
कैलास-मन्दाकिनी-स्वच्छोदा-लौहित्य-सरयू-उद्गमवर्णनम् (Kailāsa and the Origins of Mandākinī, Svacchodā, Lauhitya, and Sarayū)
本章为嵌入《普拉那》宇宙地理中的圣地地形目录。苏多叙述喜马拉雅后脉之中,凯拉萨山巍然屹立,为库毗罗(阿拉迦之主)与诸夜叉等眷属所居。山麓涌出吉祥清冷之水,并以一连串“萨罗”(圣湖)与其外泄之河,铺陈水系源流:名为“摩陀”的湖生出曼达吉尼河。继而列举南陀那林等天界景观,以及具药性或如宝石般的群山,使诸水安置于被神圣化的生态网络之中。又述月光山(Candraprabha)、日光山(Sūryaprabha)等,矿质辉耀;其山脚各有湖泊,流出斯瓦绰达河(Svacchodā)与劳希底耶河(Lauhitya)。文中亦点名守护与居住者(夜叉及其首领)及河岸森林,作为朝圣渡口(tīrtha)想象与“布瓦那—科沙”世界地图的“地名索引”。诸河横贯地轮,终归大海,将喜马拉雅的圣洁与宇宙整体的循环相贯通。
Verse 1
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे किंपुरुषादिवर्षवर्णनं नाम सप्तदशो ऽध्यायः सूत उवाच मध्ये हिमवतः पृष्ठे कैलासो नाम पर्वतः / तस्मिन्निवसति श्रीमान्कुबेरः सह राक्षसैः
如是,在《圣梵卵大摩诃往世书》中,风神所宣说的前分第二“附章足”里,有名为“金普鲁沙等诸洲之描述”的第十七章。苏多曰:在喜马伐特山脉中段之背,有一山名凯拉萨;其上吉祥的财主库毗罗与罗刹众同住。
Verse 2
अप्सरोनुचरो राजा मोदते ह्यलकाधिपः / कैलासपादात्संभूतं पुण्यं शीतजलं शुभम्
那位由天女(Apsarā)随侍的国王——阿罗迦之主——常怀欢喜;而从凯拉萨山足涌出清净、清凉、吉祥之水。
Verse 3
मदं नाम्ना कुमुद्वत्त्त्सरस्तूदधिसन्निभम् / तस्माद्दिव्यात्प्रभवति नदी मन्दाकिनी शुभा
名为“摩陀”的莲华之池,满布白莲(kumuda),宛如大海;从那神圣之池中,吉祥的曼达吉尼河流出。
Verse 4
दिव्यं च नन्दनवनं तस्यास्तीरे महद्वनम् / प्रागुत्तरेम कैलासाद्दिव्यं सर्वौंषधि गिरिम्
在其岸边有天界的难陀那林,并有一片广大森林。于冈仁波齐(凯拉萨)之东北,有一座充满诸般灵药的神圣仙山。
Verse 5
रत्नधातुमयं चित्रं सबलं पर्वतं प्रति / चन्द्रप्रभो नाम गिरिः सुशुभ्रो रत्नसन्निभः
那座山由宝石矿质所成,瑰丽多彩而坚固雄伟。其名为“月光山”(Candraprabha),皎洁无瑕,宛如宝珠。
Verse 6
तस्य पादे महाद्दिव्यं स्वच्छोदं नाम तत्सरः / तस्माद्दिव्यात्प्रभवति स्वच्छोदा नाम निम्नगा
在那山脚下有一座宏大的天界圣池,名为“清澈池”(Svacchoda)。由此神圣之池流出一条河,名为“清澈河”(Svacchodā)。
Verse 7
तस्यास्तीरे महद्दिव्यं वनं चैत्ररथं शुभम् / तस्मिन् गिरौ निवसति मणिभद्रः सहानुगः
在其岸边有一片宏大的天界吉祥之林,名为“采特拉拉塔林”(Caitraratha)。在那座山上,摩尼跋陀罗(Maṇibhadra)与随从同住。
Verse 8
यक्षसेनापतिः क्रूरो गुह्यकैः परिवारितः / पुण्या मन्दाकिनी चैव नदी स्वच्छोदका च या
那位凶猛的夜叉军统帅被诸古希亚迦(Guhyaka)环侍。其地有圣洁的曼达吉尼河,以及水清澈的“清水河”(Svacchodakā)。
Verse 9
महीमण्डलमध्येन प्रविष्टे ते महोदधिम् / कैलासाद्दक्षिणे प्राच्यां शिवसत्त्वौषधिं गिरिम्
他们穿行于大地轮的中央,进入浩瀚大海;又在冈底斯山之东南,见到一座充满具湿婆本性的灵药草木之山。
Verse 10
मनः शिलामयं दिव्यं चित्राङ्गं पर्वतं प्रति / लोहितो हेमशृङ्गश्च गिरिः सूर्यप्रभो महान्
那山如同由心石所成,神圣而形貌绚丽;名为“洛希塔”与“赫摩施陵伽”的大山,放射出如日般的光辉。
Verse 11
तस्य पादे महद्दिव्यं लोहितं नाम तत्सरः / तस्मात्पुण्यः प्रभवति लौहित्यः स नदो महान्
在那山脚下有一座宏大的神圣湖泊,名为“洛希塔”;由此生出清净吉祥的“大河”——“劳希提亚”。
Verse 12
देवारण्यं विशोकं च तस्य तीरे महद्वनम् / तस्मिन्गिरौ निवसति यक्षो मणिधरो वशी
在其岸边有一片大林,名为“天林(德瓦阿兰雅)”与“离忧(毗绍迦)”;那座山上住着名为“摩尼陀罗”的夜叉,能自制而有威力。
Verse 13
सौम्यैः मुधार्मिकैश्चैव गुह्यके परिवारितः / कैलासाद्दक्षिणे पार्श्वे क्रूरसत्त्वौषधिर्गिरिः
他被温和而守中道法度的古希亚卡众所环绕;而在冈底斯山的南侧,有一座名为“克鲁罗萨特瓦乌沙提”的山。
Verse 14
वृत्रकायात्किलोत्पन्नमञ्जनं त्रिककुं प्रति / सर्वधातुमयस्तत्र सुमहान्वैद्युतो गिरिः
由弗利陀罗之身所生的安阇那趋向特里卡库;彼处有一座极其宏伟、如电光闪耀、由诸金属构成的山岳。
Verse 15
तस्य पादे कलः पुण्यं मानसं सिद्धसेवितम् / तस्मात्प्रभवेते पुण्या सरयूर्लोकविश्रुता
其山足有名为“迦罗”的圣洁摩那萨湖,为诸悉地者所奉事;由此流出清净的萨罗由河,闻名于世。
Verse 16
तस्यास्तीरे वन दिव्यं वैभ्राजं नाम विश्रुतम् / कुबेरा नुचरस्तत्र प्रहेतितनयो वशी
在(萨罗由)河岸有一片名为“毗婆罗阇”的著名天林;彼处住着毗湿,普罗诃提之子,乃财主库毗罗之随从。
Verse 17
ब्रह्मपितो निवसति राक्षसो ऽनन्तविक्रमः / अतरिक्षचरैर्घोरैर्यातुधानशतैर्वृतः
彼处居住着梵父之子、勇力无穷的罗刹;他被数百可怖的夜叉陀那所环绕,皆能行于虚空。
Verse 18
अपरेण तु कैलासात्पुण्यसत्त्वौषधिर्गिरिः / अरुणः पर्वतश्रेष्ठो रुक्मधातुमयः शुभः
在凯拉萨的另一侧,有一座名为“阿鲁那”的圣山,蕴藏福德之气与灵药草木;此山为群峰之最,吉祥辉耀,由如金之鲁克摩金属所成。
Verse 19
भवस्य दयितः श्रीमान्पर्वतो मेघसन्निभः / शातकैंभमयैः शुभ्रैः शिलाजालैः समावृतः
那座吉祥尊贵、为婆婆(Bhava)所钟爱的山岳,光辉如云;以由“娑多金婆”黄金铸成的洁白瑞石之网遍覆其身。
Verse 20
शातसंख्यैस्तापनीयैः शृङ्गैर्दिवमिवोल्लिखन् / मुञ्जवास्तु महादिव्यो दुर्गः शैलो हिमाचितः
它以成百的纯金峰顶,仿佛刻划苍穹;名为“门阇婆斯图”的神圣险固之山,遍覆冰雪。
Verse 21
तस्मिन्गिरौ निवसति गिरीशो धूम्रलोचनः / तस्या पादात्प्रभवति शैलोदं नाम तत्सरः
在那座山上,烟色双目的山主吉利沙(Girīśa)居住;从他的足下涌出名为“石罗陀”(Śailoda)的湖泊。
Verse 22
तस्मात्प्रभवते पुण्या शिलोदा नाम निम्रगा / सा चक्षुः सीतयोर्मध्ये प्रविष्टा लवणोदधिम्
由此又发源一条圣河,名为“石罗陀”(Śilodā);她在“恰克舒”(Cakṣu)与“悉多”(Sītā)两河之间流淌,终入咸海。
Verse 23
तस्यास्तीरे वनं दिव्यं विश्रुतं सुरभीति वै / सव्योत्तरेण कैलासाच्छिवः सत्त्वौषधिर्गिरिः
在她的河岸,有一片名闻遐迩的天妙森林,称为“苏罗毗”(Surabhī);在凯拉萨(Kailāsa)之左北方,有一座名为“湿婆”(Śiva)的山,盛产清净灵药。
Verse 24
गौरं नाम गिरिश्रेष्ठं हरितालमयं प्रति / हिरण्यशृङ्गः सुमहान् दिव्यो मणिमयो गिरिः
有一座名为“高罗”的最胜之山,色如雄黄;金峰耸立,广大无比,神圣而如宝石所成。
Verse 25
तस्या पादे महाद्दिव्यं शुभं काञ्चनवालुकम् / रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः
在那山脚下,有一处广大而吉祥的圣地,铺满金色细沙;其间有一美丽的湖,名“宾度萨罗”,王婆伽罗陀曾居于此。
Verse 26
गङ्गनिमित्तं राजर्षिरुवास बहुलाः समाः / दिवं यास्यन्ति ते बुर्वे गङ्गतोयपरिप्लुताः
为求恒河之缘,这位王仙在此久住多年。我说:凡被恒河之水所沐润者,必得升往天界。
Verse 27
मदीय इति निश्चित्य समाहितमनाः शिवे / तत्र त्रिपयगा देवी प्रथमं तु प्रतिष्ठिता / सोमपादात्प्रसूता सा सप्तधा प्रतिपद्यते
他决意“此为我之所属”,心专注于湿婆;于是三途行的女神(恒河)首先在此安住。她由苏摩之足而生,遂分为七道水流。
Verse 28
यूपा मणिमयास्तत्र वितताश्च हिरण्मयाः / तत्रेष्ट्वा तु गतः सिद्धिं शक्रः सर्वैः सुरैः सह
那里遍布宝石所成的祭柱(yūpa),又辉映如金。释迦罗(因陀罗)与诸天在此行祭,遂得圆满成就。
Verse 29
दिवि च्छायापथो यस्तु अनुनक्षत्रमण्डलः / दृश्यते भास्वरो रात्रौ देवी त्रिपथगा तु सा
在天穹中,那随群星之轮延展的“影之道”,夜里灿然可见;她便是女神“三途行”(Tripathagā)。
Verse 30
अन्तरिक्षं दिवञ्चैव भावयन्ती सुरापगा / भवोत्तमाङ्गे पतिता संरूद्धा यौगमायया
净化虚空与天界的苏罗帕伽,坠落在婆伐(湿婆)头顶,并被瑜伽幻力(Yogamāyā)所遏止。
Verse 31
तस्या ये बिन्दवः केचित् क्रुद्धायाः पतिता भुवि / कृतं तु तैर्बिदुसरस्ततो बिन्दुसरः स्मृतम्
那位愤怒女神的几滴水珠落在大地;由此形成“毗度萨罗”之湖,因此被称为“宾度萨罗”(Bindusara)。
Verse 32
ततो निरूद्धा सा देवी भवेन स्मयता किल / चिन्तयामास मनसा शङ्करक्षेपमं प्रति
随后,那位含笑的婆伐(湿婆)将女神制住;她在心中思量如何把商羯罗(湿婆)甩脱。
Verse 33
भित्त्वा विशामि पातालं स्रोतसागृह्य शङ्करम् / ज्ञात्वा तम्या अभिप्रायं क्रूरं देव्याश्चिकीर्षितम्
“我将劈开帕塔拉(地下界)而入,并以我的洪流挟持商羯罗而去”——得知女神这般残烈的意图。
Verse 34
तिरोभावयितुं बुद्धिरासीदङ्गेषु तां नदीम् / तस्यावलेपं ज्ञात्वा तु नद्याःक्रुद्धस्तुशङ्करः
他起意要使那条河在自身诸肢中隐没;得知河流的傲慢后,商羯罗便震怒。
Verse 35
न्यरुपाच्च शिरस्येनां वेगेन पततीं भुवि / एतस्मिन्नेव काले तु दृष्ट्वा राजानमग्रतः
那河以猛势坠向大地,他便在头顶将其止住;正当此时,他看见国王在前。
Verse 36
धमनीसंततं क्षीणं क्षुधया व्याकुलेन्द्रियम् / अनेन तोषितश्चाहं नद्यर्थं पूर्वमेव तु
饥饿使诸根不安,身躯瘦弱至脉络皆衰——此已令我满足;至于河流之事,我本早已允诺。
Verse 37
बुद्धास्य वरदानं च कोपं नियतवांस्तु सः / ब्रह्मणो वचनं श्रुत्वा धारय स्वर्णदीमिति
他忆及赐予佛陀的恩许,便收摄怒意;听闻梵天之言“当承持斯瓦尔纳迪”,遂依命而行。
Verse 38
ततो विसर्जयामास संरुद्धां स्वेन तेजसा / नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः
于是他释放了被自身威光所阻的河流;为成就婆祇罗多之愿,因其炽烈苦行而心生欢喜。
Verse 39
ततो विसृज्यमानायाः स्रोत स्तत्सप्तधा गतम् / तिस्रः प्ताचीमिमुखं प्रतीचीं तिस्र एव तु
于是,那被放流的河水分成七道;其中三道朝向东方,另有三道流向西方。
Verse 40
नद्याः स्रोतस्तु गङ्गायाः प्रत्यपद्यत सप्तधा / नलिनी ह्लादिनी चैव पावनी चैव प्राच्यगाः
恒河之流分为七道;其中名为“莲生”“欢悦”“净化”的三道水流向东方。
Verse 41
सीता चक्षुश्च सिन्धुश्च प्रतीचीन्दिशमास्थिताः / सप्तमी त्वन्वगात्तासां दक्षिणेन भगीरथम्
名为“悉多”“恰克舒”“信度”的三道水流安住于西方;第七道则从它们南侧随行,追随婆伽罗他而去。
Verse 42
तस्माद्भागीरथी या सा प्रविष्टा लवणोदधिम् / सप्तैता भावयन्तीदं हिमाह्वं वर्षमेव तु
因此,那名为“婆伽罗提”的水流入于咸海;这七道圣流共同滋养并净化此名为“希摩”的洲域。
Verse 43
प्रसूताः सप्त नद्यस्ताः शुभा बिन्दु सरोद्भवाः / नानादेशान्प्लावयन्त्यो मलेच्छप्रायास्तु सर्वशः
那七条吉祥之河出自“宾度”圣湖;它们漫溢诸国,四方流布,甚至遍及多为“弥勒叉”之地。
Verse 44
उपगच्छन्ति ताः सर्वा यतो वर्षति वासवः / शिलीन्ध्रान्कुन्त लांश्चीनान्बर्बरान्यवनाध्रकान्
凡天帝因陀罗(Vāsava)降雨之处,诸水皆趋往其地——润泽尸利因陀罗、昆陀罗、中国、婆罗婆与夜婆那阿陀罗迦诸国。
Verse 45
पुष्कराश्च कुलिन्दांश्च अचोंलद्विचराश्च ये / कृत्वा त्रिधा सिंहवन्तं सीतागात्पश्चिमोद धिम्
经由补湿迦罗、拘邻陀及所谓阿周罗二行者诸地,悉多将辛诃梵多山分作三流,遂趋向西方大海。
Verse 46
अथ चीनमरूंश्चैव तालांश्च मसमूलिकान् / भद्रास्तुषारांल्लाम्याकान्बाह्लवान्पारटान्खशान्
继而又至中国与摩卢之地,并及多罗与摩娑牟利迦;又至跋陀罗、吐霜罗、拉弥迦、婆诃罗婆、波罗吒与佉沙诸国。
Verse 47
एताञ्जनपदां श्चक्षुः प्रावयन्ती गतोदधिम् / दरदांश्च सकाश्मीरान् गान्धरान् रौरसान् कुहान्
如目光般润泽诸国而行,遂至大海;并越过达罗陀、迦湿弥罗、犍陀罗、劳罗娑与拘诃诸地。
Verse 48
शिवशैलानिन्द्रपदान्वसतीश्च विसर्जमान् / सैन्धवान्रन्ध्रकरकाञ्छमठाभीररोहकान्
越过湿婆山与因陀罗足迹之地,并离开诸居住处后,又至信度、兰陀罗迦罗迦、恰摩吒、阿毗罗与卢诃迦诸国。
Verse 49
शुनासुखांश्चोर्द्धमरून्सिन्धुरेतान्निषेवते / गन्धर्वकिन्नरान्यक्षान्रक्षोविद्याधरोरगान्
圣洁的恒河流经并净化了舒那苏迦、乌尔德瓦摩卢、信度等诸国,也净化了乾闼婆、紧那罗、夜叉、罗刹、持明仙与龙族的居处。
Verse 50
कलापग्रामकांश्चैव पारदांस्तद्गणान् खशान् / किरातांश्चपुलिन्दांश्च कुरून् सभरतानपि
她也净化迦罗波聚落之民、帕罗陀及其部众、佉沙、基罗多、普林陀,并净化俱卢与婆罗多诸族。
Verse 51
पञ्चालान्काशिमत्स्यां श्च मगधाङ्गांस्तथैव च / सुह्मोत्तरांश्च वङ्गांश्च ताम्रलिप्तांस्तथैव च
她净化般遮罗、迦尸、摩蹉、摩揭陀与盎伽,也净化苏诃摩北部、旁伽以及多摩罗利波多等地。
Verse 52
एताञ्जनपदान्मान्यान्गङ्गा भावयते शुभान् / ततः प्रतिहता विन्ध्यात्प्रविष्टा लवणोदधिम्
恒河使这些受敬仰的国土吉祥而清净;随后在温提耶山受阻,便汇入咸海——盐海(Lavaṇodadhi)。
Verse 53
ततश्च ह्लादिनी पुण्य प्राचीमभिमुखा ययौ / प्रावयन्त्युपभागांश्च नैषधांश्च त्रिगर्त कान्
随后,福德清净的赫拉底尼河转向东方而行,流经并净化了优婆婆伽、奈沙陀与三伽尔多诸地。
Verse 54
धीवरानृषिकांश्चैव तथा नीलमुखानपि / केकरानौष्टकर्णांश्च किरातानपि चैव हि
他也见到迪瓦罗族、里希迦族与蓝面族,又见到凯迦罗族、厚唇耳族以及基拉塔族。
Verse 55
कालोदरान्विवर्णाश्च कुमारान्स्वर्णभूमिकान् / आमण्डलं समुद्रस्य तिरोभूतांश्च पूर्वतः
他见到卡罗达罗族与肤色黯淡者,又见到金地的库玛罗众;并见海洋的环域在东方隐没。
Verse 56
ततस्तु पावनी चापि प्राचीमेव दिशं ययौ / सुपथान्पावयं तीह त्विन्द्रद्युम्नसरोपि च
随后,净化女神帕瓦尼亦向东方而行;在那里她净化善道,并使因陀罗底耶姆那湖亦得清净。
Verse 57
तथा खरपथांश्चैव वेत्रशङ्कुपथानपि / मध्यतोजानकिमथो कुथप्रावरणान्ययौ
她也净化了卡拉帕他与维特拉商库帕他诸道;随后前往中部,至阇那姬与库塔普拉瓦拉那之地。
Verse 58
इन्द्रद्वीप समुद्रं तु प्रविष्टां लवणोदधिम् / ततस्तु नलिनी प्रायात् प्राचीमाशां जवेन तु
她进入因陀罗洲之海,抵达咸海(拉瓦诺达提);随后,莲华女神那利尼疾速向东方而去。
Verse 59
तोमरान्भावयन्तीह हंसमार्गान्सहैहयान् / पूर्वन्देशांश्च सेवन्ती भित्त्वा सा बहुधागिरीन्
她在此激励持矛之众,与海诃耶族同循“天鹅之道”,趋向东方诸国,穿越重重群山而前行。
Verse 60
कर्णप्रावरणान्प्राप्य संगत्या श्वमुखानपि / सिकतापर्वतमरुं गत्वा विद्याधरान्ययौ
抵达“耳覆之地”后,她又率同犬面之众,前往锡迦塔山的沙漠,遂至毗陀耶陀罗众之前。
Verse 61
नगमण्डलमध्येन प्रविष्टा लवणोदधिम् / तासां नद्युपनद्यश्च शतशो ऽथ सहस्रशः
穿过群山环带的中央,她们汇入咸海;其河流与支流,先以百计,继而以千计。
Verse 62
उपगच्छन्ति ताः सर्वा यतो वर्षति वासवः / वक्वौकसायास्तीरे तु वनं सुरभि विश्रुतम्
她们都趋向瓦萨瓦(因陀罗)降雨之处;而在瓦克瓦乌卡萨河岸,有一片名闻遐迩、芬芳馥郁的“苏拉毗”之林。
Verse 63
हिरण्यशृङ्गे वसति विद्वान्कौबेरको वशी / यज्ञोपेतश्च सुमहानमितौजाः सुविक्रमः
在“金峰”(Hiraṇyaśṛṅga)居住着名为俱毗罗系的自制智者;他具足祭祀之德,伟大非常,威光无量,勇武卓绝。
Verse 64
तत्रत्यैस्तैः परिवृतौ विद्वद्भिर्ब्रह्मराक्षसैः / कुबेरानुचरा ह्येते चत्वारस्तु समाः स्मृताः
在那里,他们被博学的梵罗刹所环绕;这些是俱毗罗的随从,四者被记为同等。
Verse 65
एवमेव तु विज्ञेया ऋद्धिः पर्वतवासिनाम् / परस्परेण द्विगुणा धर्मतः कामतोर्ऽथतः
同样应当知晓山居者的富盛:彼此之间依于法(dharma)、欲(kāma)与利(artha)而倍增。
Verse 66
हेमकूटस्य पृष्ठे तु वर्चोवन्नामतः सरः / मनस्विनीप्रभवति तस्माज्ज्योतिष्मती च या
在赫摩库塔山的背脊上有一湖,名为“瓦尔乔梵”;由此生出“摩那斯维尼”,并且从那里也诞生“光辉女”(Jyotiṣmatī)。
Verse 67
अवगाढे ह्युभयतः समुद्रौ पूर्वपश्चिमौ / सरो विष्णुपदं नाम निषधे पर्वतोत्तमे
东西两侧皆有深邃大海;在最胜的尼沙陀山上,有一湖名为“毗湿奴足迹”(Viṣṇupada)。
Verse 68
तस्माद्द्वयं प्रभवति गान्धर्वी नाकुली च तैः / मेरोः पार्श्वात्प्रभवति ह्रदश्चन्द्रप्रभो महान्
由此生出两道水流:乾闼婆河(Gāndharvī)与那库利河(Nākulī);又从须弥山侧畔生起名为“月光辉”(Candraprabha)的大湖。
Verse 69
तत्र जंबूनदी पुण्या यस्या जांबूनदं स्मृतम् / पयोदं तु सरो नीले सुशुभ्रं पुण्डरीकवत्
彼处有圣河阎浮那底(Jambūnadī),其所出之金称为“阎浮那陀”(jāmbūnada)。在尼罗之境有名为“Payoda”的湖,洁白辉耀,如白莲(puṇḍarīka)。
Verse 70
पुण्डरीका पयोदा य तस्मान्नद्यौ विनिर्गते / श्वेतात्प्रवर्त्तते पुण्यं सरयूर्मानसाद्ध्रुवम्
“Pundarīkā”与“Payodā”二河皆自彼湖涌出。自白色之湖(Śveta)必定流出圣河萨罗由(Sarayū),源自摩那萨(Mānasa)。
Verse 71
ज्योत्स्ना च मृगाकामा च तस्माद्द्वे संबभूवतुः / सरः कुरुषु विख्यातं पद्ममीनद्विजाकुलम्
由彼处又生出两条河:月光河(Jyotsnā)与慕鹿河(Mṛgākāmā)。在俱卢之地有一著名之湖,莲花繁盛,鱼群与群鸟充满其间。
Verse 72
रुद्रकान्तमिति ख्यातं निर्मितं तद्भवेन तु / अन्ये चाप्यत्र विख्याताः पद्मामीनद्विजाकुलाः
此湖名为“鲁德罗迦安达”(Rudrakānta),由其自身因缘所成。此地亦有其他著名湖泊,莲花、鱼类与群鸟充盈其间。
Verse 73
नाम्ना ह्रदा जया नाम द्वादशोदधिसन्निभाः / तेभ्यः शान्ता य माध्वी च द्वे नद्यौ संबभूवतुः
有十二处名为“胜”(Jayā)的湖泊,广大如海。由此生出两条河:寂静河(Śāntā)与甘蜜河(Mādhvī)。
Verse 74
यानि किंपुरुषाद्यानि तेषु देवो न वर्षति / उद्भिदान्युदकान्यत्र प्रवहन्ति सरिद्वराः
在金普鲁沙等诸国,天神(云雨)不降甘霖;那里有由草木所生之水流淌,诸胜河亦奔流不息。
Verse 75
ऋषभो दुन्दुभिश्चैव धूम्नश्च सुमहागिरिः / पूर्वायता महापर्वा निमग्ना लवणाभसि
瑞沙婆、敦度毗与都姆那三座巍峨大山,向东方延展,沉没于咸海之中。
Verse 76
चन्द्रः काकस्तथा द्रोणः सुमहान्तः शिलोच्चयाः / उदग्याता उदीच्यान्ता अवगाढा महोदधिम्
旃陀罗、迦迦与卓那等巨大石山,向北延展,沉入浩瀚大海。
Verse 77
सोमकश्च वराहश्च नारदश्च महीधरः / प्रतीच्यामायतास्ते वै प्रविष्टा लवणोदधिम
苏摩迦、婆罗诃与那罗陀诸山,向西延展,进入咸海之中。
Verse 78
चक्रो बलाहकश्चैव मैनाको यश्च पर्वतः / आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति
查克罗、婆罗诃迦与美那迦等大山,绵延伸展,趋向南方之海。
Verse 79
चक्रमैनाकयोर्मध्य विदिशं दक्षिणां प्रति / तत्र संवर्त्तको नाम सो ऽग्निः पिबति तज्जलम्
在恰克罗与迈那迦之间,朝向南方之域;彼处名为“桑伐尔塔迦”的圣火饮尽那水。
Verse 80
नाम्ना समुद्रवासस्तु और्वःस वडवामुखः / द्वादशैते प्रविष्टा हि पर्वता लवणोदधिम्
名为“住海者”的乃是奥尔瓦萨·瓦达瓦穆卡;这十二座山都已进入咸海之中。
Verse 81
महेन्द्रभयवित्रस्ताः पक्षच्छे दभयात्पुरा / यदेतद्दृश्यते चन्द्रे श्वेते कृष्णशशाकृति
往昔因惧大因陀罗,又恐被断翼,故在皎白月轮中显现出黑兔之形。
Verse 82
भारतस्य तु वर्षस्य भेदास्ते नव कीर्त्तिताः / इहोदितस्य दृश्यन्ते यथान्ये ऽन्यत्र चोदिते
婆罗多之地的九种分区已被宣说;此处所述,正如他处所说的诸分区一般可见。
Verse 83
उत्तरोत्तरमेतेषां वर्षमुद्दिश्यते गुणैः / आरोग्यायुः प्रमाणानां धर्मतः कामतोर्ऽथतः
这些诸方域依次以更高的德相而被指称——康健、寿量之度,以及依于法、欲与利之成就。
Verse 84
समन्वितानि भूतानि पुण्यैरेतैस्तु भागशः / वसंति नानाजातीनि तेषु वर्षेषु तानि वै / इत्येषा धारयन्तीदं पृथ्वी विश्वं जगत्स्थितम्
一切众生由这些福德之分所和合,依其分量住于诸“岁域”(varṣa)之中;其间有种种族类居止。如此,大地承持此安住之世界与宇宙。
A structured cosmographic description of the Kailāsa-Himālaya region: divine mountains, forests, yakṣa domains, and especially the origin-chains of lakes (saras) that generate major sacred rivers (Mandākinī, Svacchodā, Lauhitya, Sarayū).
Mandākinī arises from the lake named Mada; Svacchodā arises from the lake named Svacchoda at the foot of Candraprabha; Lauhitya arises from the lake named Lohita at the foot of Sūryaprabha; Sarayū is said to arise from a sacred lake (Mānasa) associated with another divine mountain setting in the sequence.
They function as locational identifiers and sacral qualifiers: the chapter maps a living sacred ecology where rivers are not only hydrological features but also part of divine jurisdictions (Kubera/yakṣas) and tīrtha landscapes (forests, medicinal mountains), reinforcing Bhuvana-kośa as both cosmology and pilgrimage cartography.