Tulasi),以及常结果的萨达法拉(Sadāphalā)。
Verse 61
तालास्तमालहिन्तालखर्जूराः शरबर्बुराः / इक्षवः क्षीरिणश्चैव श्लेष्मान्तकविभीतकाः
又有多罗树(tāla)、多摩罗树(tamāla)、欣多罗树(hintāla)与海枣树(kharjūra);有舍罗与巴尔布罗之木;有甘蔗与乳汁树(kṣīriṇa);并有除痰树(Śleṣmāntaka)与毗毗多迦(Vibhītaka)。
Verse 62
हरीत्क्यस्त्ववाक्पुष्प्यो घोण्टाल्यः स्वर्गपुष्पिकाः / भल्लातकाश्च खदिराः शाखोटाश्चन्दनद्रुमाः
又有诃利多迦(Harītakī)与阿瓦克普施毗耶(Avākpuṣpya);有戈ṇṭālī与天花树(Svargapuṣpikā);并有婆罗罗多迦(Bhallātaka)、卡提罗(Khadira)、沙科ṭa(Śākhoṭa)以及檀香树(Candana)。
Verse 63
कालागुरुद्रुमाः कालस्कन्धाश्चिञ्चा वदास्तथा / उदुंबरार्जुनाश्वत्थाः शमीवृक्षा ध्रुवाद्रुमाः
又有迦罗阿古卢树(Kālāguru,沉香)与迦罗斯迦恩陀(Kālaskandha);有酸豆树(Ciñcā)与榕树(Vaḍa);有优昙婆罗(Udumbara)、阿周那(Arjuna)、阿湿婆他(Aśvattha);并有舍弥树(Śamī)与坚固不移的德鲁瓦树(Dhruva)。
Verse 64
रुचकाः कुटजाः सप्तपर्णाश्च कृतमालकाः / कपित्थास्तिन्तिणी चैवेत्येवमाध्याः सहस्रशः
其中所列树木不计其数:如鲁恰迦、库塔迦、七叶树、克利塔玛拉迦、卡毗他与丁提尼等,皆以千百计。
Verse 65
नानाऋतुसमाविष्टा देव्याः शृङ्गारहेतवः / नानावृक्षमहोत्सेधा वर्तन्ते वरशाखिनः
噢女神,这些树木浸润于四时众季,成为庄严华饰之因;种类繁多,巍然高耸,佳枝繁茂,处处生长。
Verse 66
कांस्यशालस्यान्तरोले सप्तयोजनदूरतः / चतुरस्रस्ताम्रशालः सिंधुयोजनमुन्नतः
在青铜殿的中间空处,相距七由旬之远,有一座四方的铜殿,高起一由旬,如同信度河般雄峻。
Verse 67
अनयोरन्तरक्षोणी प्रोक्ता कल्पकवाटिका / कर्पूरगन्धिभिश्चारुरत्नबीजसमन्वितैः
两者之间的土地被称为“劫波迦园圃”,芬芳如龙脑香,且具足瑰丽的宝石种子。
Verse 68
काञ्चनत्वक्सुरुचिरैः फलैस्तैः फलिता द्रुमाः / पीतांबराणि दिव्यानि प्रवालान्येव शाखिषु
诸树结满妙果,果皮灿若黄金;枝头垂现天界黄衣,又有红珊瑚般的嫩枝点缀其间。
Verse 69
अमृतं स्यान्मधुरसः पुष्पाणि च विभूषणम् / ईदृशा वहवस्तत्र कल्पवृक्षाः प्रकीर्तिताः
彼处称颂无数如意树(Kalpavṛkṣa):其汁为甘美的甘露(amṛta),其花为庄严的圣饰。
Verse 70
एषा कक्षा द्वितीया स्यान्कल्पवापीति नामतः / ताम्रशालस्यान्तराले नागशालः प्रकीर्तिताः
此第二重境界名为“劫波瓦毗”(Kalpavāpī);在“铜殿”(Tāmra-śālā)之内的间处,传称有“龙殿”(Nāga-śālā)。
Verse 71
अनयोरुभयोस्तिर्यगदेशः स्यात्सप्तयोजनः / तत्र संतानवाटी स्यान्कल्पवापीसमाकृतिः
二者之间的横向距离为七由旬;其处有“相续园”(Saṃtāna-vāṭī),形制如同Kalpavāpī。
Verse 72
तयोर्मध्ये मही प्रोक्ता हरिचन्दनवाटिका / कल्पवाटीसमाकारा फलपुष्पसमाकुला
二者之间有一片土地,名为“哈利旃檀园”(Haricandana-vāṭikā);其形如Kalpavāṭī,果花繁盛。
Verse 73
एषु सर्वेषु शालेषु पूर्ववद्द्वारकल्पनम् / पूर्ववद्गोपुराणां च मुकुटानां च कल्पनम्
在这一切殿舍(śālā)之中,门阙的设置如前所述;诸门楼(gopura)及其顶冠(mukuṭa)的营构亦复如前。
Verse 74
गोपुरद्वारकॢप्तं च द्वारे द्वारे च संमितिः / आरकूटस्यान्तराले सप्तयोजनदूरतः
诸门楼与门阙皆已建置,门门尺度均衡相称;于阿罗库塔之间,相距七由旬。
Verse 75
पञ्चलोहमयः शालः पूर्वशालसमाकृतिः / तयोर्मध्ये मही प्रोक्ता मन्दारद्रुमवाटिका
有一座由五金铸成的殿堂,形制如东方之殿;两者之间有一片大地,称为曼陀罗神树园。
Verse 76
पञ्चलोहस्यान्तराले सप्तयोजनदूरतः / रौप्यशालस्तु संप्रोक्तः पूर्वोक्तैर्लक्षणैर्युतः
在五金殿之间,相隔七由旬,宣说有一座银殿,具足先前所述诸相。
Verse 77
तयोर्मध्यमही प्रोक्ता पारिजातद्रुवाटिका / दिव्यामोदसुसंपूर्णा फलपुष्पभरोज्ज्वला
两者之间的中土称为波利阇多神树园;充满天妙芬芳,因果实与花朵繁盛而辉耀。
Verse 78
रौप्यशालस्यान्तराले सप्तयोजनविस्तरः / हेमशालः प्रकथितः पूर्ववद्द्वारशोभितः
在银殿之间,广阔七由旬,复说有一座金殿,如前以诸门庄严。
Verse 79
तयोर्मध्ये महीप्रोक्ता कदम्बतरुवाटिका / तत्र दिव्या नीपवृक्षा योजनद्वयमुन्नताः
在二者之间,有一片被称为“迦檀婆树园”的土地;其间有神圣的尼帕树,高达二由旬。
Verse 80
सदैव मदिरास्पन्दा मेदुरप्रसवोज्ज्वलाः / येभ्यः कादंबरी नाम योगिनी भोगदायिनी
它们常如醇酒之波微微颤动,因繁盛花实而光辉灿然;由此显现一位名为“迦檀婆梨”的瑜伽女神,赐予受用之乐。
Verse 81
विशिष्टा मदिरोद्याना मन्त्रिण्याः सततं प्रिया / ते नीपवृक्षाः सुच्छायाः पत्रलाः पल्लवाकुलाः / आमोदलोलभृङ्गालीझङ्कारैः पूरितोदराः
这殊胜的醇酒之园,恒为女大臣(Mantriṇī)所钟爱。那些尼帕树荫凉清美,叶繁芽密;园中充满逐香飞舞的蜂群嗡鸣之声。
Verse 82
तत्रैव मन्त्रिणीनाथाया मन्दिरं सुमनोहरम् / कदंबवनवाट्यास्तु विदिक्षुज्वलनादितः
就在那处,有一座极其悦目的殿宇,奉为女大臣之主(Nātha)而建;而迦檀婆林园在四方熠熠生辉,如火焰照耀。
Verse 83
चत्वारि मन्दिराण्युच्चैः कल्पितान्यादिशिल्पिना / एकैकस्य तु गे७स्य विस्तारः पञ्चयोजनः
有四座高耸的殿堂,由上古巧匠所营造;每一座的广度为五由旬。
Verse 84
पञ्चयोजनमायामः सप्तावरणतः स्थितिः / एवमन्यविदिक्षु स्युस्सर्वत्र प्रियकद्रुमाः / निवासनगरी सेयं श्यामायाः परिकीर्तिता
此居住之城延展五由旬,安住于七重护围之中。其余诸方亦复如是,处处皆有可爱之Priyaka神树。此城被传颂为圣母女神Śyāmā之居城。
Verse 85
सेनार्थं नगरी त्वन्या महापद्माटवीस्थले / यदत्रैव गृह तस्या बहुयोजनदूरतः
为军旅之用,另有一城建于摩诃莲华森林之地。其宅邸亦在彼处,却相隔多由旬之远。
Verse 86
श्रीदेव्या नित्यसेवा तु मत्रिण्या न घटिष्यते / अतश्चितामणिगृहोपान्ते ऽपि भवनं कृतम् / तस्याः श्रीमन्त्रनाथायाः सुरत्वष्ट्रा मयेन च
由玛特里尼对圣母Śrī Devī的恒常侍奉不可中断。故而即在如意宝(Cintāmaṇi)之宅旁亦建起一所宫舍。此舍由天工Suratvaṣṭrā与Maya为她的圣尊Mantranāthā所造。
Verse 87
श्रीपुरे मन्त्रेणी देव्या मन्दिरस्य गुणान्बहुन् / वर्णयिष्यति को नाम यो द्विजिह्वासहस्रवान्
在圣城Śrīpura,玛特里尼将宣说女神圣殿的无量功德。然而谁能尽述其美——纵有千重双舌亦难穷尽。
Verse 88
कादंबरीमदाताम्रनयनाः कलवीणया / गायन्त्यस्तत्र खेलन्ति मान्यमातङ्गकन्यकाः
彼处,受敬的摩当伽少女因饮迦檀婆梨而微醺,双眸呈赤铜之色。她们伴着柔美的维那琴声歌唱,并在其间嬉游。
Verse 89
अगस्त्य उवाच मातङ्गो नाम कःप्रोक्तस्तस्य कन्याः कथं च ताः / सेवन्ते मन्त्रिणीनाथां सदा मधुमदालसाः
阿伽斯底耶说道:“被称为摩檀伽者是谁?他的女儿们又是怎样?为何她们常常侍奉女神曼特里尼为主,恒久沉醉于蜜甘之醉,懒倦迷离?”
Verse 90
हयग्रीव उवाच मतङ्गो नाम तपसामेकराशिस्तपोधनः / महाप्रभावसंपन्नो जगत्सर्जनलंपटः
海耶格利瓦说道:“名为摩檀伽者,乃苦行之聚、苦行之财(tapodhana)。具大威德,乐于世间之创造。”
Verse 91
तपः शक्त्यात्तधिया च सर्वत्राज्ञाप्रवर्त्तकः / तस्य पुत्रस्तु मातङ्गो मुद्रिणीं मन्त्रिनायिकाम्
凭借苦行之力与其智慧,他使号令遍行诸方。他的儿子名为摩檀伽,侍奉女神穆德里尼——曼特里尼之女主。
Verse 92
। घोरैस्तपोभिरत्यर्थं पूरयामास धीरधीः / मतङ्गमुनिपुत्रेण सुचिरं समुपासिता
以极其严峻可畏的苦行,那坚慧之士使之圆满成就。女神曼特里尼亦久受摩檀伽牟尼之子恭敬侍奉。
Verse 93
मन्त्रिणी कृतसान्निध्या वृणीष्व वरमित्यशात् / सो ऽपिसर्वमुनिश्रेष्ठो मातङ्गस्तपसां निधिः / उवाच तां पुरो दत्तसान्निध्यां श्यामलांबिकाम्
女神曼特里尼既赐亲临,便言:“汝当自择一愿。”于是摩檀伽——诸牟尼之最、苦行之宝藏——对那在前显现并赐近侍的黑青母神圣妃(Śyāmalāmbikā)说道。
Verse 94
मातङ्गमहामुनिरुवाच देवी त्वत्स्मृतिमात्रेण सर्वाश्च मम सिद्धयः / जाता एवाणिमाद्यास्ताः सर्वाश्चान्या विभूतयः
大圣牟尼摩檀伽说道:女神啊,只要忆念于你,我的一切悉地便自然生起;从“微细神通”(Anima)等起,乃至诸般威德神变(vibhūti),皆悉现前。
Verse 95
प्रापणीयन्न मे किञ्चिदस्त्यंबभुवनत्रये / सर्वतः प्राप्तकालस्य भवत्याश्चरितस्मृतेः
噢,母神安婆,在三界之中我已无所可求;对那时机从四方俱已成熟之人而言,因你不可思议的忆念,一切皆已得成。
Verse 96
अथापि तव सांनिध्यमिदं नो निष्फलं भवेत् / एवं परं प्रार्थये ऽहं तं वरं पूरयांबिके
然而,你的临在不应成为徒然;因此,噢安毗迦,我至诚祈求至上的愿:愿你成就那一份恩赐。
Verse 97
पूर्वं हिमवता सार्थं सौहार्दं परिहासवान् / क्रीडामत्तेन चावाच्यैस्तत्र तेन प्रगल्भितम्
从前我与雪山王希摩伐特结为友好,常以戏谑相亲;又因嬉游沉醉,口出不当之言,使他在彼处愈发放纵而无所顾忌。
Verse 98
अहङ्गौरीगुरुरिति श्लाघामात्मनि तेनिवान् / तद्वाक्यं मम नैवाभूद्यतस्तत्राधिको गुणः
他自夸道:“我是高丽女神(Gaurī)的导师。”仿佛自我称颂;然而此言并未触动我心,因为在彼处,你的德性功德远胜一切。
Verse 99
उभयोर्गुणसाम्ये तु मित्रयोरधिके गुणे / एकस्य कारणाज्जाते तत्रान्यस्य स्पृहा भवेत्
当两位友人德性相等,或其中一人德行更胜;若此功德因一人之因缘而生,另一人心中亦会生起向往与渴求。
Verse 100
गौरीगुरुत्वश्लाघार्थं प्राप्तकामो ऽप्यहं तपः / कृतवान्मन्त्रिणीनाथे तत्त्वंमत्तनया भव
纵然我所愿已成,我仍修行苦行,只为称颂圣母高丽(Gaurī)的威德与尊严。噢,曼特里尼之主啊,依真实法则,请成为我的女儿。
Verse 101
यतो मन्नामविख्याता भविष्यसि न संशयः / इत्युक्तं वचनं श्रुत्वा मातङ्गस्य महामुनेः / तथास्त्विति तिरोघत् स च प्रीतो ऽभवन्मुनिः
“因你将以我的名而闻名于世,毫无疑虑。”听闻大牟尼马唐伽(Mātaṅga)此言,她答道:“愿如是。”随即他隐没而去;那位牟尼亦心生欢喜。
Verse 102
मातङ्गस्य महर्षेस्तु तस्य स्वप्ने तदा मुदा / तापिच्छमञ्जरीमेकां ददौ कर्णावतंसतः
当时,大圣仙马唐伽在梦中欢喜地赐下一枝tāpiccha花穗,作为耳畔的饰物。
Verse 103
तत्स्वप्नस्य प्रभावेण मातङ्गस्य सधर्मिणी / नाम्ना सिद्धिमती गर्भे लघुश्यामामधारयत्
因那梦境之力,马唐伽的同修贤妻名为悉地摩提(Siddhimatī),遂怀胎于身,孕育一位肤色微黝而柔和的女婴。
Verse 104
तत एव समुत्पन्ना मातङ्गी तेन कीर्तिताः / लघुश्यामेति सा प्रोक्त श्यामा यन्मूलकन्दभूः
正从那里,玛坦吉(Mātangī)出生,因此被如此称颂。她被称为“拉古·夏玛”(Laghu-Śyāmā),因为她是夏玛(Śyāmā),由根块(mūla-kanda)而生。
Verse 105
मातङ्गकन्यका हृद्याः कोटीनामपि कोटिशः / लघुश्यामा महाश्यामामातङ्गी वृन्दसंयुताः / अङ्गशक्तित्वमापन्नाः सेवन्ते प्रियकप्रियाम्
玛坦伽(Mātaṅga)的女儿们悦人心意,数量多至无数俱胝(koṭi)。拉古·夏玛与大夏玛·玛坦吉,连同其眷属,成就为诸肢分之力(aṅga-śakti),侍奉“普利亚卡之爱者”(Priyaka-priyā)。
Verse 106
इति मातङ्गकन्यानामुत्पत्तिः कुंभसंभव / कथिताः सप्तकक्षाश्च शाला लोहादिनिर्मिताः
于是,噢“壶生者”(Kuṃbhasaṃbhava),玛坦伽诸女的出生已如是叙述;并且也说到了七重房室,以及以铁等材料建成的殿堂。
The sampled portion is not a vaṃśa-catalogue chapter; its organizing data is spatial-theological rather than dynastic—focusing on the authorization of Śrīpura/Śrīnagarī and the divine artisan lineage of function (Viśvakarman/Maya) rather than royal descent lists.
The passage foregrounds architectural and kṣetra-based mapping (ṣoḍaśīkṣetra and corresponding Śrīnagarīs) and includes Agastya’s request for measurements (pramāṇa) and color (varṇa); detailed numeric measures are implied as part of the full chapter’s descriptive agenda, even if not present in the excerpted verses.
The key esoteric motif here is not a single named yantra but the ṣoḍaśī framework: Lalitā’s “sixteenfold” differentiation is mapped onto sixteen kṣetras and cities, expressing Śākta emanation theology as a spatial grid—divine protection becomes a distributed sacred topology (abodes/cities) rather than only a battlefield victory over Bhaṇḍa.