Adhyaya 32
Prakriya PadaAdhyaya 32122 Verses

Adhyaya 32

चतुर्युगाख्यान (Caturyuga-Ākhyāna) — Yuga-wise Origins and Measurements of Beings

本章以苏多(Sūta)之口宣说,论四瑜伽(caturyuga)中诸类众生如何次第出现,以及随瑜伽之势而变的身量尺度(utsedha/身高)与诸种能力。经文语体偏技术性:先分列诸生类,如阿修罗系(āsurī)、蛇族/龙蛇(sarpa/pannaga)、乾闼婆(gandharva)、毗舍遮系(paiśācī)、夜叉(yakṣa)、罗刹(rākṣasa),继而以“指量”(aṅgula)为准,说明比例与度量。章中指出随瑜伽而递减(hrāsa)之理,并比较天众/阿修罗与人类之身量,又旁及牲畜、象与树木等动物植物的尺度。此论可视为宇宙人类学:身量与卓越(含智慧 buddhi 之超胜)被视作法(dharma)随时序起伏之征象,从而贯通时间循环之教与世间可见之形相。

Shlokas

Verse 1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे चतुर्युगाख्यानं नामैकत्रिंशत्तमो ऽध्यायः सूत उवाच युगेषु यास्तु जायन्ते प्रजास्ता मे निबोधत / आसुरी सर्पगान्धर्वा पैशाची यक्षराक्षसी

如是,在《圣·梵卵大往世书》中,风神婆由所宣说的前分第二附章之中,有名为《四劫叙说》的第三十一章。苏多说道:“诸劫之中所出生的众生,请听我说:阿修罗类、龙蛇类、乾闼婆类、毗舍遮类,以及夜叉与罗刹女类。”

Verse 2

यस्मिन्युगे च संभूति स्तासां यावच्च जीवितम् / पिशाचासुरगन्धर्वां यक्षराक्षसपन्नगाः

我将说明:他们在何劫出现,其寿命长短如何——毗舍遮、阿修罗、乾闼婆、夜叉、罗刹与盘那伽(龙蛇族)。

Verse 3

परिणाहोच्छ्रयैस्तुल्या जायन्ते ह कृते युगे / षण्णवत्यङ्गुलो त्सेधो ह्यष्टानां देवजन्मनाम्

在克利多劫中,他们出生时周匝与身高相称;八类天生之众,其身高为九十六指量(aṅgula)。

Verse 4

स्वेनाङ्गुलप्रमाणेन निष्पन्नेन च पौष्टिकात् / एतत्स्वाभाविकं तेषां प्रमाणमिति कुर्वते

他们以自身的指量为度——由滋养而成就——来确定尺寸;此即被视为他们的自然尺度。

Verse 5

मनुष्या वर्तमानास्तु युगं संध्याशकेष्विह / देवासुरप्रमाणं तु सप्तसप्तङ्गुलादसत्

至于此处处于“交界期”(sandhyā)诸劫中的人类,其尺度如此;而天神与阿修罗的尺度则每次减少七指量、又七指量。

Verse 6

अङ्गुलानां शतं पूर्णमष्टपञ्चाशदुत्तरम् / देवासुरप्रमाणं तु उच्छ्रयात्कलिजैः स्मृतम्

以指量计,满一百又加五十八:此为天神与阿修罗之身高尺度,乃迦梨时代之人所传记。

Verse 7

चत्वारश्चाप्यशीतिश्च कलिजैरङ्गुलैः स्मृतः / स्वेनाङ्गुलिप्रमाणेन ऊर्द्ध्वमापादमस्तकात्

依迦梨时代之指量,称为四加八十(八十四);以自身指量为准,自足至顶向上量度。

Verse 8

इत्येष मानुषोत्सेधो ह्रसतीह युगांशके / सर्वेषु युगकालेषु अतीतानागतेष्विह

如是,人类身量在此随诸劫分而渐减;于一切劫时之中,无论过去或未来,皆复如此。

Verse 9

स्वेनाङ्गुलिप्रमाणेन अष्टतालः स्मृतो नरः / आपादतलमस्तिष्को नवतालो भवेत्तु यः

以自身指量为准,人称八“塔拉”;若自足底量至头顶者,则为九“塔拉”。

Verse 10

संहता जानुबाहुस्तु स सुरैरपि पूज्यते / गवाश्वहस्तिनां चैव महिष स्यावरात्मनाम्

其臂匀称而下垂至膝者,亦为诸天所敬;此等相亦被视为牛、马、象、水牛等诸类“稳固之身”众生中的上相。

Verse 11

कर्मणैतेन विज्ञेये ह्रासवृद्धी युगे युगे / षट्सप्तत्यङ्गुलोत्सेधः पशूनां ककुदस्तु वै

凭此业之尺度,可知诸劫之中盛衰增减;诸兽之“卡库达”(隆背之峰)实说高七十六指量。

Verse 12

अङ्गुलाष्टशतं पूर्णमुत्सेधः करिणां स्मृतः / अङ्गुलानां सहस्रं तु चत्वारिंशाङ्गुलैर्विना

象之身高,传说为整整八百指量;又有一说为一千指量,但须减去四十指量。

Verse 13

पञ्चाशता यवानां च उत्सेधः शाखिनां स्मृतः / मानुषस्य शरीरस्य सन्निवेशस्तु यादृशः

有枝之树,其高度传为五十“耶婆”;而人身之形制与布置(sanniveśa)如何,亦将如是说明。

Verse 14

तल्लक्षणस्तु देवानां दृश्येत तत्त्वदर्शनात् / बुद्ध्यातिशययुक्तश्च देवानां काय उच्यते

由真理之观(tattva-darśana),可见诸天之相;具足卓绝智慧者之身,称为诸天之“身”(kāya)。

Verse 15

तथा सातिशयस्छैव मानुषः काय उच्यते / इत्येते वै परिक्रान्ता भावा ये दिव्यमानुषाः

同样,具殊胜(sātiśaya)之人身亦称为“身”(kāya);如是,诸般兼具天与人的境态,已悉皆陈述。

Verse 16

पशूनां पक्षिणां चैव स्थावराणां च सर्वशः / गावो ह्यजावयो ऽश्वाश्च हस्तिनः पक्षिणो नगाः

在诸兽、诸鸟以及一切不动之类中:牛、山羊与绵羊、马、象、飞禽与群山,皆悉具足。

Verse 17

उपयुक्ताः क्रियास्वेते यज्ञियास्विह सर्वशः / देवस्थानेषु जायन्ते तद्रूपा एव ते पुनः

凡在此世于祭祀(yajña)诸行中被充分役使者,复于诸神之处所再生,仍具彼等之形。

Verse 18

यथाशयोपभोगास्तु देवानां शुभमूर्त्तयः / तेषां रूपानुरूपैस्तु प्रमाणैः स्थाणुजङ्गमैः

诸神之吉祥形相,随其意趣与受用而现;诸不动与动类众生,亦以与其形相相称之尺度而成。

Verse 19

मनोज्ञैस्तत्र भावैस्ते सुखिनो ह्युपपेदिरे / अतः शिष्टान्प्रवक्ष्यामि सतः साधूंस्तथैव च

彼处以悦意之境,他们得以安乐而至;因此我今将宣说诸有礼法者、诸善人以及诸修行圣者。

Verse 20

सदिति ब्रह्मणः शब्दस्तद्वन्तो ये भवन्त्युत / साजात्याद्ब्रह्मणस्त्वेते तेन सन्तः प्रचक्षते

“萨特(sat)”乃梵(Brahman)之名;具此“sat”者,以与梵同类同德之故,故称为“圣者(santa)”。

Verse 21

दशात्मके ये विषये कारणे चाष्टलक्षणे / न क्रुध्यन्ति न त्दृष्यन्ति जितात्मानस्तु ते स्मृताः

处于十重境界与具八相之因中,而不嗔怒、不贪渴者,经典称之为“自胜者”(制心者)。

Verse 22

सामान्येषु तु धर्मेषु तथा वैशेषिकेषु च / ब्रह्मक्षत्रविशो यस्माद्युक्तास्तस्मा द्द्विजातयः

在共通之法与别异之法中,由于婆罗门、刹帝利与吠舍皆与之相应,因此称为“二生族”(dvijāti)。

Verse 23

वर्णाश्रमेषु युक्तस्य स्वर्गतौ सुखचारिमः / श्रौतस्मार्तस्य धर्मस्य ज्ञानाद्धर्मज्ञ उच्यते

安住于种姓与住期之法而乐行天道者,由于通晓吠陀祭仪之法与传承之法(śrauta、smārta),故称为“知法者”(dharmajña)。

Verse 24

विद्यायाः साधनात्साधुर्ब्रह्मचारी गुरोर्हितः / गृहाणां साधनाच्चैव गृहस्थः साधुरुच्यते

以求学修持而为师长之利者,梵行者称为“善士”;以经营家业而修持者,居士亦称为“善士”。

Verse 25

साधनात्तपसो ऽरण्ये साधुर्वैखानसः स्मृतः / यतमानो यतिः साधुः स्मृतो योगस्य साधनात्

在林中修苦行者,毗迦那萨(Vaikhānasa)被忆为“善士”;以瑜伽修持而精进者,出家行者(yati)亦被忆为“善士”。

Verse 26

एवमाश्रमधर्माणां साधनात्साधवः स्मृताः / गृहस्थो ब्रह्मचारी च वानप्रस्थो यतिस्तथा

如此,由修持诸住期(四阿湿罗摩)之法而被称为善士:居家者(gṛhastha)、梵行者(brahmacārī)、林居者(vānaprastha)以及遁世行者(yati)。

Verse 27

अथ देवा न पितरो मुनयो न च मानुषाः / अयं धर्मो ह्ययं नेति विन्दते भिन्नदर्शनाः

于是,既非诸天,亦非祖灵(pitṛ),亦非牟尼仙人,亦非世人;见解各异者便说:“此为法(dharma),此非”,各自作出判定。

Verse 28

धर्माधर्माविहप्रोक्तौ शब्दावेतौ क्रियात्मकौ / कुशलाकुशलं कर्म धर्माधर्माविह स्मृताम्

此处所说“法”(dharma)与“非法”(adharma)二词,皆属行为之名;善业(kuśala)与不善业(akuśala)即被记为法与非法。

Verse 29

धारणर्थो धृतिश्चैव धातुः शब्दे प्रकीर्त्तितः / अधारणामहत्त्वे च अधर्म इति चोच्यते

词根 dhṛ 被称为“支撑、坚持”之义;而不支撑、失其崇高者,即称为“非法”(adharma)。

Verse 30

अथेष्टप्रापको धर्म आचार्यैरुपदिश्यते / अधर्मश्चानिष्टफलोह्याचार्यैरुपदिश्यते

诸阿阇梨教示:法(dharma)能成就所愿之果;非法(adharma)则结不愿之果——此亦为师长之训。

Verse 31

वृद्धाश्चालोलुपाश्चैव त्वात्मवन्तो ह्यदांभिकाः / सम्यग्विनीता ऋजवस्तानाचार्यान्प्रजक्षते

凡年长而不贪、能自持而无矫饰,且受教端正、性情直诚者,众人皆称之为阿阇梨(ācārya)。

Verse 32

स्वयमाचरते यस्मादाचारं स्थापयत्यपि / आचिनोति च शास्त्राणि आचार्यस्तेन चोच्यते

因为他自身奉行正行,又能建立规范,并汇集研习诸论典(śāstra),所以称为阿阇梨(ācārya)。

Verse 33

धर्मज्ञैर्विहितो धर्मः श्रौतः स्मार्त्तो द्विधा द्विजैः / दाराग्निहोत्रसम्बन्धाद्द्विधा श्रौतस्य लक्षणम्

通晓法者所制定的法,对二生者分为两类:依吠陀的“施劳多”(śrauta)与依传统的“斯摩尔塔”(smārta)。而施劳多之相亦为二种,由与妻(dārā)及火供(agnihotra)的关联而立。

Verse 34

स्मार्त्तो वर्णाश्रमाचारैर्यमैः सनियमैः स्मृतः / पूर्वेभ्यो वेदयित्वेह श्रौतं सप्तर्ष यो ऽब्रुवन्

斯摩尔塔(smārta)之法,被忆持为依种姓与住期(varṇa-āśrama)的行持,以及诸“制戒”(yama)与“行戒”(niyama)。至于施劳多(śrauta)之法,七圣(Saptarṣi)在告知先贤之后,于此宣说。

Verse 35

ऋचो यजूंसामानि ब्रह्मणो ऽङ्गानि च श्रुतिः / मन्वन्तरस्यातीतस्य स्मृत्वाचारान्मनुर्जगौ

《梨俱》《夜柔》《娑摩》三部吠陀之“闻传”(śruti),乃梵(Brahman)之肢分。忆念往昔一劫(manvantara)之行仪,摩奴遂加以宣说。

Verse 36

तस्मा त्स्मार्त्तः धर्मो वर्णाश्रमविभाजकः / स एष विविधो धर्मः शिष्टाचार इहोच्यते

因此,依《斯摩利提》之法,分判种姓与住期;此多样之法在此称为“善人之行”(śiṣṭācāra)。

Verse 37

शेषशब्दः शिष्ट इति शेषं शिष्टं प्रचक्षते / मन्वन्तरेषु ये शिष्टा इह तिष्ठन्ति धार्मिकाः

“余”(śeṣa)一词即“善人”(śiṣṭa)之义;凡存留者称为善人。在诸摩奴劫中,持法的善人常住于此。

Verse 38

मनुः सप्तर्षयश्चैव लोकसंतानकारमात् / धर्मार्थं ये च तिष्ठन्ति ताञ्छिष्टान्वै प्रचक्षते

摩奴与七圣仙——为使世间传续——凡为护持正法而安住者,实称为“善人”(śiṣṭa)。

Verse 39

मन्वादयश्च ये ऽशिष्टा ये मया प्रागुदीरिताः / तैः शिष्टैश्चरितो धर्मः सम्यगेव युगे युगे

如摩奴等诸善人,我先前已述;由彼等所行之法,历世历劫(诸瑜伽)皆得正当延续。

Verse 40

त्रयी वार्त्ता दण्डनीतिरिज्या वर्णाश्रमास्तथा / शिष्टैराचर्यते यस्मान्मनुना च पुनः पुनः

三部吠陀(trayī)、生业之道(vārttā)、刑政之法(daṇḍanīti)、祭祀供奉(ijyā)以及种姓住期之制——皆为善人所行,亦为摩奴屡屡奉行。

Verse 41

पूर्वैः पूर्वगतत्वाच्च शिष्टाचारः स सात्वतः / दानं सत्यं तपो ज्ञानं विद्येज्या व्रजनं दया

由于先贤先行而传承,这就是清净的“师范之行”(śiṣṭācāra):布施、真实、苦行、智慧、学问、祭祀供奉(ijyā)、朝礼圣地(tīrtha)与慈悲。

Verse 42

अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् / शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयस्तु वै

这八种行持就是“师范之行”(śiṣṭācāra)的标志;因为贤圣皆依此而行——摩奴以及确然的七仙(Saptarṣi)。

Verse 43

मन्वन्तरेषु सर्वेषु शिष्टाचारस्ततः स्मृतः / विज्ञेयः श्रवणाच्छ्रौतः स्मरणात्स्मार्त्त उच्यते

在一切摩奴纪(manvantara)中,师范之行(śiṣṭācāra)皆如此被传述:由闻听圣启(śruti)而知者名为“施劳陀”(śrauta);由忆持圣传(smṛti)而知者称为“斯玛尔塔”(smārta)。

Verse 44

इज्यावेदात्मकः श्रौतः स्मार्त्तो वर्णाश्रमात्मकः / प्रत्यङ्गानि च वक्ष्यामि धर्मस्येह तु लक्षणम्

施劳陀(śrauta)之法以祭祀供奉(ijyā)与吠陀为体;斯玛尔塔(smārta)之法以种姓与住期( varṇa–āśrama )为体。今我亦将于此宣说法(dharma)之诸支分与其相。

Verse 45

दृष्ट्वा तु भूतमर्थं यः पृष्टो वै न निगू हति / यथा भूतप्रवादस्तु इत्येतत्सत्यलक्षणम्

凡亲见事实真相者,被问及时不加隐匿,如其所发生而如实宣说——此即“真实”(satya)之相。

Verse 46

ब्रह्मचर्यं जपो मौनं निराहारत्वमेव च / इत्येतत्तपसो रूपं सुघोरं सुदुरा सदम्

梵行、持诵、默然与断食——此即苦行之相,恒常极其严峻而难行。

Verse 47

पशूनां द्रव्यहविषामृक्सामयजुषां तथा / ऋत्विजां दक्षिणानां च संयोगो यज्ञ उच्यते

祭牲、供品(haviṣ)、《梨俱》《娑摩》《夜柔》之咒颂、祭司(ṛtvij)与酬谢(dakṣiṇā)相合,名为“祭祀”(yajña)。

Verse 48

आत्मवत्सर्वभूतेषु या हितायाहिताय च / प्रवर्त्तन्ते समा दृष्टिः कृत्स्नाप्येषा दया स्मृता

以众生如己之心,于利与害皆以平等之见而行——此全体即称为“慈悲”(dayā)。

Verse 49

आक्रुष्टो निहतो वापि नाक्रोशेद्यो न हन्ति च / वाङ्मनःकर्मभिर्वेत्ति तितिक्षैषा क्षमा स्मृता

纵被辱骂或殴打,亦不回骂、不加害;以言、意、行而忍受——此忍耐即名“宽恕”(kṣamā)。

Verse 50

स्वामिना रक्ष्यमाणानामुत्सृष्टानां च संभ्रमे / परस्वानामनादानमलोभ इति कीर्त्यते

无论财物为主人所守,或在慌乱中被遗弃,不取他人之财,即称“无贪”(alobha)。

Verse 51

मैथुनस्यासमाचारो न चिन्ता नानुजल्पनम् / निवृत्तिर्ब्रह्मचर्यं तदच्छिद्रं तप उच्यते

不行淫欲,不起忧虑,不作妄语;收摄诸根即是梵行,此称无缺之苦行。

Verse 52

आत्मार्थं वा परार्थं वा चेन्द्रियाणीह यस्य वै / मिथ्या न संप्रवर्त्तन्ते शामस्यैतत्तु लक्षमम्

无论为己或为人,若其诸根在此世不趋向虚妄之行——此即“奢摩”(寂静)的标志。

Verse 53

दशात्मके यो विषये कारणे चाष्टलक्षणे / न क्रुद्ध्येत प्रतिहतः स जितात्मा विभाव्यते

于十类境界与具八相之因中,即使受阻亦不嗔怒者——当知其为“胜己者”(自制之人)。

Verse 54

यद्यदिष्टतमं द्रव्यं न्यायेनैवागतं च यत् / तत्तद्गुणवते देयमित्येतद्दानलक्षणम्

凡以正道所得之至爱财物,当施与具德而相应之人——此即布施(dāna)之相。

Verse 55

दानं त्रिविधमित्येतत्कनिष्ठज्येष्ठमध्यमम् / तत्र नैश्रेयसं ज्येष्ठं कनिष्ठं स्वार्थसिद्धये

布施有三种:下、中、上。其中上等布施导向“奈施瑞耶萨”(究竟善),下等布施则为成就私利。

Verse 56

कारुण्यात्सर्वभूतेषु संविभागस्तु मध्यमः / श्रुतिस्मृतिभ्यां विहितो धर्मो वर्माश्रमात्मकः

以慈悲遍及一切众生而行的适当分配,即为中道;由《闻传》(Śruti)与《忆传》(Smṛti)所制定之法(dharma),具种姓与住期(varṇa–āśrama)之体。

Verse 57

शिष्टाचाराविरुद्धश्च धर्मः सत्साधुसंमतः / अप्रद्वेषोह्यनि ष्टेषु तथेष्टस्याभिनन्दनम्

不违背贤善之行、为圣者善人所认可者即为法;于不喜之事不生憎恨,于所喜之事心怀赞叹。

Verse 58

प्रीतितापविषादेभ्यो विनिवृत्तिर्विरक्तता / संन्यासः कर्मणां न्यासः कृतानामकृतैः सह

远离喜悦、热恼与忧伤,即名离欲;所谓出离(saṃnyāsa),乃将诸业放下——已作与未作皆同舍。

Verse 59

कुशलाकुशलानां तु प्रहाणं न्यास उच्यते / व्यक्ता ये विशेषास्ते विकारे ऽस्मिन्नचेतने

舍离善与不善,名为“安置/放下”(nyāsa);一切显现的差别,皆在此无知觉之变异中。

Verse 60

चेतनाचेतनान्यत्वविज्ञानं ज्ञानमुच्यते / प्रत्यङ्गानां तु धर्मस्य त्वित्येतल्लक्षणं स्मृतम्

了知有觉(cetana)与无觉(acetana)之差别,称为“智”(jñāna);此即为法(dharma)诸支分的相状,斯为《忆传》(Smṛti)所记。

Verse 61

ऋषिभिर्धर्मतत्त्वज्ञैः पूर्वं स्वायंभुवे ऽन्तरे / अत्र वो वर्णयिष्यामि विधिं मन्वन्तरस्य यः

通晓法义真谛的圣仙们,早在自生者(Svayambhuva)摩奴劫中已宣说其法;今我在此为诸君叙述该摩奴劫之仪轨。

Verse 62

तथैव चातुर्हेत्रस्य चातुर्विद्यस्य चैव हि / प्रतिमन्वन्तरे चैव श्रुतिरन्या विधीयते

同样,关于四因(cāturhetra)与四学(cāturvidyā),在每一摩奴劫中,所立之闻传(śruti,吠陀传承)亦各不相同。

Verse 63

ऋचो यजूंषि समानि यथा च प्रतिदैवतम् / आभूतसंप्लवस्यापि वर्ज्यैकं शतरुद्रियम्

《梨俱》《夜柔》《娑摩》诸颂,以及随诸神而设的诵读,皆存续至众生大溃灭(bhūta-saṃplava,劫尽);唯独一部《百鲁陀经》(Śatarudrīya)例外。

Verse 64

विधिर्हैत्रस्तथा स्तोत्रं पूर्ववत्संप्रवर्तते / द्रव्यस्तोत्रं गुणस्तोत्रं फलस्तोत्रं तथैव च

海特罗之仪与诸赞颂亦如往昔而行:供品赞(dravya-stotra)、德性赞(guṇa-stotra)、果报赞(phala-stotra)亦复如是。

Verse 65

चतुर्थमाभिजनकं स्तोत्रमेतच्चतुर्विधम् / मन्वन्तरेषु सर्वेषु यथा देवा भवन्ति ये

此为第四种“生族赞”(ābhijanaka-stotra),共分四类;在一切摩奴劫中,皆随当时所现诸天而施行。

Verse 66

प्रवर्तयति तेषां वै ब्रह्मा स्तोत्रं चतुर्विधम् / एवं मन्त्रगणानां तु समुत्पत्तिश्चतुर्विधा

梵天为他们开显四种赞颂之偈;同样,诸咒群的生起亦分为四类。

Verse 67

अथर्वगर्यजुषां साम्नां वेदेष्विह पृथक्पृथक् / ऋषीणां तप्यतामुग्रं तपः परमदुष्करम्

在此诸吠陀中,阿闼婆、梨俱、夜柔与娑摩各自分明;修苦行的仙人所行猛烈之苦行,极其难行。

Verse 68

मन्त्राः प्रादुर्बभूवुर्हि पूर्वमन्वन्तरेष्विह / असंतोषाद्भया द्दुःखात्सुखाच्छोकाच्च पञ्चधा

诸咒在此于往昔诸摩奴劫中显现;由不满足、恐惧、痛苦、快乐与忧伤而起,分为五类。

Verse 69

ऋषीणां तारकाख्येन दर्शनेन यदृच्छया / ऋषीणां यदृषित्वं हि तद्वक्ष्यामीह लक्षणैः

诸仙人因缘偶得名为“多罗迦”的观见;仙人之所以为仙人的本质,我将在此以诸相加以宣说。

Verse 70

अतीतानागतानां च पञ्चधा त्वृषिरुच्यते / अतस्त्वृषीणां वक्ष्यामि तत्र ह्यार्षसमुद्भवम्

就过去与未来而言,仙人被称为五类;因此我将在彼处宣说仙人之“阿尔沙”源起。

Verse 71

गुणसाम्ये वर्त्तमाने सर्वसंप्रलये तदा / अविभागे तु वेदानामनिर्देश्ये तमोमये

当三德(guṇa)均衡而大劫归灭(总毁)之时,诸吠陀亦不分判;彼境不可言说,尽为昏暗之性(tamas)。

Verse 72

अबुद्धिबूर्वकं तद्वै चेतनार्थे प्रवर्त्तते / चेतनाबुद्धिपूर्वं तु चेतनेन प्रवर्त्तते

彼理初起时,未以前导之觉知(buddhi)而趋向于觉性之目的;然若以觉性与觉知为先,则由觉者自身而令其运转。

Verse 73

प्रवर्त्तते तथा द्वौ तु यथा मत्स्योदके उभे / चेतनाधिष्ठितं सत्त्वं प्रवर्त्तति गुणात्मकम्

二者亦如水中之鱼与水,同在而行;由觉性所依持之萨埵(sattva)以诸德之性而运作。

Verse 74

कारणत्वात्तथा कार्यं तदा तस्य प्रवर्त्तते / विषयो विषयित्वाच्च अर्थेर्ऽथत्वात्तथैव च

以其为因,故其果于彼时发动;境由境性而成,义由义性而立,亦复如是显现。

Verse 75

कालेन प्रापणीयेन भेदास्तु करणात्मकाः / संसिध्यन्ति तदा व्यक्ताः क्रमेण महदादयः

随应至之时而来,具器官性之差别遂生;于是“大”(mahat)等诸原理次第显现而成就。

Verse 76

महतश्चाप्यहङ्कारस्तस्माद्भूतेद्रियाणि च / भूतभेदाश्च भूतेभ्यो जज्ञिरे स्म परस्परम्

由大(Mahat)而生我慢(Ahaṅkāra);由此显现诸大种(bhūta)与诸根(indriya)。又由诸大种彼此相生,生起种种差别。

Verse 77

संसिद्धकार्यकरणः सद्य एव व्यवर्त्तत / यथोल्मुकात्तु त्रुटयः एककालाद्भवन्ति हि

具足作用与器官者,刹那间便运转起来;如同从炽热火炭中,火星在同一瞬间迸出。

Verse 78

तथा विवृत्ताः क्षेत्रज्ञाः कालेनैकेन कारणात् / यथान्धकारे खद्योतः सहसा संप्रदृश्यते

同样地,诸“知田者”(kṣetrajña)由因在同一刹那显现;如同黑暗中萤火忽然可见。

Verse 79

तथा विवृत्तो ह्यव्यक्तात्खद्योत इव सञ्ज्वलन् / स माहन्सशरीरस्तु यत्रैवायमवर्त्तत

同样地,他从未显(Avyakta)中显出,灼然如萤火;而那位“大者”(Mahān)连同其身,就安住在他开始运转之处。

Verse 80

तत्रैव संस्थितो विद्वान्द्वारशालामुखे विभुः / महांस्तु तमसः पारे वैलक्षण्याद्विभाव्यते

就在那儿,在门廊入口处,那位遍在的智者安住不动;而“大原理”(Mahat-tattva)则因其殊胜之相,被了知为超越昏暗(tamas)之彼岸。

Verse 81

तत्रैव संस्थिते विद्वांस्तमसोंऽत इति श्रुतिः / बुद्धिर्विवर्त्तमानस्य प्रादुर्भूता चतुर्विधा

就在彼处,那位智者安住不动,圣典《闻传》(Śruti)说:“此为黑暗之终”;随变之觉慧显现为四种。

Verse 82

ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयम् / सांसिद्धिकान्यथैतानि विज्ञेयानि नरस्य वै

知识、离欲、自在威德(aiśvarya)与法(dharma)——此四者;当知皆为人之本然成就。

Verse 83

स महात्मा शरीरस्य वैवर्त्तात्सिद्धिरुच्यते / अनुशेते यतः सर्वान्क्षेत्रज्ञानमथापि वा

彼大我因身之变现而称为“成就”;因为他潜居于一切众生之内——他亦即“知田者”(kṣetrajña)。

Verse 84

पुरिषत्वाच्च पुरुषः क्षत्रेज्ञानात्स उच्यते / यस्माद्वुद्ध्यानुशेते च तस्माद्वोधात्मकः स वै

因居于“城”(身之城)而名为“补卢沙”(Puruṣa);因知“田”(身之境)而称“知田者”(Kṣetrajña);又因与觉慧同潜而住,故其本性即为觉知(bodha)。

Verse 85

संसिद्धये परिगतं व्यक्ताव्यक्तमचेतनम् / एवं विवृत्तः क्षेत्रज्ञः क्षेत्रज्ञानाभिसंहितः

为臻圆满,他遍摄显与不显,乃至无觉之物;如是展开的“知田者”与“知田之智”相应相合。

Verse 86

विवृत्तिसमकालं तु बुद्ध्याव्यक्तमृषिः स्वयम् / परं ह्यर्षयते यस्मात्परमर्षित्वमस्य तत्

在展开(vivṛtti)之时,此圣仙以自心之觉慧显发未显之至上;由于他令至上显明,故被忆念为“至上圣仙”(Paramarṣi)。

Verse 87

गत्यर्थादृषतेर्धातोर्नाम निर्वृतिरादितः / यस्मादेव स्वयं भूतस्तस्माच्चाप्यृषिता स्मृता

由表“行进、运动”之义的词根ṛṣ,最初立名为“寂息/归寂”(nirvṛti);又因其自然而成,亦被忆为“成圣仙者”(ṛṣitā)。

Verse 88

ईश्वरात्स्वयमुद्भूता मानसा ब्रह्मणः सुताः / यस्मादुत्पद्यमानैस्तैर्महान्परिगतः परः

他们是从自在天(Īśvara)自生而出的梵天意生之子;当他们生起之时,那伟大的至上者遍覆四方。

Verse 89

यस्माद-षन्ति ते धीरा महान्तं सर्वतो गुणैः / तस्मान्महर्षयः प्रोक्ता बुद्धेः परम दर्शिना

由于这些坚毅者以诸德从各方面使“大者”显明并赞颂之,因此那以觉慧见至上的人称他们为“摩诃圣仙”(Mahārṣi)。

Verse 90

ईश्वराणां सुतास्तेषां मानसा औरसाश्च वै / अहङ्कारं तपश्चैव ऋषन्ति ऋषितां गताः

他们是诸自在天之子,既有意生亦有亲生;他们调伏我慢(ahaṅkāra)并修持苦行(tapas),已达圣仙之境。

Verse 91

तस्मात्सप्तर्षयस्ते वै भूतादौ तत्त्वदर्शनात् / ऋषिपुत्रा ऋषीकास्तु मैथुनाद्गर्भसंभवाः

因此,那些七圣仙(Saptarṣi)因在万有初起之时洞见真谛而著称;而被称为“仙人之子”的Ṛṣīka,则由交合而成胎、从胎中出生。

Verse 92

तन्मात्राणि च सत्यं च ऋषन्ते ते महौजसः / सप्तषर्यस्त तस्ते च परसत्यस्य दर्शनाः

那些大威光的圣仙探究诸“微细元素”(tanmātra)与真实;他们这七圣仙,乃是见证至上真理者。

Verse 93

ऋषीकाणां सुतास्ते स्युर्विज्ञेया ऋषिपुत्रकाः / ऋषन्ति ते ऋतं यस्माद्विशेषांश्चैव तत्त्वतः

应知Ṛṣīka之子名为“Ṛṣiputraka”。因为他们探求ṛta(法之真理)以及依本体(tattva)而显的种种差别。

Verse 94

तस्मात्सप्तर्षयस्तेपि श्रुतेः परमदर्शनात् / अव्यक्तात्मा महानात्माहङ्कारात्मा तथैव च

因此,这些七圣仙亦凭借《闻传》(Śruti)的至上观照而见:未显之我(Avyakta)、大我(Mahān),以及我执之我(Ahaṅkāra)。

Verse 95

भूतात्मा चेन्द्रियात्मा च तेषां तज्ज्ञानमुच्यते / इत्येता ऋषिजातीस्ता नामभिः पञ्च वै शृणु

“Bhūtātman(众生之我)”与“Indriyātman(诸根之我)”,这便称为他们的知见。如此即为诸类圣仙;现在请听他们的五个名号。

Verse 96

भृगुर्मरीचिरत्रिश्च ह्यङ्गिराः पुलहः क्रतुः / मनुर्दक्षो वसिष्टश्च पुलस्त्यश्चेति ते दश

婆利古、摩利支、阿特里、安吉罗、普罗诃、克罗图、摩奴、达刹、婆悉吒与普罗私底耶——此为十位大圣仙。

Verse 97

ब्रह्मणो मानसा ह्येते उद्भूताः स्वयमीश्वराः / परत्वेनर्षयो यस्मात्स्मृतास्तस्मान्महर्षयः

他们由梵天意念所生,自具主宰之神性;因被忆为至高的圣仙,故称“大圣仙”(摩诃利希)。

Verse 98

ईश्वराणां सुता ह्येते ऋषयस्तान्निबोधत / काव्यो बृहस्पतिश्चैव कश्यपश्व्यवनस्तथा

这些圣仙乃诸自在天之子,当知:迦毗耶(舒克罗)、布里哈斯帕提、迦叶波与毗耶婆那。

Verse 99

उतथ्यो वामदेवश्च अपा स्यश्चोशिजस्तथा / कर्दमो विश्रवाः शक्तिर्वालखिल्यास्तथार्वतः

又有乌塔提耶、婆摩提婆、阿帕斯耶、乌希吉;迦尔达摩、毗湿罗婆、沙克提;以及婆罗佉利耶众与阿尔伐多。

Verse 100

इत्येते ऋषयः प्रोक्तास्तपसा चर्षितां गताः / ऋषिपुत्रानृ षीकांस्तु गर्भोत्पन्नान्निबोधत

以上诸圣仙已宣说:他们以苦行而证得圣仙之位;如今亦当知由胎藏所生的圣仙之子与女圣仙(利希迦)。

Verse 101

वत्सरो नगृहूश्चैव भरद्वाजस्तथैव च / ऋषिदीर्घतमाश्चैव बृहदुक्थः शरद्वतः

瓦特萨罗、那格里胡、婆罗堕阇;以及圣仙迪尔迦塔玛、布里哈杜克塔、舍罗陀伐多——亦皆被称述。

Verse 102

वाजश्रवाः शुचिश्चैव वश्याश्वश्च पराशरः / दधीचः शंशपाश्चैव राजा वैश्रवणस्तथा

瓦阇室罗婆、舒奇、瓦什雅阿湿婆、波罗舍罗;以及达提遮、商沙婆与毗湿罗伐那王——亦被提及。

Verse 103

इत्येते ऋषिकाः प्रोक्तास्ते सत्यादृषितां गताः / ईश्वरा ऋषयश्चैव ऋषिकाश्चैव ते स्मृताः

如是,这些被称为“圣仙(ṛṣika)”;他们已达由真理之见而成的圣仙境地。人们忆念他们为具神圣本性的仙人、圣仙。

Verse 104

एते मन्त्रकृतः सर्वे कृत्स्नशस्तान्निबोधत / भृगुः काव्यः प्रचेताश्च ऋचीको ह्यात्मवानपि

他们全都是造作圣咒者——诸位听者,当悉知其全。婆利古、迦毗耶、普罗切多斯,以及心志自持的利支迦——亦在其中。

Verse 105

और्वाथ जमदग्निश्च विदः सारस्वतस्तथा / आर्ष्टिषेणो युधाजिच्च वीतहव्यसुवर्चसौ

又有奥尔瓦、阇摩达格尼、毗陀、萨罗娑伐多;以及阿尔什提舍那、尤达吉、毗多哈毗耶与苏伐尔恰萨——他们亦为咒作者。

Verse 106

वैन्यः पृथुर्दिवोदासो बाध्यश्वो गृत्सशौनकौ / एकोनविशतिर्ह्येतेभृगवो मन्त्रवादितः

毗因耶·普利图、提沃达萨、巴迪亚什瓦、格里察与绍那迦——这些被忆为精通咒法的婆利古族圣裔,共计十九位。

Verse 107

अङ्गिरा वैद्यगश्चैव भरद्वाजो ऽथ बाष्कलिः / ऋतवाकस्तथा गर्गः शिनिः संकृतिरेव च

安吉罗、维迪亚伽、婆罗陀婆阇、巴什迦利、利陀瓦克、伽尔伽、尸尼与僧迦利底——亦皆为圣传中当忆念之名。

Verse 108

पुरुकुत्सश्च मान्धाता ह्यंबरीषस्तथैव च / युवनाश्वः पौरकुत्सस्त्रसद्दस्युश्च दस्युमान्

普鲁库察、曼陀诃多、安婆利沙、尤瓦那什瓦、保罗库察、特拉萨达斯尤与达斯尤曼——皆以达摩之荣名而著称。

Verse 109

आहार्यो ह्यजमीढश्च तुक्षयः कपिरेव च / वृषादर्भो विरूपाश्वः कण्वश्चैवाथ मुद्गलः

阿哈里亚、阿阇弥荼、图克沙耶、迦毗、弗里沙达尔婆、毗卢帕什瓦、迦那婆与牟陀伽罗——亦列入福德圣名之传承。

Verse 110

उतथ्यश्च सनद्वाजस्तथा वाजश्रवा अपि / अयास्यश्चक्रवर्त्ती चवामदेवस्तथैव च

乌塔提亚、萨那德瓦阇、瓦贾什拉瓦、阿雅斯亚、转轮王与瓦玛提婆——亦皆在神圣世系中受敬而被忆念。

Verse 111

असिजो बृहदुक्थश्च ऋषिर्दीर्घतमास्तथा / कक्षीवांश्च त्रयस्त्रिंशत्स्मृता ह्याङ्गिरसा वराः

阿西若、布里哈杜克塔、圣仙迪尔伽塔玛,以及卡克希梵——这些被追念为三十三位最尊胜的安吉罗萨圣仙。

Verse 112

एते मन्त्रकृतः सर्वे काश्यपांस्तु निबोधत / काश्यपश्चैव वत्सारो नैध्रुवो रैभ्य एव च

这些皆为迦叶一系的咒颂作者;当知:迦叶、瓦特萨罗、奈德鲁瓦与赖比亚。

Verse 113

असितो देव लश्चैव षडेते ब्रह्मवादिनः / अत्रिरर्वसनश्चैव श्यावाश्वश्च गविष्ठिरः

阿悉多与提婆罗——此等为六位宣说梵理者;又有阿特里、阿尔瓦萨那、湿耶瓦什瓦与伽维什提罗。

Verse 114

आविहोत्र ऋषिर्द्धीमांस्तथा पूर्वातिथिश्च सः / इत्येते चा त्रयः प्रोक्ता मन्त्रकारा महर्षयः

智者阿毗霍特罗圣仙与普尔瓦提提——如是,这三位大圣被称为咒颂的作者。

Verse 115

वसिष्ठश्चैव शक्तिश्च तथैव च पराशरः / चतुर्थ इन्द्रप्रमतिः पञ्चमश्च भरद्वसुः

瓦西什塔、沙克提与帕拉沙罗;第四为因陀罗普拉玛提,第五为婆罗德瓦苏。

Verse 116

षष्ठश्च मैत्रावरुणिः कुण्डिनः सप्तमस्तथा / इति सप्त वशिष्ठाश्च विज्ञेया ब्रह्मवादिनः

第六位为迈特罗伐鲁尼,第七位为昆迪那。如此当知这七位婆悉吒皆为宣说梵者。

Verse 117

विश्वामित्रस्तु गाधेयो देवरातस्तथोद्गलः / तथा विद्वान्मधुच्छन्दा ऋषिश्चान्यो ऽघमर्षणः

毗湿瓦密多(迦陀耶)、提婆罗多与乌德伽罗;又有智者摩度旃陀,以及另一位圣仙阿伽摩尔沙那。

Verse 118

अष्टको लोहितश्चैव कतः कोलश्च तावुभौ / देवश्रवास्तथा रेणुः पूरणो ऽथ धनञ्जयः

阿什塔迦与卢希多;又有迦多与拘罗二者;继而提婆室罗婆、勒努、补罗那与檀那阇耶。

Verse 119

त्रयोदशैते धर्मिष्ठा विज्ञेयाः कुशिकावराः / अगस्त्यो ऽयो दृढायुश्च विध्मवाहस्तथैव च

此十三位当知为最守法度的鸠尸迦族贤者;又有阿伽斯提耶、阿耶、坚寿(德里达阿尤)与维德摩婆诃。

Verse 120

ब्रह्मिष्ठागस्तपा ह्येते त्रयः परमकीर्त्तयः / मनुर्वैवस्वतश्चैव एलो राजा पुरूखाः

此三位坚住于梵、勤修苦行,名闻至高;又有毗婆斯瓦特·摩奴,以及国王埃罗与普鲁卡(亦被提及)。

Verse 121

क्षत्र्रियाणां चरावेतौ विज्ञेयौ मन्त्रवादिनौ / भलन्दनश्च वत्सश्च संकीलश्चैव ते त्रयः

在刹帝利之中,应知这两位“查罗”(氏族支系的开创者)为诵持真言者;而名为婆兰达那、伐蹉与僧吉罗者,共为三人。

Verse 122

एते मन्त्रकृतश्चैव वैश्यानां प्रवराः स्मृताः / इत्येषा नवतिः प्रोक्ता मन्त्रा यैरृषिभिः कृताः / ब्राह्यणाः क्षत्रिया वैश्या ऋषिपुत्रान्निबोधत

这些人被忆念为吠舍族中作成真言者与最胜的“普拉瓦拉”。如是,诸仙所作之真言共九十已宣说。婆罗门、刹帝利与吠舍啊,当按名了知诸仙之子。

Frequently Asked Questions

It explains Yuga-wise manifestation of different being-classes (asura, gandharva, piśāca, yakṣa, rākṣasa, sarpa/pannaga, etc.) and correlates Yuga phases with bodily measurements and decline/increase across time.

Aṅgula-based pramāṇa/utsedha (height and proportional standards), applied comparatively to devas/āsuras, humans, and also extended to animals (e.g., cattle/horse/elephant) and even trees.

Primarily cosmological and temporal: it operationalizes caturyuga theory by showing how embodied forms and capacities track Yuga conditions, rather than cataloging dynastic lineages.