
युगप्रजालक्षणम् ऋषिप्रवरवर्णनं च (Yuga–Prajā-Lakṣaṇa and the Enumeration of Eminent Ṛṣis)
本章呈目录式论述:苏多向会众开示,令其“按名识知”婆罗门传承中具权威的阐释者。经闻圣仙(śrutarṣi)之名密集罗列,并依吠陀所属与师承谱系(师、弟子、再传弟子)分组,显示有关劫期(yuga)与众生类别(prajā)之知识如何通过支派(śākhā)网络保存流传。其用意不在叙事戏剧,而在如档案般的权威校验:标示诵持者与解说者(pravaktṛ),暗示宇宙与时间教义(yuga/manvantara 的解读)根植于可指名的传人。反复强调各组人数与总数,体现整理与标准化名单之意,便于后世宇宙志与谱系学引用稳定的权威。
Verse 1
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे युगप्रजालक्षणमृषिप्रवरवर्णनं च नाम द्वात्रिंशत्तमो ऽध्यायः सूत उवाच ऋषिकाणां सुताश्चापि विज्ञेया ऋषिपुत्रकाः / ब्राह्यणानां प्रवक्तारो नामतश्च निबोधत
如是,在《圣梵卵大摩诃往世书》中,风神所宣之前分、第二“随续品”里,有名为“诸劫众生之相与仙人普拉瓦拉之叙述”的第三十二章。苏多曰:诸仙之子亦当知为“仙子”;诸婆罗门之宣说者,当按名谛听。
Verse 2
सप्रधानाः प्रवक्ष्यन्ते समासाच्च श्रुतर्षयः / बह्वृचो भार्गवः पैलः सांकृत्यो जाजलिस्तथा
今当略说诸闻持圣典之主要仙人:巴赫毗利恰、婆尔伽瓦、派拉、桑克利底耶与贾贾利。
Verse 3
संध्यास्तिर्माठरश्चैव याज्ञवल्क्यः पराशरः / उपमन्युरिन्द्रप्रमतिर्माडूकिः शाकलिश्च सः
又有:桑迪亚斯提、玛塔拉、雅吉那瓦尔吉亚、帕拉沙拉、乌帕曼纽、因陀罗普拉玛提、玛杜基与沙迦利。
Verse 4
बाष्कलिः शोकपाणिश्च नैलः पैलो ऽलकस्तथा / पन्नगाः पक्षगन्ताश्च षडशीतिः श्रुतर्षयः
婆湿迦利、忧苦手、奈罗、派罗与阿罗迦;又有盘那伽与翼行者——合为八十六位“闻传圣仙”。
Verse 5
एते द्विजातयो मुख्या बह्वृचानां श्रुतर्षयः / वैशंपायनलौहित्यौ कण्ठकालावशावधः
这些是巴呼梨叉传承中最主要的二生者“闻传圣仙”:毗舍摩波耶那、劳希底耶、坎陀、迦罗与阿婆舍婆陀。
Verse 6
श्यामापतिः पलाडुश्च आलंबिः कमलापतिः / तेषां शिष्याः प्रशिष्याश्च षडशीति श्रुतर्षयः
沙耶摩波底、婆罗荼、阿蓝毗、迦摩罗波底;他们的弟子与再传弟子合为八十六位“闻传圣仙”。
Verse 7
एते द्विजर्षयः प्रोक्ताश्चरकाध्वर्यवो द्विजाः / चैमिनिः सभरद्वाजः काव्यः पौष्यञ्जिरेव च
这些二生圣仙被称为“行者祭官”(Carakādhvaryu):柴弥尼、娑婆罗陀婆阇、迦毗耶,以及普沙延支。
Verse 8
हिरण्यनाभः कौशिल्यो लौगाक्षिः कुसुमिस्तथा / लङ्गली शालिहोत्रश्च शक्तिराजश्च भार्गवः
金脐者、拘尸利耶、劳伽阿克希与库苏弥;又有犁持者、沙利霍特罗,以及婆伽婆系的力王。
Verse 9
सामगानामथाचार्य ऐलो राजा पुरूरवाः / षट्चत्वारिंशदन्ये वै तेषां शिष्याः श्रुतर्षयः
萨摩歌咏的导师是阿伊拉族的普鲁罗婆王;另有四十六位弟子,皆为通晓《闻传》(Śruti)的圣仙。
Verse 10
कौशीतिः कङ्कमुद्गश्च कुण्डकः सपराशरः / लोभालोभश्च धर्मात्मा तथा ब्रह्म बलश्च सः
又有考希提、康卡穆德伽、与帕拉沙罗同在的昆达迦、具法性之“贪与不贪”(Lobhālōbha),以及梵摩与婆罗等人。
Verse 11
क्रन्थलो ऽथो मदगलो मार्कण्डेयो ऽथ धर्मवित् / इत्येते नवतिर्ज्ञेया होत्रवद्ब्रह्मचारिणः
克兰陀罗、摩达伽罗、马尔坎德耶以及通达法义者——如此当知共有九十位,皆如祭司Hotṛ般守梵行。
Verse 12
चरकाध्वर्यवश्चापि ह्यनुमंन्त्रं तु ब्राह्मणम् / चलूभिः सुमतिश्चैव तथा देववरश्च यः
还有恰拉迦阿德瓦尔耶瓦,以及婆罗门阿努曼特罗;并有恰卢毗、苏摩提与提婆伐罗等人。
Verse 13
अनुकृष्णस्तथायुश्च अनुभूमिस्तथैव च / तथाप्रीतः कृशाश्वश्व सुमूलिर्बाष्कलिस्तथा
阿努克里什纳与阿瑜,以及阿努布弥;同样还有普利塔、克里沙阿湿瓦、苏穆利与巴什迦利等名。
Verse 14
चरकाध्वर्यकाध्वर्युनमस्युर्ब्रह्मचारिणः / वैयासकिः शुको विद्वांल्लौकिर्भूरिश्रवास्तथा
恰拉迦与诸位阿德瓦律祭官,以及其他祭官——这些持梵行者皆致敬礼;毗耶娑之子、智者舒迦,及劳基与多闻者布胡里施罗婆亦在其中。
Verse 15
सोमाविरतुनान्तक्यस्तथा धौम्यश्च काश्यपः / आरण्या इलकश्चैव उपमन्युर्विदस्तथा
苏摩阿毗罗多那难特迦,以及陀乌弥耶与迦湿耶波;阿兰尼亚、伊拉迦、优波曼纽与毗陀也都在场。
Verse 16
भार्गवो मधुकः पिङ्गः श्वेत केतुस्तथैव च / प्रजादर्पः कहोडश्च याज्ञवल्क्यो ऽथ शौनकः
婆尔伽瓦、摩度迦、平伽,以及白旗都;普罗阇达尔婆、迦诃陀、耶若那伐尔迦,继而绍那迦也在其中。
Verse 17
अनङ्गो निरतालश्च मध्यमाध्वर्यवस्तुते / अदितिर्देवमाता च जलापा चैव मानवी
阿难伽与尼罗多罗,以及名为“中位阿德瓦律仪轨赞颂者”;天母阿底提与人间女子阇罗婆也(在其中)。
Verse 18
उर्वशी विश्वयोषा च ह्यप्सरःप्रवरे शुभे / मुद्गला चातुजीवैव तारा चैव यशस्विनी
乌尔瓦希与毗湿瓦优沙——吉祥而卓越的天女(阿普萨拉);以及穆德伽罗、恰图吉瓦与声名显赫的塔罗也(在场)。
Verse 19
प्रातिमेधी च मार्गा च सुजाता च महातपा / लोपामुद्रा च धर्मज्ञा या च कोशीतिका स्मृता
有普拉提梅蒂、玛尔迦、苏贾塔与大苦行者;又有通晓法义的洛帕穆德拉,以及被称为“科希蒂迦”的那位。
Verse 20
एताश्च ब्रह्मवादिन्य अप्सरो रूपंसमताः / इत्येता मुख्यशः प्रोक्ता मया च ऋषिपुत्रकाः
这些皆为宣说梵理的天女,容貌相称;诸位仙人之子啊,我已将她们作为主要者如是述说。
Verse 21
वैदशाखाप्रणयनास्ततस्ते ऋषयः स्मृताः / ईश्वरा मन्त्रवक्तार ऋषयो ह्यृषिकास्तथा
由于他们编定了吠陀诸支派,故被称为圣仙;他们如同自在天,为宣说真言者——既是仙人,亦有女仙。
Verse 22
ऋषिपुत्राः प्रवक्तरः कल्पानां ब्राह्मणस्य तु / ईश्वराणामृषीणां च ऋषिकाणां सहात्मजैः
仙人之子为诸劫(kalpa)与婆罗门章之宣说者;亦宣说如自在天般的诸仙人与女仙,并及其子嗣。
Verse 23
तथा वाक्यानि जनीष्व यथैषां मन्त्रदृष्टयः / तत्राज्ञायुक्तमद्वैतं दीप्तं गंभीरशब्दवत्
当依他们的真言灵见而生起言辞;于彼处,随教令而立的不二之理,如深沉之音般炽然显耀。
Verse 24
अत्यन्तमपरोक्षं च लिङ्गं नाम तथैव च / सर्वभूतान्यभूतं च परिदानं च यद्भवेत्
那极其现前可证的林伽,其名亦复如是;遍在一切众生而仍为“非生”(abhūta)者,并具“施与/奉献”(paridāna)之性者——此即所说。
Verse 25
क्वचिन्निरुक्तप्रोक्तार्थं वाक्यं स्वायंभुवं विदुः / यत्किञ्चिन्मन्त्रसंयुक्तं तत्र नामविभक्तिभिः
在某些地方,那由《尼鲁克多》(nirukta)所阐明义理的语句,被称为“自生”(svāyaṃbhuva);凡与真言相应者,其义当由名词与格位(vibhakti)来判明。
Verse 26
प्रत्यक्षाभिहितं चैवमृषीणां वचनं मतम् / नैगमैर्विविधैः शब्दैर्निपातैर्बहुलं च यत्
如此,诸仙的言辞被认为是直接明示之语;并且充满多种“尼伽摩”(naigama,吠陀)词汇与众多助辞(nipāta)。
Verse 27
यच्चाप्यस्ति महद्वाक्यमृषीकाणां वचः स्मृतम् / अविस्पष्टपदं यच्च यच्च स्याद्बहुसंशयम्
又有被忆持为诸仙“伟大语句”(mahāvākya)者;其词句不甚分明,并且多生疑惑。
Verse 28
ऋषिपुत्रवचस्तद्वै सर्वाश्च परिदेवताः / हेतुदृष्टान्त बहुलं चित्रशब्दमपार्थकम्
这便是仙人之子的言辞,也关乎一切“随从神祇”(paridevatā);多用因由与譬喻,辞藻繁丽,却失其真实义旨。
Verse 29
सर्वास्तु तमशक्तं च वाक्यमेतत्तु मानुषम् / मिश्रा इति समाख्याताः प्रभावादृषितां गाताः
此言虽出于人间,却亦夹带昏暗之性(tamas)之力。因其威势,他们得至仙圣之位,被称为“弥施罗”(Miśra)。
Verse 30
समुत्कर्षाय कर्षाभ्यां जातिव्यत्याससंभवाः / भूतभव्यभवज्ज्ञान जन्मदुःखचिकित्सनम्
由升与降而生诸族类之更易。了知过去、未来与现在之事,即为疗治生之苦的良方。
Verse 31
मिश्राणां तद्भवेद्वाक्यं गुरोर्बलप्रवर्त्तनम् / धर्मशास्त्रप्रणेतारो महिम्ना सर्वगाश्च वै
弥施罗之言能使师尊之力得以发动。他们乃《法论》(Dharmaśāstra)之制定者,并以其威德而遍行诸方。
Verse 32
तपःप्रकर्षः सुमहान्येषां ते ऋषयः स्मृताः / बृहस्पतिश्च शुक्रश्च व्यासः सारस्वतस्तथा
他们的苦行精进极其广大,因此被忆为诸仙圣:布里哈斯帕提、舒克罗、毗耶娑以及萨拉斯瓦塔。
Verse 33
व्यासाः शास्त्रप्रणयना वेदव्यास इति स्मृताः / यस्मादवारजाः संतः पूर्वेभ्यो मेधयाधिकाः
凡撰制诸论典之毗耶娑,皆被忆为“吠陀毗耶娑”;因为他们虽为后出,却在慧智上胜过前贤。
Verse 34
ऐश्वर्येण च संपन्नास्ततस्ते ऋषयः स्मृताः / यस्मिन्कालो न चं वयः प्रमाणमृषिभावने
他们因具足神圣威德而被称为圣仙;在圣仙之境,时间与年龄都不是衡量之准。
Verse 35
दृश्यते हि पुमान्कश्चित्कश्चिज्ज्येष्ठतमो धिया / यस्माद्बुद्ध्या च वर्षीयान्बलो ऽपि श्रुतवानृषिः
可见有人以智慧而为最尊长;因为凭觉慧,即使孩童也能成为通达圣闻的圣仙。
Verse 36
यः कश्चित्पादवान्मध्ये प्रयुक्तो ऽक्षर संपदा / विनियुक्तावसानां तु तामृचं परिचक्षते
凡具足诸“足”(pāda)、以音节圆满而居中安置、并有规定结尾的咒句,被称为“Ṛk(颂)”。
Verse 37
यः कश्चित्करणैर्मन्त्रो न च पादक्षरैर्मितः / अतियुक्तावसानं च तद्यजुर्वै प्रचक्षते
凡由诸“作法”(karaṇa)构成、不以足与音节为限、且结尾连接较长的咒句,被称为“Yajus(祭词)”。
Verse 38
ह्रीङ्कारः प्रणवो गीतः प्रस्तावश्च चतुर्थकम् / पञ्चमः प्रतिहोत्रश्च षष्ठमाहुरुपद्रवम्
“Hrīṅkāra”、圣音“Praṇava”、歌唱“Gīta”与“Prastāva”合为第四;第五为“Pratihotra”,第六称“Upadrava”。
Verse 39
निधनं सप्तमं साम्नः सप्तविन्ध्य मिदं स्मृतम् / पञ्चविन्ध्य इति प्रोक्तं ह्रीङ्कारः प्रणवादृते
《娑摩》之第七“终止音”(nidhana)被称为“七温陀耶”(Saptavindhya);所谓“五温陀耶”(Pañcavindhya),即不伴随圣音“唵”(Praṇava)的“hrīṃ”音。
Verse 40
ब्रह्मणे धर्ममत्युक्तौ यत्तदा ज्ञाप्यतेर्ऽथतः / आशास्तिस्तु प्रसंख्याता विलापः परिदेवना
在合乎法的言说中,那时按其义理告知梵天者,称为“Āśāsti”(告诫/宣示);而“Vilāpa”即“Paridevanā”(哀诉悲叹)。
Verse 41
क्रोधाद्वा द्वेषणाच्चैव प्रश्राख्यानं तथैव च / एतत्तु सर्वविद्यानां विहितं मन्त्रलक्षणम्
或由忿怒,或由憎恶,亦由发问与叙述而起——此等皆为一切“vidyā”中所规定的真言之相。
Verse 42
मन्त्रा नवविधाः प्रोक्ता ऋग्यजुः सामलक्षणाः / मूर्तिर्निन्दा प्रशंसा चाक्रोशस्तोषस्तथैव च
具《梨俱》《夜柔》《娑摩》之相的真言,被说为九类:形相(mūrti)、诋毁、赞叹、呵斥、悦慰(满足)等。
Verse 43
प्रश्रानुज्ञास्तथाख्यानमाशास्मतिविधयो मताः / मन्त्रभेदांश्च वक्ष्यामि चतुर्विशतिलक्षणान्
发问、许可、叙述、希愿与忆念——这些被认为是诸法门。现在我将宣说真言的差别,并具二十四种特征。
Verse 44
प्रशंसा स्तुतिराक्रोशो निन्दा च परिदेवना / अभिशापो विशापश्च प्रश्नः प्रतिवचस्तथा
赞叹、颂赞、呵斥、诋毁与哀叹;以及诅咒、反诅咒、提问与应答。
Verse 45
आशीर्यज्ञस्तथाक्षेप अर्थाख्यानं च संकथा / वियोगा ह्यभियोगाश्च कथा संस्था वरश्च वै
祝福之祭、讥责、义理阐释与对谈;离别与控诉;叙事、建立与赐福亦然。
Verse 46
प्रतिषेधोप देशौ च नमस्कारः स्पृहा तथा / विलापश्चेति मन्त्राणां चतुर्विंशतिरुद्धृताः
禁制与教诲、礼敬、渴慕与哀诉——如是举出二十四种真言之别。
Verse 47
ऋषिभिर्यज्ञतत्त्वज्ञैर्विहितं ब्रह्मणं पुरा / हेतु र्निर्वचनं निन्दा प्रशस्तिः संशयो निधिः
通晓祭祀真义的圣仙在古时制定了《婆罗门》之法;其中有因由、释义、责难、赞颂、疑问与“尼提”(宝藏)。
Verse 48
पुराकृतिपुराकल्पौ व्यवधारणकल्पना / उपमा च दशैते वै विधयो ब्राह्मणस्य तु
“往昔形制”“往昔劫式”、分判、构想与譬喻——此十种确为《婆罗门》部分之法门。
Verse 49
लक्षणं ब्राह्मणस्यैनद्विहितं सर्वशाखिनाम / हेतुर्हन्तेः स्मृतो धातोर्यन्निहन्त्युदितं परैः
这是婆罗门的标志,在一切传承支派中皆有规定。由词根“han”而忆得“hetu(因)”,他人又说其义为“nihanti”,即“摧灭”。
Verse 50
अथवार्थे परिप्राप्ते हिनो तेर्गतिकर्मणा / तथा निर्वचनं ब्रूयाद्वाक्यार्थस्यावधारणम्
或者当义理已明了获得时,应以词根“hin”作“行走之业”来领会;同样,当以词源释义来确定句义。
Verse 51
निन्दां तामाहुरायार्या यद्दोषे निन्दनं वचः / प्रपूर्वाच्छंसतेर्धातोः प्रशंसागुणवत्तया
贤圣称那指摘过失的言辞为“nindā(诋毁)”;而由词根“śaṃs”加前缀“pra”而成的“praśaṃsā”,则是具德之赞叹。
Verse 52
इदं त्विदमिदं नैदमित्यनिश्चित्य संशयम् / इदमेवं विधातव्यमित्ययं विधिरुच्यते
不能确定“这是这个”或“这不是这个”时,便生疑惑;而“此事应当如此施行”的规定,被称为“vidhi(法则)”。
Verse 53
अन्यस्यान्यस्य चौक्तिर्या बुधैः सोक्ता पुराकृतिः / यो ह्यत्यन्तपरोक्षार्थः स पुराकल्प उच्यते
智者所说:谈此而借彼的表述称为“purākṛti”。其义极为幽隐、极其间接者,称为“purākalpa”。
Verse 54
पुरातिक्रान्तवाचित्वात्पुराकल्पस्य कल्प नाम् / मन्त्रब्राह्मणकल्पैश्च निगमैः शुद्धविस्तरैः
由于古老言辞已越过久远时代,那一“古劫”(purākalpa)便被称为“劫法”(kalpa);在清净而广博的尼伽摩(Nigama)中,又以咒(mantra)、梵书(brāhmaṇa)与劫法诸篇加以阐明。
Verse 55
अनिश्चित्य कृतामाहुर्व्यवधारणकल्पनाम् / यथा हीदं तथा तद्वै इदं चैव तथैव तत्
凡未加确定而作的,称为“抉择之设想”(vyavadhāraṇa-kalpanā);此如何,彼亦如何——此亦如是,彼亦如是。
Verse 56
इत्येवमेषा ह्युपमा दशमो ब्राह्मणस्य तु / इत्येतद्ब्रह्मणस्यादौ विहितं रक्षणं बुधैः
如是,此譬喻被称为梵书(Brāhmaṇa)部分的第十;而在梵(Brahman)之学的开端,智者们便制定了此护持之法。
Verse 57
तस्य तद्विद्भिरुद्दिष्टा व्याख्याम्यनुपदं द्विजैः / मन्त्राणां कल्पना चैव विधिदृष्टिषु कर्मसु
关于此义,通达者所指示的解释,我将为诸位二次生者逐句宣说;并且也将讲述在依仪轨(vidhi)而行的诸业中,诸咒(mantra)的编排。
Verse 58
मन्त्रो मन्त्रयतेर्द्धातोर्ब्राह्मणो ब्राह्मणेन तु / अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् / अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः
“咒”(mantra)一词出自词根 mantrayate;“梵书”(brāhmaṇa)则为婆罗门所宣说。凡字句精简、义无疑滞、蕴含精要、四方皆通、无赘饰、无瑕疵者,通晓经则(sūtra)的人称之为“经则”(sūtra)。
Primarily rishi-teacher transmission lines: the chapter enumerates śrutarṣis and recognized pravaktṛs (expounders), often grouped by Vedic affiliation and extended through disciples and grand-disciples rather than focusing on Solar/Lunar royal dynasties.
It functions as an authority-map and archival checksum: fixed totals and grouped lists stabilize the tradition, indicating which reciters/schools are considered reliable carriers of yuga and prajā classifications used elsewhere in the Purāṇa.
No. The sampled material is a rishi/pravaktṛ catalog within Prakriyā Pāda and does not present Lalitopākhyāna-style Śākta theology, yantras, or the Bhaṇḍāsura narrative.