
Jayā-devāḥ Mantraśarīratvaṃ, Vairāgya, and Brahmā’s Śāpa (The Jayas’ Refusal of Progeny)
本章(以苏多 Sūta 叙述为框架)说到梵天 Brahmā 创造一类名为“胜者”Jayā 的神众,明言其为“咒身”(mantraśarīra),原为 prajā——繁衍与创化延续而设。文中以近似列举的方式出现多种祭仪/宇宙职能之名,如 Darśa、Paurṇamāsa、Bṛhatsāman、Rathantara,以及 Citi/Suciti、Ākūti/Kūti、Vijñāta/Vijñātā、Manā,并以 Yajña 为第十二,显示这些 Jayā 更像是吠陀祭祀结构的化身,而非单纯拟人之形。然诸 Jayā 观业(karma)之果终归败坏,又念生与续生之重担,遂生厌离,舍 artha、dharma、kāma,求 ajanmā(不生),并以凝练之心趋向“至上之智”。梵天视其为拒绝创化使命,遂加呵责,并诅咒其将经历七次“回返”(āvṛtti)。诸 Jayā 俯首请罪,梵天复申宇宙秩序之理:众生并非自作主宰,吉凶诸果皆在由他所出之法度中展开。此章因此呈现 nivṛtti(出离/止息)与 pravṛtti(繁衍与祭仪之行)在创世(Sṛṣṭi)进程中的张力。
Verse 1
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे स्वयंभूत्रैगुण्यस्वरूपवर्णनं नाम तृतीयो ऽध्यायः सूत उवाच ब्रह्मणा वै मुखात्सृष्टा जया देवाः प्रजेप्सया / सर्वे मन्त्रशरीरास्ते स्मृता मन्वन्तरेष्विह
如是,在《圣梵卵大摩诃补罗那》中,风神所宣说的中分第三“引入之足”,第三章名为“自生者三德本性之相状描述”。苏多曰:为求繁衍众生,梵天自其口中化生名为“胜”(Jayā)之诸天;彼等皆被忆念为“咒体”,并于诸摩奴劫中在此记述。
Verse 2
दर्शश्च पौर्णमासश्च बृहत्साम रथन्तरम् / चितिश्च सुचितिश्चैव ह्याकूतिः कूतिरेव च
达尔沙与满月祭(Paurṇamāsa),《大萨摩》与《罗檀多罗》;又有奇提(Citi)与苏奇提(Suciti),以及阿库提(Ākūti)与库提(Kūti)。
Verse 3
विज्ञातश्चैव विज्ञाता मना यज्ञश्च द्वादशः / दाराग्निहोत्रसंबन्धं वितत्य यजतेति च
又有毗阇那多(Vijñāta)与毗阇那塔(Vijñātā),摩那(Manā)以及第十二者“祭”(Yajña);并说:他铺陈妻(dārā)与火供(agnihotra)之联系而行祭祀。
Verse 4
एवमुक्त्वा तु तान्ब्रह्मा तत्रैवान्तरधात्प्रभुः / ततस्ते नाभ्यनन्दन्त तद्वाक्यं परमेष्ठिनः
如是言毕,主梵天即于彼处隐没。于是他们并未欢喜领受至上者(Parameṣṭhin)之言。
Verse 5
संन्यस्येह च कर्माणि वासनाः कर्मजाश्च वै / यमेष्वंवावन्तिष्ठन्ते दोषं दृष्ट्वा तु कर्मसु
在此他们舍弃诸业,也舍弃由业所生的习气;见业中有过失,便安住于持戒与律仪(yama、niyama)。
Verse 6
क्षयाति शययुक्तं च ते दृष्ट्वा कर्मणां फलम् / जुगुप्संतः प्रसूतिं च निःसत्त्वा निर्ममाभवन्
他们见业果系于衰败与过盛,遂厌离生死流转;心无所著,亦无“我所”之念。
Verse 7
अजन्म काङ्क्षमाणास्ते निर्मुक्ता दोषदर्शिनः / अर्थं धर्मं च कामं च हित्वा ते वै व्यवस्थिताः
他们希求无生之境,洞见过失而得解脱;舍弃财利(artha)、法义(dharma)与欲乐(kāma),安然住立。
Verse 8
परमं ज्ञानमास्थाय तत्संक्षिप्य सुसंस्थिताः / तेषां तु तमभिप्रायं ज्ञात्वा ब्रह्मा तु कोपितः
他们依止至上智慧,将其摄为要义而安住;梵天知其心意,便生嗔怒。
Verse 9
तानब्रवीत्ततो ब्रह्मा निरुत्साहान्सुरानथ / प्रजार्थमिह यूयं वै मया सृष्टाः स्थ नान्यथा
于是梵天对那些意志消沉的天众说道:“你们确是我为繁衍众生而造作于此,并非为他。”
Verse 10
प्रसूयध्वं यजध्वं चेत्युक्तवानस्मि वः पुरा / यस्माद्वाक्यमनादृत्य मम वैराग्यमास्थिताः
我从前曾对你们说:“当繁衍后嗣,行祭祀(yajña)。”然而你们轻慢我的言语,反而安住于离欲的无著(vairāgya)。
Verse 11
जुगुप्समानाः स्वं जन्म संततिं नाभ्यनन्दत / कर्मणां न कृतो ऽभ्यासो ह्यमृतत्वाभिकाङ्क्षया
他们厌弃自身的出生与后裔,因而不以为喜。即便渴求不死,也未曾勤修诸业行(karma)。
Verse 12
तस्माद्यूयमिहावृत्तिं सप्तकृत्वो ह्यवाप्स्यथ / ते शप्ता ब्रह्मणा देवा जयास्तं वै प्रसादयन्
因此你们将在此经历七次回转(āvṛtti),即七度再生。被梵天诅咒的诸天“阇耶”(Jaya)便设法使他息怒得悦。
Verse 13
क्षमास्माकं महादेव यदज्ञानात्मकं प्रभो / प्रणतान्वै सानुनयं ब्रह्मा तानब्रवीत्पुनः
大自在天啊,主宰啊!凡因无明而起之过,愿垂赦宥。他们俯伏哀求之时,梵天又再次对他们开口。
Verse 14
लोके ऽप्यथानुभुञ्जीत कः स्वातन्त्र्यमिहार्हति / मयागतं तु सर्वं हि कथमच्छन्दतो मम
即在世间亦如是受用;此处谁堪称有绝对自主?一切皆由我而来;若非我意,岂能成就?
Verse 15
प्रतिपत्स्यन्ति भूतानि शुभं वा यदि वोत्तरम् / लोके यदपि किञ्चिद्वैशं वा शं वा व्यवस्थितम्
众生将承受吉或凶,随其所定之果;世间凡被安立为祥瑞或不祥者,皆如是发生。
Verse 16
बुद्ध्यात्मना मया व्याप्तं को मां लोके ऽतिवर्त्तयेत् / भूताना मीहितं यच्च यच्चाप्येषां विचिन्तितम्
我以智慧之我遍满一切;世间谁能逾越我?众生所欲求者与其心中所思量者,皆在其中。
Verse 17
तथोपचरितं यच्च तत्सर्वं विदितं मम / मया बद्धमिदं सर्वं चजगत्स्थावरजङ्गमम्
凡一切所行所作,皆为我所知;此一切世界——静者与动者——皆由我所系缚。
Verse 18
आशामयेन बन्धेन कस्तं छेत्तुमिहोत्सहेत् / यस्माद्वहति दृप्तो वै सर्वार्थमिह नान्यथा
由希求所成之缚,谁敢在此斩断?因为正是它以傲然之势,牵载此世一切所求——别无他途。
Verse 19
इति कर्माण्यनारभ्य कामं छन्दाद्विमोक्षते / एवं संभाष्य तान्देवान् जयानध्यात्मचेतसः
“如是,不起诸业,便能随愿解脱欲望。”说罢,内证安住的阇耶与诸天如是对谈。
Verse 20
अथ वीक्ष्य पुनश्चाह ध्रुवं दड्यान्प्रजापतिः / यस्मान्मानभिसंधाय सन्यासादिः कृतः सुराः
于是再度观视后,生主(Prajāpati)又对德鲁瓦说:由于系念于我慢,诸天遂行出家(sannyāsa)等清净行。
Verse 21
तस्मात्स विपुलायत्तो व्यापारस्त्वथ मत्कृतः / भविता च सुखोदर्के दिव्यभावेन जायताम्
因此,这宏大的事业由我所安排;其结局必成安乐——愿你们以神圣之性而出生。
Verse 22
आत्मच्छन्देन वो जन्म भविष्यति सुरोत्तमाः / मन्वन्तरेषु संसिद्धाः सप्तस्वाविर्भविष्यथ
诸位最胜天神,你们将随自心之愿而出生;在诸摩奴劫(manvantara)中圆满成就后,你们将七度显现。
Verse 23
वैवस्वतान्तेषु सुरास्तथा स्वायंभुवादिषु / एवं च ब्रह्मणा तत्र श्लोको गीतः पुरातनः
在毗婆斯瓦特(Vaivasvata)摩奴劫之末,以及在自生(Svāyambhuva)等诸摩奴劫中,诸天亦复如是;当时梵天唱诵了这首古老偈颂。
Verse 24
त्रयी विद्या ब्रह्ममयप्रसूतिः श्राद्धं तपो यज्ञमनुप्रदानम् / एतानि नित्यैः महसा रजोभिर्भूत्वा विभुर्वसते ऽन्यत्प्रशस्तम्
三吠陀之学(trayī-vidyā)乃梵性所生;祭祖供养(śrāddha)、苦行、祭祀(yajña)与布施——化为这些恒常光辉之后,遍在之主安住其中;而除此之外,另有更可称颂者。
Verse 25
एवं श्लोकार्थमुक्त्वा तु जयान्देवानथाब्रवीत् / वैवस्वतेंऽतरेतीते मत्समीपमिहैष्यथ
他如此阐明偈颂之义后,对名为“胜”(Jaya)的诸天说道:“待毗婆斯瓦特(Vaivasvata)摩奴劫期过去,你们当来此至我近前。”
Verse 26
ततो देवस्तिरोभूत ईश्वरो ङ्यकुतोभयः / प्रपन्नाधारणामाद्यां युक्त्वा योगबलान्विताम्
于是那位神——至主、无所畏惧者——隐没不见;并以瑜伽之力安住于最初的“持念”(dhāraṇā),作为归依者的依止。
Verse 27
ततस्तेन रुषा शप्तास्ते ऽभवन्द्वादशाजिताः / जया इति समाख्याताः कृता एवं विसन्निभाः
随后他们因他的忿怒而受诅咒,化为十二位“不败者”(Ajita);被称作“胜”(Jaya),其境遇便如此定下。
Verse 28
ततः स्वायंभुवे तस्मिन्सर्गे ऽतीते तु वै सुराः / पुनस्ते तुषिता देवा जाताः स्वारोचिषेंऽतरे
随后,当斯瓦扬布瓦(Svāyambhuva)摩奴劫期的那一轮创造过去后,那些天众又在斯瓦罗奇沙(Svārociṣa)摩奴劫期中转生为“兜史多”(Tuṣita)诸天。
Verse 29
उत्तमस्य मनोः पुत्राः सत्यायां जज्ञिरे तदा / ततः सत्याः स्मृता देवा औत्तमे चान्तरे मनोः
当时,乌塔摩(Uttama)摩奴的诸子由萨提娅(Satyā)所生;因此在乌塔摩的摩奴劫期中,那些天神被称念为“真实”(Satya)诸天。
Verse 30
हरिण्यां नाम तुषिता जज्ञिरे द्वादशेव तु / हरयोनाम ते देवा यज्ञभाजस्तदाभवन्
在名为“哈利尼娅”的摩奴劫中,兜史多天神共十二位诞生。那时他们被称为“哈罗耶”,并成为祭祀(yajña)供分的受领者。
Verse 31
ततस्ते हरयो देवाः प्राप्ते चारिष्ठवेन्तरे?// विकुण्ठायां पुनस्ते वै वरिष्ठा जज्ञिरे सुराः
随后,当“恰里什塔”摩奴劫到来时,那些哈罗耶天神又在“毗昆陀”中再生,成为最尊胜的天众。
Verse 32
वैकुण्ठा नाम ते देवाः पञ्चमस्यान्तरे मानोः / ततस्ते वै पुनर्देवा वैकुण्ठाः प्राप्य चाक्षुषम्
在第五位摩奴的摩奴劫中,他们被称为“毗昆陀天”。随后,这些毗昆陀天又进入了“恰克舒沙”摩奴劫。
Verse 33
ततस्ते वै पुनः साध्याः संक्षीणे चाक्षुषेन्तरे / उपस्थिते पुनः सर्गे मनोर्वैवस्वतस्य ह
随后,当“恰克舒沙”摩奴劫终尽时,他们又被称为“萨达亚”。当毗婆斯瓦特摩奴时代的新一轮创造出现时,他们再次显现。
Verse 34
अंशेन साध्यास्ते ऽदित्यां मारीचात्कश्यपात्पुनः / जज्ञिरे द्वादशादित्या वर्त्तमानेन्तरं सुराः
这些萨达亚天以“分身”(aṃśa)之相,再次由出自摩利支系的迦叶,使阿底提怀胎而生。在现行的摩奴劫中,他们成为十二位阿底提耶天。
Verse 35
यदा चैते समुत्पन्नाश्चाक्षुषस्यान्तरे मनोः / शप्ताः स्वयंभुवा साध्या जज्ञिरे द्वादशामराः
当他们在恰克舒萨(Cākṣuṣa)摩奴劫、摩奴之际出现时,被自生者(Svayambhū)诅咒的萨提亚(Sādhya)化生为十二位不死天神。
Verse 36
एवं शृणोति यो मर्त्योजयस्तस्य भवेत्सदा / जयानां श्रद्धया युक्तः प्रत्यध्यायं तु गच्छति
凡人若如是聆听,便常得胜利;以信敬(śraddhā)相应于“胜利”之颂,他将逐章而进。
Verse 37
इत्येता वृत्तयः सप्त देवानां जन्मलक्षणाः / परिक्रान्ता मया वो ऽद्या किं भूयः श्रोतुमिच्छथ
如是,关于诸天出生之相的七段事迹,我今日已为你们述尽;你们还想再听什么?
No royal or rishi Vamsha is formally cataloged in the sampled passage; the focus is Srishti-administration: Brahmā’s creation of the Jayas as functional/mantra-bodied beings and the enforcement of their role in cosmic continuity.
These names point to Vedic-sacrificial and Sāman structures, implying the Jayas embody ritual/cosmic functions (mantraśarīra) rather than acting only as individual personalities—linking creation directly to yajña as a sustaining mechanism.
It encodes compulsory participation in cyclical existence: renunciation that rejects the procreative mandate is checked by a cosmological rule of return, aligning individual aspiration for ajanmā with the larger Srishti requirement of continuity across cycles.