Adhyaya 48
Anushanga PadaAdhyaya 4849 Verses

Adhyaya 48

Vasiṣṭha-gamana (Vasiṣṭha’s Departure / The Episode of Sagara)

本章以阇弥尼(Jaimini)的叙述为框架,推进伊克湿伐库/太阳王族(Ikṣvāku/Sūryavaṃśa)谱系记忆(Vaṃśānucarita)中的“萨伽罗传”(Sagara-upākhyāna)。在一位德高望重的牟尼离去之后(与“婆悉吒离去”Vasiṣṭha-gamana 相应),萨伽罗王居于阿踰陀(Ayodhyā)治国,富足而通晓法(dharma)与利(artha),却内心不宁,反复思量旧日创痛与政治羞辱。偈颂描绘其心神躁动——失眠、叹息如火——继而转入王者之举:他立誓歼灭敌对族系,行诸吉祥准备,率领庞大的四部军(战车、战象、战马、步兵)出征。征伐景象被写得如同宇宙规模——尘云蔽空、大地震颤、军阵如海——随后叙事聚焦于特定宿敌:海诃耶族(Haihaya)。一场“令人毛骨悚然”的大战爆发;愤怒的拘萨罗之主萨伽罗击败海诃耶诸王,并在所示段落中以焚毁/摧毁其都城作结,确立萨伽罗的帝王威势,同时强调《往世书》关于刹帝利复仇、王权正当性与王怒之业力重负的主题。

Shlokas

Verse 1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरोपाख्याने वसिष्ठगमनं नाम सप्तचत्वारिंशत्तमो ऽध्यायः जैमिनिरुवाच गते तस्मिन्मुनिवरे सगरो राजसत्तमः / अयोध्यायामधिवस्न्पालयामास मेदिनीम्

如是,在《圣梵卵大摩诃往世书》中,由风神婆由(Vāyu)宣说的中篇第三引论品、娑伽罗传中,有名为“婆悉吒行往”的第四十七章。阇弥尼言:彼最胜牟尼既去之后,王中之最娑伽罗居于阿踰陀,护持并治理大地。

Verse 2

सर्वसंपद्गणोपेतः सर्वधर्मार्थतत्त्ववित् / वयसैव स बालो ऽभूत्कर्मणा वृद्धसंमतः

他具足一切福资财宝,通达法(dharma)与利(artha)之真义。虽年少如童,然以德业行持,众皆敬之如长者。

Verse 3

तथापि न दिवा भुक्तें शेते वा निशि संस्मरन् / सुदीर्घं निःश्वसित्युष्णमुद्विग्नहृदयो ऽनिशम्

然而他白日不食,夜间不眠,唯沉于追忆。心神忧惧不安,常常不息地吐出灼热而悠长的叹息。

Verse 4

श्रुत्वा राजा स्वराज्यं निजगुरुमवजित्यारिभिः संगृहीतं मात्रा सार्द्धं प्रयान्तं वनमतिगहनंस्वर्गतं तं च तस्मिन् / शोकाविष्टः सरोषं सकलरिपुकुलोच्छित्तये सत्प्रतिज्ञश्चके सद्यः प्रतिज्ञां परिभवमनलं सोढुमिक्ष्वाकुवंश्यः

国王闻知:仇敌轻慢其本师,夺取其国;师与母同往极密之林,于彼处升天。王闻之悲恸交加,怒火炽然;身为伊克什瓦库(Ikṣvāku)后裔,难忍受辱之火,遂即刻立下坚固誓愿,欲尽灭诸敌族类。

Verse 5

स कदाचिन्महीपालः कृतकौतुकमङ्गलः / रिपुं जेतुं मनश्चक्रे दिशश्च सकलाः क्रमात्

有一次,这位护国之王行毕吉祥庆仪,心中决意征服仇敌,并筹划按次第向四方诸方出师。

Verse 6

अनेकरथसाहस्रैर्गजाश्वरथसैनिकैः / सर्वतः संवृतो राजा निश्चक्राम पुरोत्तमात्

国王被千乘战车、象马车兵从四面簇拥,遂自普罗多摩胜城出发。

Verse 7

शत्रून्हन्तुं प्रतस्थे निजबलनिवहेनोत्पतद्भिस्तुरङ्गैर्नासत्त्वोर्मिजालाकुलजलनिधिनिभेनाथ षाडङ्गिकेन / मत्तैर्मातङ्गयूथैः सकुलगिरिकुलेनैव भूमण्डलेन श्वेतच्छत्रध्वजौघैरपि शशिसुकराभातखेनैव सार्द्धम्

为诛灭仇敌,他率本军出征:骏马腾跃,六部军势如波涛翻涌之海;醉狂象群沉重如群山覆地,又有白伞与旗幡如月日辉耀相随。

Verse 8

तस्याग्रेसरसैन्ययूथचरणप्रक्षुण्णशैलोच्चयक्षोदापूरितनिम्नभागमवनीपालस्य संयास्यतः / प्रत्येकं चतुरङ्गसैन्यनिकरप्रक्षोदसंभूतभूरेणुप्रावृतिरुत्स्थली समभवद्भूमिस्तु तत्रानिशम्

当这位护土之王行军时,前锋军团足下碾碎山岩之尘充满低洼;四兵诸队扬起的浓尘又使高地在彼处昼夜不息地被遮蔽。

Verse 9

निघ्नन्दृप्ताननेकान्द्विपतुरगरथव्यूहसंभिन्नवीरान्सद्यः शोभां दधानो ऽसुरनिकरचमूर्निघ्नतश्चन्द्रमौलिः / दूरादेवाभिशंसन्नरिनगरनिरोधेषु कर्माभिषङ्गे तेषां शीघ्रापयानक्षणमभिदिशति प्राणिधैर्यं विधत्ते

月冠者击倒众多骄狂之徒,令被象马战车阵势撕裂的勇士纷纷仆落;他歼灭阿修罗军时立现光辉。并且他远远便赞许围困敌城之业,指示其迅速撤离之时刻,安定众生之勇气。

Verse 10

विजिगीषुर्दिशो राजा राज्ञो यस्याभियास्यति

渴求胜利的国王,将向他欲征伐诸王的诸方进军。

Verse 11

विषयं स नृपस्तस्य सद्यः प्रणतिमेष्यति / विजित्य नृपतीन्सर्वान्कृत्वा च स्वपदानुगान्

那位国王将立刻使其国土俯首归顺;征服诸王之后,又令他们皆为自己足下的随从。

Verse 12

संकेत गामिनः कांश्चित्कृत्वा राज्ये न्यवर्त्तत / एवं स विसरन्दिक्षु दक्षिणाभिमुखो नृपः

他任命数人作为传递暗号者(使者/密探)后回到王国;就这样巡行四方,那位国王转而面向南方。

Verse 13

स्मरन्पूर्वकृतं वैरं हैहयानभ्यवर्त्तत / ततस्तस्य नृपैः सार्द्धं समग्ररथकुञ्जरैः

他忆起旧日的仇怨,便向海诃耶族进军;随即与诸王相遇,对方战车与战象齐备。

Verse 14

बभूव हैहयैर्वीरैः संग्रामो रोमहर्षणः / राज्ञां यत्र सहस्राणि स बलानि महाहवे

与海诃耶勇士之间爆发了令人毛骨悚然的大战;在那场大决战中,诸王的军势多达千千。

Verse 15

निजघान महाबाहुः संक्रुद्धः कोसलेश्वरः / जित्वा हैहयभूपालान्भङ्क्त्वा दग्ध्वा च तत्पुरीम्

那位臂力雄伟的拘萨罗之主盛怒之下将他们击杀;征服海诃耶诸王后,又摧毁并焚烧了他们的城邑。

Verse 16

निःशेषशून्या मकरोद्वैरान्तकरणो नृपः / समग्रबलसंमर्द्दप्रमृष्टाशेषभूतलः

那位国王终结了摩伽罗之怨,使大地几近空寂无余;凭借全军之力的冲击,他踏平了整个地表。

Verse 17

हैहयानामशेषं तु चक्रे राज्यं रजःसमम् / राज्यं पुरीं चापहाय भ्रष्टैश्वर्या हतत्विषः

他使海诃耶人的整个国度化作尘土;他们舍弃王国与都城,福势坠落,光辉尽失。

Verse 18

राजानो हतभूयिष्ठा व्यद्रवन्त समन्ततः / अभिद्रुत्य नृपांस्तांस्तु द्रवमाणान्महीपतिः

诸王多被杀戮,四散奔逃;那位大地之主追奔而上,直扑那些逃窜的君王。

Verse 19

जघान सानुगान्मत्तः प्रजाः क्रुद्ध इवान्तकः / ततस्तान्प्रति सक्रोधः सगरः समरे ऽरिहा

他狂乱地率同党羽屠戮百姓,宛如震怒的阎摩;于是灭敌的娑伽罗怀着忿怒,在战场上迎击他们。

Verse 20

मुमोचास्त्रं महारौद्रं भार्गवं रीपुभीषणम् / तेनोत्सृष्टातिरौद्रत्रिभुवनभयदप्रस्फुरद्भार्गवास्त्रज्वालादन्दह्यमानावशतनुततयस्ते नृपाः साद्य एव / वाय्वस्त्रावृत्तधूमोद्गमपटलतमोमुष्टदृष्टिप्रसारा भ्रेमुर्भूपृष्टलोठद्बहुलतमरजोगूढमात्रा मुहूर्त्तम्

他施放了令仇敌胆寒的至猛“婆伽婆”神兵。那极其暴烈、震怖三界的婆伽婆神兵火焰一出,诸王立刻被焚为灰烬;又因风神兵卷起浓烟成幕,黑暗夺目片刻,他们在尘土掩覆的大地上翻滚迷乱。

Verse 21

आगनेयास्त्रप्रतापप्रतिहतगतयो ऽदृष्टमार्गाः समन्ता द्भूपाला नष्टसंघाः परवशतनवो व्याकुलीभूतचित्ताः / भीताः संत्युक्तवस्त्रायुधकवचविभूषादिका मुक्तकेशा विस्पष्टोन्मत्तभावान्भृश तरमनुकुर्वन्त्यग्रतः शात्रवाणाम्

被火神之箭(阿格涅耶阿斯特拉)的威势所阻,他们的行进尽失,四面不见道路而迷失。诸王军阵溃散,身如受制,心神惶乱。恐惧之下,他们弃去衣甲、兵刃、铠胄与饰物,披散长发,在敌军面前显出狂乱之态。

Verse 22

विजित्य हैहयान्सर्वान्समरे सगरो बली / संक्षुब्धसागराकारः कांबोजानभ्यवर्त्तत

勇武的萨伽罗在战场上征服了所有海诃耶。随后他如怒海翻腾般,转而进击迦摩婆阇。

Verse 23

नानावादित्रघोषाहतपटहरवाकर्णनध्वस्तधैर्याः सद्यः संत्यक्तराज्यस्वबलपुरपुरन्ध्रीसमूहा विमूढाः / कांबोजास्तालजङ्घाः शकयवनकिरातादयः साकमेते भ्रेमुर्भूर्यस्त्रभीत्या दिशि दिशि रिपवो यस्य पूर्वापराधाः

多种战鼓与乐器的轰鸣震碎了他们的胆气;那些昏乱的敌人立刻抛下国土、兵众、城邑与妇女眷属而逃。迦摩婆阇、塔罗阇伽、释迦、夜婆那、基罗多等——因旧罪在身的仇敌——畏惧无数兵器,四方奔窜。

Verse 24

भीतास्तस्य नरेश्वरस्य रिपवः केचित्प्रता पानलज्वालामुष्टदृशो विसृज्य वसतिं राज्यं च पुत्रादिभिः / द्विट्सैन्यैः समभिद्रुता वनभुवं संप्राप्य तत्रापि ते ऽस्तैमित्यं समुपागता गिरिगुहासुप्तोत्थितेन द्विषः

那位人王的敌人中,有些仿佛双目被其威势之火焚灼,携子嗣眷属弃舍居处与国土而逃。被敌军追逼,他们逃入林野;然而即便在那里也不得安宁,因为那仇敌如同自山洞酣睡中醒起,仍追袭不止。

Verse 25

तालजङ्घान्निहत्याजौ राजा स बलवाहनान् / क्रमेण नाशयामास तद्राज्यमरिकर्षणः

在战场上诛灭塔罗阇伽之后,那位摧敌之王又按次第毁灭了巴罗婆诃那的国度。

Verse 26

ततो यवनकांबोजकिरातादीननेकशः / निजघान रुषाविष्टः पल्हवान्पारदानपि

随后,他满怀愤怒,杀死了许多耶婆那人、甘波佳人、基拉塔人以及帕拉瓦人和帕拉达人。

Verse 27

हन्यमानास्तु ते सर्वे राजानस्तेन संयुगे / दुद्रुवुः संघशो भीता हतशिष्टाः समन्ततः

在那场战斗中被他击溃后,所有幸存的国王都惊恐万分,成群结队地向四面八方逃窜。

Verse 28

युष्माभिर्यस्य राज्यं बहुभिरपत्दृतं तस्य पुत्रो ऽधुनाहं हन्तुं वः सप्रतिज्ञं प्रसभमुपगतो वैरनिर्यातनैषी / इत्युच्चैः श्रावयाणो युधि निजचरितं वैरिभिर्नागवीर्यः क्षत्रैर्विध्वंसितेजाः सगरनरपतिः स्मारयामास भूपः

“我是那个被你们许多人夺去王国的人的儿子。现在我发誓要来杀你们复仇。”萨格罗国王在战斗中大声宣布,以此提醒敌人他的身世。

Verse 29

तं दृष्ट्वा राजवर्यं सकलरिपुकुलप्रक्षयोपात्तदीक्षं भीताः स्त्रीबालपूर्वं शरणमभिययुः स्वासुसरक्षणाय / इक्ष्वाकूणां वसिष्ठं कुलगुरुमभितः सप्त राज्ञां कलेषु प्रख्याताः संप्रसूता नृपवररिपवः पारदाः पल्हवाद्याः

看到那位伟大的国王发誓要消灭整个敌对家族,惊恐的帕拉达人和帕拉瓦人为了保命,让妇女和儿童走在前面,向瓦西istha寻求庇护。

Verse 30

वसिष्ठमाश्रमोपान्ते वसंतमृषिभिर्वृतम् / उपगम्याब्रुवन्सर्वे कृताञ्जलिपुटा नृपाः

那些国王走到居住在隐修院附近、被圣贤簇拥的瓦西istha面前,双手合十,恭敬地说道。

Verse 31

शरणं भंव नो ब्रह्मन्नार्त्तानामभयैषिणाम् / सगरास्त्राग्निनिर्दग्धशरीराणां मुमूर्षताम्

噢婆罗门尊者!我们困厄求无畏;身被娑伽罗之兵火焚灼、濒临死亡者,今来归依于你。

Verse 32

स हन्त्यसमानशेषेण वैरान्तकरणोन्मुखः / तस्माद्भयाद्धि निष्क्रान्ता वयं जीवितकाङ्क्षिणः

他欲终结仇怨,杀伐不留余类;正因那恐惧,我们这些求生者才逃离而来。

Verse 33

विभिन्नराज्यभोगर्द्धिस्वदारापत्यबान्धवाः / केवलं प्राणरक्षार्थं त्वां त्वयं शरणं गतः

我们与国土、享乐、富贵、妻子儿女与亲族离散;唯为护持性命,今来投依于你。

Verse 34

न ह्यन्यो ऽस्ति पुमांल्लोके सौहृदेन बलेन वा / यस्तं निवर्त्तयित्वास्मान्पालयेन्महतो भयात्

世间再无他人,或以情谊或以武力,能制止他而护我们脱离此大怖畏。

Verse 35

त्वं किलार्कान्वयभुवां राज्ञां कुलगुरुर् वृतः / तद्वंशपूर्वजैर्भूपैस्त्वतप्रभावश्च तादृशः

你被奉为日族(太阳王朝)诸王的族师;该族先祖诸王亦承认你具有如此威德。

Verse 36

तेनायं सगरो ऽप्यद्य गुरुगौरवयन्त्रितः / भवन्निदेशं नात्येति वेलामिव महोदधिः

因此,即使是萨伽罗如今也被对师长的敬重所约束,不敢逾越你的命令,正如大海不越过海岸的界限。

Verse 37

त्वं नः सुहृत्पिता माता लोकानां च गुरुर्विभो / तस्मादस्मान्महाभाग परित्रातुं त्वमर्हसि

噢至尊!你是我们的挚友、父亲、母亲,也是诸世界的导师;因此,噢大福者,唯你应当护佑拯救我们。

Verse 38

जैमिनिरुवाच इति तेषां वचः श्रुत्वा वसिष्ठो भगवानृषिः / शनैर्विलोकयामास शरणं समुपागतान्

阇弥尼说:听了他们的话后,圣仙婆悉吒缓缓注视那些前来归依求护的人。

Verse 39

वृद्धस्त्रीबालभूयिष्ठान्हतशेषान्नृपान्वयान् / दृष्ट्वा त्वतप्यद्भगवान्सर्वभूतानुकंपकः

见到那些在屠戮后仅存的王族后裔,多是老人、妇女与孩童,慈悲一切众生的圣者心中悲悯而动。

Verse 40

चिरं निरूप्य मनसा तान्विलोक्य च सादरम् / उज्जीवयञ्छनैर्वाचा मा भैष्टेति महामतिः

他在心中久加思量,又恭敬地望着他们,伟智者以柔和之语安慰道:“莫要恐惧。”

Verse 41

अथावोचन्महाभागः कृपया परयान्वितः / समये स्थापयामास राज्ञस्ताञ्जीवितार्थिनः

于是那位大福德者怀着至深慈悲开口,在适当之时安置并保全了那些求生的诸王。

Verse 42

भूपव्या कोपदग्धं नृपकुलविहिताशेषधर्मादपेतं कृत्वा तेषां वसिष्ठः समयमवनिपालप्रतिज्ञानिवृत्त्यै / गत्वा तं राजवर्यं स्वयमथ शनकैः सांत्वयित्वा यथावत्सप्राणानामरीणामपगमनविधावभ्यनुज्ञां ययाचे

见王族在王道上为怒火所灼、尽失诸法,婆悉吒为使君王誓愿得以了结而立下时限;继而亲往那位上乘之王前,徐徐安慰,并请求准许以使诸敌得以保命退去之法。

Verse 43

सक्रोधो ऽपि महीपतिर्गुरुवचः संभावयंस्तानरीन्धर्मस्य स्वकुलोचितस्य च तथा वेषस्य संत्यागतः / श्रौतस्मार्त्तविभिन्नकर्मनिरतान्विप्रैश्च दूरोञ्झितान्सासून्केवलमत्यजन्मृतसमानेकैकशः पार्थिवान्

国王虽怀怒,仍敬重师长之言而饶恕诸敌王;却令他们舍弃本族应守之法与其服饰。既离吠陀与传承之仪,又为婆罗门所远弃者,他只让其保住性命——一一如同死者。

Verse 44

अर्द्धमुण्डाञ्छकांश्चक्रे पल्हवान् श्मश्रुधारिणः / यवनान्विगतश्मश्रून्कांबोजांश्चबुकान्वितान्

他使释迦人半剃其首,使帕拉婆人蓄须;使夜婆那人无须,又使甘婆阇人带有下颌之记。

Verse 45

एवं विरूपानन्यांश्च स चकार नृपान्वयान् / वेदोक्तकर्मनिर्मुक्तान्विप्रैश्च परिवर्जितान्

同样地,他也使其他王族变得形貌失常;他们脱离了吠陀所规定的行持,并为婆罗门所摒弃。

Verse 46

कृत्वा संस्थाप्य समये जीवतस्तान्व्य सर्जयत् / ततस्ते रिपवस्तस्य त्यक्तस्वाचारलक्षणाः

在那时制定了规矩之后,他放了他们一条生路。于是,他的那些敌人放弃了自己特有的仪式和行为准则。

Verse 47

व्रात्यतां समनुप्राप्ताः सर्ववर्णविनिन्तिताः / धिक्कृता सततं सर्वेनृशंसा निरपत्रपाः

他们沦为堕落者(Vratyas),受到所有种姓的谴责。他们不断受到众人的唾弃,残忍而无耻。

Verse 48

क्रूराश्च संघशो लोके बभूवुर्म्लेछजातयः

残酷的蔑戾车(Mleccha,野蛮人)部族成群结队地出现在这世上。

Verse 49

मुक्तास्तेनाथ राज्ञा शकयवनकिरातादयः सद्य एव त्यक्तस्वाचारवेषा गिरिगहनगुहाद्याशयाः संबभूवुः / एता अद्यापि सद्भिः सततमवमता जातयो ऽसत्प्रवृत्त्या वर्त्तन्ते दुष्टचेष्टा जगति नरपतेः पालयन्तः प्रतिज्ञाम्

被那位国王释放后,塞种人(Sakas)、希腊人(Yavanas)、基拉塔人(Kiratas)等人立即放弃了自己的习俗和服饰,躲藏在深山和洞穴中。直到今天,这些被正人君子所蔑视的部族,仍以邪恶的行为存在于世,应验了国王的誓言。

Frequently Asked Questions

The Solar dynasty context is foregrounded through Sagara—an Ikṣvāku-vaṃśa king ruling from Ayodhyā (Kosala), presented as a key figure in Sūryavaṃśa narrative history.

Sagara’s digvijaya-style march and decisive war against the Haihayas, culminating in their defeat and the destruction/burning of their city (as indicated in the sample verses).

No. The sampled content belongs to the Sagara-upākhyāna (royal genealogy/war narrative), not the Lalitopākhyāna; it does not center on Śākta vidyā/yantra material.