Adhyaya 16
Prakriya PadaAdhyaya 1669 Verses

Adhyaya 16

Pṛthivyāyāma-vistara (Extent and Divisions of the Earth) / पृथिव्यायामविस्तरः

本章以训诫式问答展开:诸仙询问婆罗多洲(Bhārata-varṣa)的本相、疆界、内部区分,以及其何以在历史与神学意义上被尊为业(karma)的殊胜道场。苏多(Lomaharṣaṇa)答曰:婆罗多地理上位于北方大海与喜马拉雅南麓之间;名义上与摩奴·婆罗多相系,意为“承载/护持众民者”;解脱义上,此地为具身众生修作诸业、得生天界(svarga)或证得解脱(mokṣa)之所。继而列举九种“差别”(bheda),皆为海所隔的区域,称及 Indradvīpa、Kaśerūmān、Tāmravarṇa、Gabastimān、Nāgadvīpa、Saumya、Gāndharva、Vāruṇa,并指出婆罗多为第九分区,四面环海。又以由旬(yojana)记其南北长度与横向宽度,并述边地族群:东方有 Kirāta,西方有 Yavana,边缘多 mleccha 诸部。末段叙述四姓(varṇa)分布与社会祭仪之职分(brāhmaṇa/kṣatriya/vaiśya/śūdra),以法—利—欲(dharma–artha–kāma)为取向,并依四住期(āśrama)精进,以求天界与解脱。

Shlokas

Verse 1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वीतीये ऽनुषङ्गपादे पृथिव्यायामविस्तरो नाम पञ्चदशो ऽध्यायः सूत उवाच एवमेव निसर्गो वै वर्षाणां भारते शुभे / दृष्टः परमतत्त्वज्ञैर्भूयः किं वर्णयामि वः

如是,在《圣梵卵大摩诃往世书》之中,风神所宣说的前分、第二随附品里,有名为“地界广说”的第十五章。苏多说道:在吉祥的婆罗多之地,诸方域的生成次第本如是;洞见至上实相者已亲证——我还能向诸位再说什么呢?

Verse 2

ऋषिरुवाच यदिदं भारतं वर्षं यस्मिन्स्वायंभुवादयः / चतुर्दशैते मनवः प्रजासर्गे ऽभवन्पुनः

仙人说道:此乃婆罗多方域,其中自生者等这十四位摩奴,在众生创造之中屡次再现。

Verse 3

एतद्वेदितुमिच्छामस्तन्नो निगद सत्त्मः / एतच्छ्रुतवचस्तेषामब्रवीद्रोमहर्षणः

我们愿知此事;至善之士,请为我们宣说。听了他们的话,罗摩哈尔沙那(苏多)便说道。

Verse 4

अत्र वो वर्णयिष्यामि वर्षे ऽस्मिन् भारते प्रजाः / इदं तु मध्यमं चित्रं शुभाशुभफलोदयम्

在此我将为诸位叙述此婆罗多方域的众生;此乃中界奇妙之图景,善与不善之果报于此显现。

Verse 5

उत्तरं यत्ममुद्रस्य हिमवद्दक्षिणं च यत् / वर्षं तद्भारतं नाम यत्रेयं भारती प्रजा

在大海之北、喜马瓦特(喜马拉雅)之南的国土,名为“婆罗多洲(Bharata-varsha)”,此处居住着婆罗多之民。

Verse 6

भरणाच्च प्रजानां वै मनुर्भरत उच्यते / निरुक्तवचनाच्चैवं वर्षं तद्भारतं स्मृतम्

因承载并养护众生,摩奴被称为“婆罗多(Bharata)”;依此语源之说,那片国土便被记为“婆罗多洲(Bharata-varsha)”。

Verse 7

इतः स्वर्गश्च मोक्षश्च मध्यश्चान्तश्च गम्यते / न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते

唯由此处可达天界与解脱(moksha),亦可趋于中道与究竟之境;因为在他处之地,并不为凡人设立业行之法。

Verse 8

भारतस्यास्य वर्षस्य नव भेदान्निबोधत / समुद्रातरिता ज्ञेयास्ते त्वगम्याः परस्परम्

当知此婆罗多洲有九种分区;它们为大海所隔,彼此之间被视为难以往来。

Verse 9

इन्द्रद्वीपः कशेरूमांस्ताम्रवर्णो गभस्तिमान् / नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ वारुणः

因陀罗岛、迦舍卢曼岛、铜色岛、光辉岛;又有那伽岛、娑乌弥耶岛、乾闼婆岛,以及随后之伐楼那岛——这些岛屿如是称说。

Verse 10

अयं तु नवमस्तेषां द्वीपः सागरसंवृतः / योजनानां सहस्रे तु द्वीपो ऽयं दक्षिणोत्तरात्

此为诸洲中第九洲,四面为大海所环。自南至北,此洲延展一千由旬。

Verse 11

आयतो ह्याकुमार्य्या वै चागङ्गाप्रभवाच्च वै / तिर्यगुत्तरविस्तीर्मः सहस्राणि नवैव तु

此洲自阿库玛利耶至阿恒伽之源,纵向延伸;其横向并向北之广度为九千。

Verse 12

द्वीपो ह्युपनिविष्टो ऽयं म्लेच्छैरन्तेषु सर्वशः / पूर्वे किराता ह्यस्यान्ते पश्चिमे यवनाः स्मृताः

此洲四境边陲皆为弥勒叉人所居。其东端为基罗多,其西端记为夜婆那。

Verse 13

ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः / इज्यायुधवणिज्याभिर्वर्त्तयन्तो व्यवस्थिताः

在中央,婆罗门、刹帝利、吠舍与首陀罗各居其分。众人以祭祀供奉、执持武器与经商之业,各安其职而行。

Verse 14

तेषां संव्यवहारो ऽत्र वर्त्तते वै परस्परम् / धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु

在此,他们彼此之间的往来交涉不断进行。诸种姓各守本业,而其行事兼具法(dharma)、利(artha)与欲(kāma)。

Verse 15

संकल्पः पञ्चमानां च ह्याश्रमाणां यथाविधि / इह स्वर्गापवर्गार्थं प्रवृत्तिर्येषु मानुषी

依正法而立五种住期(五阿湿罗摩)之誓愿;人于此世之行持,旨在得天界与阿婆伐伽(解脱)。

Verse 16

यस्त्वयं नवमो द्वीपस्तिर्यगायाम उच्यते / कृत्स्नं जयति यो ह्येनं सम्राडित्यभिधीयते

此第九洲名为“横广”(tiryag-āyāma);能尽数征服此洲者,称为“萨姆拉德”(samrāṭ,至上王)。

Verse 17

अयं लोकस्तु वै सम्राडन्तरिक्षं विराट् स्मृतम् / स्वराडसौ स्मृतो लौकः पुनर्वक्ष्यामि विस्तरात्

此界称为“萨姆拉德”;中空(antarikṣa)被记为“毗罗特”(virāṭ)。彼界称为“斯瓦拉德”(svarāṭ);我将再作详述。

Verse 18

सप्तैवास्मिन्सुपर्वाणो विश्रुताः कुल पर्वताः / महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः

此处有七座著名的族山:摩诃因陀罗、摩罗耶、萨诃耶、舒克提曼与梨叉山等。

Verse 19

विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः / तेषां सहस्रश्चान्ये पर्व तास्तु समीपगाः

温陀耶与帕利耶特拉亦在其列,合为七族山;其近旁尚有千余群山环列。

Verse 20

अविज्ञाताः सारवन्तो विपुलाश्चित्रसानवः / संदरः पर्वतश्रेष्ठो वैहारो दुर्दुरस्तथा

尚有一些山岳不为人知:蕴含精华,广大无边,峰峦奇异。其中,桑达罗为群山之最;维诃罗与杜尔杜罗亦然。

Verse 21

कोलाहलः ससुरसो मैनाको वैद्युतस्तथा / वातन्धमो नागगिरिस्तथा पाण्डुरपर्वतः

又有科罗诃罗、萨苏罗萨、迈那迦与维迪尤塔;并有瓦坦陀摩、那伽吉利以及般度罗山。

Verse 22

तुङ्गप्रस्थः कृष्णगिरिर्गोधनो गिरिरेव च / पुष्पगिर्युज्जयन्तौ च शैलो रैवतकस्तथा

又有通伽普拉斯塔、黑山(克里什那吉利)与戈陀那山;并有普什帕吉利与乌ज्ज延塔;以及舍罗与赖伐多迦。

Verse 23

श्रीपर्वतश्चित्रकूटः कूटशैलो गिरिस्तथा / अन्ये तेभ्यो ऽपरिज्ञाता ह्रस्वाः स्वलपोपजी विनः

有吉祥山(室利山)、质多罗俱吒与库吒舍罗山;此外还有一些更不为人知的山——低矮而生计微薄之地。

Verse 24

तैर्विमिश्रा जनपदा आर्या म्लेच्छाश्च भागशः / पीयन्ते यैरिमा नद्यो गङ्गा सिंधु सरस्वती

因他们之故,诸国土杂糅而成:一部分为雅利安,一部分为弥勒叉。正是他们汲饮这些河流之水——恒河、信度河与萨拉斯瓦蒂河。

Verse 25

शतद्रुश्चन्द्र भागा च यमुना सरयूस्तथा / इरावती वितस्ता च विपाशा देविका कुहूः

舍塔德鲁河、旃陀罗婆伽河、阎牟那河与萨罗瑜河;以及伊罗伐底、毗塔斯塔、毗婆沙、提毗迦与库呼——皆为圣河。

Verse 26

गोमती धूतपापा च बुद्बुदा च दृषद्वती / कौशकी त्रिदिवा चैव निष्ठीवी गेडकी तथा

戈摩提河、涤罪河、布德布达河与德里沙德瓦提河;以及考沙姬、三天界河、尼什提毗与格达姬——亦皆圣河。

Verse 27

चक्षुर्लोहित इत्येता हिमवत्पादनिस्सृताः / वेदस्मृतिर्वेदवती वृत्रघ्नी सिंधु रेव च

恰克舒河与洛希多河——此等皆自喜马伐特山之足下流出;又有吠陀忆念河、吠陀伐底河、诛弗特罗河、信度河与雷瓦河。

Verse 28

वर्णाशा नन्दना चैव सदानीरा महानदी / पाशा चर्मण्वतीनूपा विदिशा वेत्रवत्यपि

瓦尔纳沙河与难陀那河;常流水河与摩诃那提河;以及帕沙河、恰尔摩那伐底河、努帕河、毗地沙河与韦特拉伐底河——亦皆圣河。

Verse 29

क्षिप्रा ह्यवन्ति च तथा पारियात्राश्रयाः स्मृताः / शोणो महानदश्चैव नर्म्मदा सुरसा क्रिया

克希普拉河与阿凡提河——被记为依止于帕里耶特拉山;又有肖那河、摩诃那达河、纳尔摩达河、苏罗萨河与克里耶河。

Verse 30

मन्दाकिनी दशार्णा च चित्रकूटा तथैव च / तमसा पिप्पला श्येना करमोदा पिशाचिका

曼达吉尼、达沙尔那与赤特罗库塔;又有塔摩萨、毗婆罗、施耶那、迦罗摩达与毗舍遮迦——皆为圣河。

Verse 31

चित्रोपला विशाला च बञ्जुला वास्तुवाहिनी / सनेरुजा शुक्तिमती मङ्कुती त्रिदिवा क्रतुः

赤特罗帕拉、毗沙罗与班朱罗;以及瓦斯图瓦希尼、萨涅鲁迦、舒克提玛蒂、曼库蒂、特里迪瓦与克拉图——亦皆圣河。

Verse 32

ऋक्षवत्संप्रसूतास्ता नद्यो मणिजलाः शिवाः / तापी पयोष्णी निर्विन्ध्या सृपा च निषधा नदी

自梨叉伐特山涌出的诸河,水如宝珠般澄澈、吉祥而善利:塔毗、帕约什尼、尼尔温提亚、斯里帕与尼沙陀河。

Verse 33

वेणी वैतरणी चैव क्षिप्रा वाला कुमुद्वती / तोया चैव महागौरी दुर्गा वान्नशिला तथा

韦尼与韦陀罗尼;克希普拉、瓦拉与库穆德瓦蒂;又有托雅、摩诃高丽、杜尔迦与瓦恩那希拉——皆为圣河。

Verse 34

विन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः / गोदावरी भीमरथी कृष्णवेणाथ बञ्जुला

出自温提耶山麓的吉祥诸河,水具功德:戈达瓦里、毗摩罗提、克里希纳韦那与班朱罗。

Verse 35

तुङ्गभद्रा सुप्रयोगा बाह्या कावेर्यथापि च / दक्षिणप्रवहा नद्यः सह्य पादाद्विनिःस्मृताः

通伽跋陀罗河、苏普拉瑜伽河、巴希亚河以及迦维梨河,皆为自萨希耶山麓涌出而南流之圣河。

Verse 36

कृतमाला ताम्रपर्णी पुष्पजात्युत्पलावती / नद्यो ऽभिजाता मलयात्सर्वाः शीतजलाः शुभाः

克利多摩罗河、檀摩罗帕尔尼河、普什帕阇提河与优钵罗伐底河,皆出自摩罗耶山,清凉之水,吉祥殊胜。

Verse 37

त्रिसामा ऋषिकुल्या च बञ्जुला त्रिदिवाबला / लाङ्गूलिनी वंशधरा महेन्द्रतनयाः स्मृताः

三萨摩河、仙族利耶河、班珠罗河、天力河、朗古利尼河与王族持河,被称为摩诃因陀罗山之女——诸圣河也。

Verse 38

ऋषिकुल्या कुमारी च मन्दगा मन्दगामिनी / कृपा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः

仙族利耶河、童女河、缓流河、缓行河、慈恩河与帕罗沙尼河,被记为出自肃克提末山的诸河。

Verse 39

तास्तु नद्यः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः / विश्वस्य मातरः सर्वा जगत्पापहराः स्मृताः

彼诸河皆具萨拉斯瓦蒂之性,皆如恒河而归于大海;她们被忆为世界之母,能除尽众生之罪垢。

Verse 40

तासां नद्युपनद्यो ऽन्याः शतशो ऽथ सहस्रशः / तास्विमे कुरुपाञ्चालाः शाल्वा माद्रेयजाङ्गलाः

那些河流又有别的支流,成百上千;在这些水域之间居住着俱卢-般遮罗、沙尔瓦、摩德雷耶与旃伽罗诸族。

Verse 41

शूरसेना भद्रकारा बोधाः सहपटच्चराः / मत्स्याः कुशल्याः सौशल्याः कुन्तलाः काशिकोशलाः

又有首罗娑那、跋陀罗迦罗、菩陀与帕塔恰罗诸族;并有摩蹉、库沙利耶、苏沙利耶、昆陀罗与迦尸-拘萨罗。

Verse 42

गोधा भद्राः करिङ्गाश्च मागधाश्चोत्कलैः सह / मध्यदेश्या जनपदाः प्रायशस्त्त्र कीर्त्तिताः

哥陀、跋陀罗、迦陵伽,以及与乌特迦罗同列的摩揭陀——中土诸国在此几乎都已被称述。

Verse 43

सह्यस्य चौत्तरान्तेषु यत्र गोदावरी नदी / पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः

在萨希耶山脉的北端,哥达瓦丽河流经之处;那片地域即使放眼全大地,也格外秀美。

Verse 44

तत्र गोवर्धनं नाम पुरं रामेण निर्मितम् / रामप्रियाथ स्वर्गीया वृक्ष दिव्यास्त थौषधीः

在那里有一座名为“瞿婆尔陀那”的城,由罗摩所建;其地又有罗摩所喜爱的天界神树与灵妙药草。

Verse 45

भरद्वाजेन मुनिना तत्प्रियार्थे ऽवरोपिताः / अतः पुर्वरोद्देशस्तेन जज्ञे मनोरमः

圣者婆罗陀婆阇为所爱之故而栽植;因此该地东方一隅遂生为殊胜可悦。

Verse 46

बाह्लीका वाटधानाश्च आभीरा कालतोयकाः / अपरान्ताश्च मुह्माश्च पाञ्चलाश्चर्ममण्डलाः

巴赫利迦、瓦塔陀那、阿毗罗、迦罗多耶迦;以及阿波罗安多、穆诃摩、般遮罗等,皆属“车摩曼陀罗”之域。

Verse 47

गान्धारा यवनाश्चैव सिंधुसौवीरमण्डलाः / चीनाश्चैव तुषाराश्च पल्लवा गिरिगह्वराः

犍陀罗、夜婆那与信度-苏毗罗之域;又有支那、吐沙罗与帕罗婆等,皆为居于山谷洞窟之民。

Verse 48

शाका भद्राः कुलिन्दाश्च पारदा विन्ध्यचूलिकाः / अभीषाहा उलूताश्च केकया दशामालिकाः

娑迦、跋陀罗、俱邻陀、波罗陀、温陀耶珠利迦;又有阿毗沙诃、乌卢多、计迦耶与达沙摩利迦等,亦皆诸邦之民。

Verse 49

ब्राह्मणाः क्षत्रियाश्चैव वैश्यशूद्रकुलानि तु / कांवोजा दरदाश्चैव बर्बरा अङ्गलौहिकाः

有婆罗门、刹帝利,以及吠舍与首陀罗诸族;又有剑浮阇、达罗陀、婆罗婆罗与阿伽罗卢希迦等众。

Verse 50

अत्रयः सभरद्वाजाः प्रस्थलाश्च दशेरकाः / लमकास्तालशालाश्च भूषिका ईजिकैः सह

此处记述阿特拉耶族、与婆罗陀婆阇相关者、普拉斯塔拉与达舍罗迦;又有拉摩迦、塔罗沙罗与布舒迦,并与伊吉迦诸族同列。

Verse 51

एते देशा उदीच्या वै प्राच्यान्देशान्निबोधत / अङ्गवङ्गा श्चोलभद्राः किरातानां च जातयः / तोमरा हंसभङ्गाश्च काश्मीरास्तङ्गणास्तथा

这些是北方诸国;并当知东方诸国:昂伽、旁伽与周罗跋陀罗;以及基罗多诸族;又有多摩罗、汉萨梵伽、迦湿弥罗与唐伽那。

Verse 52

झिल्लिकाश्चाहुकाश्चैव हूणदर्वास्तथैव च

又有吉利迦与阿呼迦,亦有呼那与达尔瓦诸族。

Verse 53

अन्ध्रवाका मुद्गरका अन्तर्गिरिबहिर्गिराः / ततः प्लवङ्गवो ज्ञेया मलदा मलवर्तिकाः

又有安陀罗婆迦、穆德伽罗迦、内山与外山之民;其后当知普拉梵伽婆族,即摩罗陀与摩罗伐尔提迦。

Verse 54

समन्तराः प्रावृषेया भार्गवा गोपपार्थिवाः / प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलिप्तकाः

又有萨曼塔罗、普拉弗里舍耶、婆尔伽婆与瞿波帕尔提婆;并有普拉格焦底沙、奔陀罗、毗提诃与昙摩罗利普多迦诸国。

Verse 55

मल्ला मगधगोनर्दाः प्राच्यां जनपदाः स्मृताः / अथापरे जनपदा दक्षिणापथवासिनः

摩罗、摩揭陀与瞿那尔陀,被记为东方的诸国;其余诸国,则为南道(Dakṣiṇāpatha)之居民。

Verse 56

पण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैव च / सेतुका मूषिकाश्चैव क्षपणा वनवासिकाः

般荼耶、羯罗罗、朱罗与库利耶;又有塞都迦、牟湿迦、刹婆那与林居者等诸国。

Verse 57

माहराष्ट्रा महिषिकाः कलिङ्गश्चैव सर्वशः / आभीराश्च सहैषीका आटव्या सारवास्तथा

摩诃罗湿多、摩醯湿迦,以及遍处的迦陵伽;又有阿毗罗、萨海湿迦、阿多毗耶与娑罗婆等诸国。

Verse 58

पुलिन्दा विन्ध्यमौलीया वैदर्भा दण्डकैः सह / पौरिका मौलिकाश्चैव श्मका भोगवर्द्धिनाः

普林陀、温陀耶牟利耶、毗达婆与檀陀迦同列;又有保利迦、牟利迦、湿摩迦与“增益享乐者”等诸国。

Verse 59

कोङ्कणाः कन्तलाश्चान्ध्राः कुलिन्दाङ्गारमारिषाः / दाक्षिणाश्चैव ये देशा अपरांस्तान्निबोधत

贡迦那、坎陀罗与安陀罗;库林陀、安伽罗与摩利沙——这些皆为南方之国;其余诸国亦当听闻。

Verse 60

सूर्य्यारकाः कलिवना दुर्गालाः कुन्तरौः सहः / पौलेयाश्च किराताश्च रूपकास्तापकैः सह

苏里亚拉卡、迦利瓦那、杜尔伽拉与昆陀罗同在;又有保勒耶、基拉塔、鲁帕迦与塔帕迦——皆为诸族诸国。

Verse 61

तथा करीतयश्चैव सर्वे चैव करन्धराः / नासिकाश्चैव ये चान्ये ये चैवान्तरनर्मदाः

又有迦利多耶与一切迦兰陀罗;并有那悉迦等诸族,以及居于“内那尔摩陀”之地者。

Verse 62

सहकच्छाः समाहेयाः सह सारस्वतैरपि / कच्छिपाश्च सुराष्ट्राश्च आनर्ताश्चर्बुदैः सह

又有萨哈迦叉与萨玛诃耶,并与娑罗湿伐多同列;迦叉毗、苏罗湿吒罗、阿那尔多亦与阿尔布陀同在。

Verse 63

इत्येते अपरान्ताश्च शृणुध्वं विन्ध्यवासिनः / मलदाश्च करूथाश्च मेकलाश्चैत्कलैः सह

以上便是阿婆罗安多诸地——温陀耶山居者,当听:摩罗陀、迦卢陀、弥迦罗亦与艾特迦罗同列。

Verse 64

उत्तमानां दशार्णाश्च भोजाः किष्किन्धकैः सह / तोशलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा

在诸上等国土中,有达沙尔那与菩阇,并与吉什金陀迦同列;又有托沙罗、拘舍罗、特赖普罗与毗底沙。

Verse 65

तुहुण्डा बर्बराश्चैव षट्पुरा नैषधैः सह / अनूपास्तुण्डिकेराश्च वीतिहोत्रा ह्यवन्तयः

图胡ṇḍ、婆罗婆罗族与沙特普罗族同奈沙陀人一起;又有阿努帕、吞ḍ基罗、毗提吠多罗与阿凡提诸国,皆为诸“阇那钵陀”(国土)。

Verse 66

एते जनपदाः सर्वे विन्ध्यपृष्ठनिवासिनः / अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये

这些诸国土皆居于温陀耶山脉背侧。今后我将宣说那些依止群山而立的诸地。

Verse 67

निहीरा हंसमार्गाश्च कुपथास्तङ्गणाः शकाः / अपप्राव रणाश्चैव ऊर्णा दर्वाः सहूहुकाः

尼希罗、天鹅道、苦道、唐伽那、释迦;又有阿帕普拉瓦、罗那、乌尔那、达尔瓦与萨胡胡迦——亦皆列为诸国土。

Verse 68

त्रिगर्त्ता मण्डलाश्चैव किरातास्तामरैः सह / चत्वारि भारते वर्षे युगानि ऋषयो ऽब्रुवन्

三伽尔塔、曼陀罗与基罗多并同塔摩罗诸族(皆被提及)。诸仙人宣说:在婆罗多界有四个劫期(四瑜伽)。

Verse 69

कृतं त्रेतायुगं चैव द्वापरं तिष्यमेव च / तेषां निसर्गं वक्ष्यामि उपरिष्टादशेषतः

克利多、特雷多、堕婆罗与提湿耶——此为四瑜伽。其本性与次第,我将在后文无余宣说。

Frequently Asked Questions

Rather than listing a full royal vaṃśa, the chapter anchors Bhārata’s identity in Manu Bharata (an eponymic organizer of peoples), using etymology and manvantara logic to explain how populations and social order are sustained; detailed dynastic catalogues typically occur in later vaṃśānucarita sections.

It provides terrestrial measurements in yojanas for Bhārata’s extent (north–south length and transverse breadth) and frames Bhārata as the ninth, ocean-bounded division among nine; it also specifies boundary markers (ocean/Himālaya) and border ethnography (e.g., Kirātas east, Yavanas west).

This chapter is not part of the Lalitopākhyāna stream; it is a Bhuvana-kośa/Bhārata-varṣa geography unit, focused on karmic geography, divisions, and social order rather than Śākta vidyā/yantra exegesis.