
Prajāpati-vaṃśānukīrtana — Genealogical Enumeration of Progenitors (Dharma’s Line and the Sādhyas)
本章开端,诸仙请求在毗婆斯瓦塔(Vaivasvata)摩奴万多罗的背景下,更详尽地叙述天神(deva)、达那婆(dānava)与代底耶(daitya)的起源。苏多(Sūta)遂以“法”(Dharma)为中心,按次第展开谱系:先列举法的诸位妻子——由达克沙·普罗切塔萨(Dakṣa Prācetasa)所嫁的十位女儿——继而叙述其后裔,尤重十二位一类的萨陀耶(Sādhyas),为通晓者所称“超越诸天”。随后又追述诸神众在历代摩奴万多罗中反复显现与更名(如Tuṣitas、Satyas、Haris、Vaikuṇṭhas等),强调梵天(Brahmā)之诅咒与周期性再显如何决定其位格。所引部分末尾,将这些循环联系到那罗—那罗延(Nara–Nārāyaṇa)等著名降生,并提及毗婆识(Vipaścit)、因陀罗(Indra)、萨提亚(Satya)与哈利(Hari)在更早摩奴万多罗中的归属。总体而言,此章更像依摩奴万多罗年代编排的谱系索引,而非单线叙述的“最初创造”。
Verse 1
इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे प्रजापतिवंशानुकीर्त्तनं नाम द्वितीयो ऽध्यायः ऋषय ऊचु / देवानां दानवानां च दैत्यानां चैव सर्वशः / उत्पत्तिं विस्तरेणैव ग्रूहि वैवस्वतेंऽतरे
如是,在《圣梵卵大摩诃往世书》中,风神婆由(Vāyu)所宣说的中篇第三引论品,第二章名为“颂述生主(Prajāpati)诸族系”。诸仙人曰:“请于毗婆斯瓦特(Vaivasvata)摩奴期中,详说诸天、达那婆与代底耶之起源。”
Verse 2
सूत उवाच धर्म्मस्यैव प्रवक्ष्यामि निसर्गन्तं निबोधत / अरुन्धतीवसुर्जामालंबा भानुर्मरुत्वती
苏多曰:“我将宣说达摩之族系,请谛听:阿伦达蒂、婆苏、阇摩、阿蓝婆、婆奴与摩鲁特瓦蒂。”
Verse 3
संकल्पा च मुहूर्त्ता च साध्या विश्वा तथैव च / धर्मस्य पत्न्यो दश ता दक्षः प्राचेतसो ददौ
桑迦尔帕、穆呼尔塔、萨达雅、毗湿瓦等——达摩共有十位妻子,皆由普罗切塔萨·达克沙所赐。
Verse 4
साध्यापुत्रास्तु धर्मस्य साध्या द्वादशजज्ञिरे / देवेभ्यस्तान्परान्देवान्दैवज्ञाः परिचक्षते
达摩与萨达雅所生之子为十二位“萨达雅”;通晓神道者称其为超越诸天之更上之神。
Verse 5
ब्राह्मणा वै मुखात्सृष्टा जया देवाः प्रजेप्सया / सर्वे मन्त्रशरीरस्ते समृता मन्वन्तरेष्विह
婆罗门由口而生;为求繁衍众生,名为“胜(Jayā)”之诸天出现。彼等皆为真言之身,于诸摩奴期中被忆念称述。
Verse 6
दर्शश्च पौर्णमासश्च बृहद्यच्च रथन्तरम् / वित्तिश्चैव विवित्तिश्च आकूतिः कूतिरेव च
达尔沙祭与满月祭,以及《布里哈德》与《罗坦塔拉》;又有“维蒂”“毗维蒂”“阿库蒂”“库蒂”——皆为祭祀(yajña)之圣名。
Verse 7
विज्ञाता चैव विज्ञातो मनो यज्ञस्तथैव च / नामान्येतानि तेषां वै यज्ञानां प्रथितानि च
“毗阇那塔”“毗阇那陀”,以及“意祭(摩诺-祭)”;这些确是他们诸祭祀(yajña)所著称的名号。
Verse 8
ब्रह्मशापेन तेजाताः पुनः स्वायंभुवे जिताः / स्वारोचिषे वै तुषिताः सत्यश्चैवोत्तमे पुनः
因梵天的诅咒,他们失却威光;复于斯瓦扬布瓦摩奴期被征服。于斯瓦罗奇沙摩奴期称为“兜悉多”,而在乌塔摩摩奴期又再名为“萨提亚”。
Verse 9
तामसे हरयो नाम वैकुण्ठा रेवतान्तरे / ते साध्याश्चाक्षुषे नाम्ना छन्दजा जज्ञिरे सुराः
在塔摩萨摩奴期,他们名为“哈利”;在雷瓦塔摩奴期,他们称“毗昆陀”。而在恰克舒沙摩奴期,他们以“萨达亚”之名出现,为由“韵律(Chandas)”所生的天神。
Verse 10
धर्मपुत्रा महाभागाः साध्या ये द्वादशामराः / पूर्वं समनुसूयन्ते चाक्षुषस्यान्तरे मनोः
那十二位福德具足的萨达亚不死神,乃达摩之子;在恰克舒沙摩奴的摩奴期中,自古即被列数在先。
Verse 11
स्वारोचिषेंऽतरे ऽतीता देवा ये वै महौजसः / तुषिता नाम ते ऽन्योन्यमूचुर्वै चाक्षुषेंऽतरे
在斯瓦罗奇沙劫期中,昔日那些大威光的诸天已然过去;名为“兜史多”(Tuṣita)的诸天,在恰克舒沙劫期中彼此说道。
Verse 12
किञ्चिच्छिष्टे तदा तस्मिन्देवा वै तुषिताब्रुवन् / एतामेव महाभागां वयं साध्यां प्रविश्य वै
当其中尚余些许之时,兜史多诸天说道:“大福德者啊,我们将以‘萨陀耶’(Sādhya)之身进入其中。”
Verse 13
मन्वन्तरे भविष्यामस्तन्नः श्रेयो भविष्यति / एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः
“我们将在劫期中出现;那将是我们的吉祥。”如此说罢,他们都安住于恰克舒沙·摩奴的时代之中。
Verse 14
तस्यां द्वादश संभूता धर्मात्स्वायंभुवात्पुनः / नरनारायणो तत्र जज्ञाते पुनरेव हि
在那里,又从自生的达摩(Svāyaṃbhuva Dharma)而生出十二位;并且就在那处,纳罗与那罗延(Nara-Nārāyaṇa)确实再度诞生。
Verse 15
विपश्चिदिन्द्रो यश्चाभूत्तथा सत्यो हरिश्च तौ / स्वारोचिषेंऽतरे पूर्वमास्तां तौ तुषितासुतौ
毗婆室与因陀罗,以及萨提耶与哈利——这二位在往昔的斯瓦罗奇沙劫期中,曾为兜史多族之子。
Verse 16
तुषितानां तु साध्यात्वे नामान्येतानि चक्षते / मनो ऽनुमन्ता प्राणश्च नरो ऽपानश्च वीर्यवान्
在兜率天众成就为“萨陀耶”(Sādhya)之位时,所称名号为:意(Manas)、许可者(Anumantā)、气息(Prāṇa)、人者(Nara)与雄健之下行气(Apāna)。
Verse 17
वितिर्नयो हयश्चैव हंसो नारायणस्तथा / विभुश्चापि प्रभुश्चापि साध्या द्वादश जज्ञिरे
维提(Viti)、尼耶(Naya)、哈耶(Haya)、天鹅(Haṃsa)、那罗延(Nārāyaṇa),以及毗布(Vibhu)与普拉布(Prabhu)——如是十二位萨陀耶(Sādhya)诞生。
Verse 18
स्वायंभुवैंऽतरे पूर्वं ततः स्वारो चिषे पुनः / नामान्यासन्पुनस्तानि तुषितानां निबोधत
先在娑耶姆布瓦(Svāyaṃbhuva)摩奴劫中,继而又在斯瓦罗奇沙(Svārociṣa)摩奴劫中——兜率天众的那些名号仍复如前;汝当知之。
Verse 19
प्राणापानावुदानश्च समानो व्यान एव च / चक्षुः श्रोत्रं रसो घ्राणं स्पर्शो बुद्धिर्मनस्तथा
上行气Prāṇa、下行气Apāna、升举气Udāna、平衡气Samāna、遍行气Vyāna;以及眼、耳、味、嗅、触、智(buddhi)与意(manās)。
Verse 20
नामान्येतानि वै पूर्वं तुषितानां स्मृतानि च / वसोस्तु वसवः पुत्राः साध्यानामनुजाः स्मृताः
这些名号先前被忆念为兜率天众之名;而“婆苏”(Vasu)之子诸婆苏,被记为诸萨陀耶(Sādhya)的弟辈。
Verse 21
धरो ध्रुवश्च सोमश्च आयुश्चैवानलो ऽनिलः / प्रत्यूषश्च प्रभासश्च वसवो ऽष्टौ प्रकीर्तिताः
达罗、德鲁瓦、苏摩、阿瑜、阿那罗、阿尼罗、普拉提尤沙与普拉婆娑——此八位被称为八大婆苏。
Verse 22
धरस्य पुत्रो द्रविणो हुतहव्यो रजस् तथा / ध्रुवपुत्रो ऽभवत्तात कालो लोकाप्रकालनः
达罗之子为德拉维那、胡塔哈维亚与罗阇斯;而德鲁瓦之子,噢贤者,是迦罗——调御诸世界者。
Verse 23
सोमस्य भगवान्वर्चा बुधश्च ग्रहबौधनः / धरोर्मी कलिलश्चैव पञ्च चन्द्रमसः सुताः
苏摩之子有薄伽梵瓦尔恰、布陀(启迪诸“执持者”行星之智),以及达罗尔弥、迦利罗——共为月神旃陀罗五子。
Verse 24
आयस्य पुत्रो वैतण्ड्यः शमः शान्तस्तथैव च / स्कन्दः सनत्कुमारश्च जज्ञे पादेन तेजसः
阿瑜之子为毗坦底耶、沙摩与善多;又由光威(tejas)之一分,诞生了斯坎达与萨那特库玛罗。
Verse 25
अग्नेः पुत्रं कुमारं तु स्वाहा जज्ञे श्रिया षृतम् / तस्य शाखो विशाखश्च नैगमेयश्च प्रष्टजाः
斯瓦哈以吉祥之力(室利)生下火神阿耆尼之子库玛罗;其子为沙迦、毗沙迦与奈伽梅耶(普拉什塔阇)。
Verse 26
अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः / अविज्ञान गतिश्चैव द्वौ पुत्रावनिलस्य च
阿尼罗(Anila)的妻子是湿婆女神希瓦(Śivā);她生下名为摩诺阇婆(Manojava)的儿子。阿尼罗另有两子:阿毗阇那(Avijñāna)与伽提(Gati)。
Verse 27
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् / द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ
据说普拉提尤沙(Pratyūṣa)之子是名为提婆罗(Devala)的圣仙。提婆罗亦有二子,皆具忍德而聪慧。
Verse 28
बृहस्पतेश्तु भगिनी भुवना ब्रह्मवादिनी / योगसिद्धा जगत्कृत्स्नमशक्ता चरति स्म ह
布里哈斯帕提(Bṛhaspati)之妹名布婆那(Bhuvanā),为宣说梵(Brahman)之女圣者。她成就瑜伽悉地,得以无碍遍行于整个世界。
Verse 29
प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह / विश्वकर्मा सुतस्तस्याः प्रजापतिपतिर्विभुः
她是八位婆苏(Vasu)中第八位普罗婆娑(Prabhāsa)的妻子。她生下毗湿瓦羯磨(Viśvakarmā),为诸生主(Prajāpati)之主,威德广大。
Verse 30
विश्वेदेवास्तु विश्वाया जज्ञिरे दश विश्रुताः / क्रतुर्दक्षः श्रवः सत्यः कालः मुनिस्तथा
从维施瓦(Viśvā)诞生了著名的十位毗湿维天(Viśvedeva):克罗图(Kratu)、达克沙(Dakṣa)、室罗婆(Śrava)、萨提亚(Satya)、迦罗(Kāla)、牟尼(Muni)等。
Verse 31
पुरूरवो मार्द्रवसो रोचमानश्च ते दश / धर्मपुत्राः सुरा एते विश्वायां जज्ञिरे शुभाः
普鲁罗婆、玛尔德拉婆萨与罗遮摩那等十位吉祥天神,皆为达摩之子,由毗施婆而生于世间。
Verse 32
मरुत्वत्यां मरुत्वन्तो भानवो भानुजाः स्मृताः / मुहूर्ताश्च मुहूर्ताया घोषलंबा ह्यजायत
由摩鲁特瓦蒂生出摩鲁特万特;由婆努迦生出被称为婆那婆者;又由穆呼尔塔生出诸“穆呼尔塔”与“瞿沙楞婆”。
Verse 33
संकल्पायां तु संजज्ञे विद्वान्संकल्प एव तु / नव वीथ्यस्तु जामायाः पथत्रयमुपाश्रिताः
在“意愿女神”(Saṃkalpā)中,智者“意愿”(Saṃkalpa)诞生;而阇摩的九条“维提”依止于三条道路。
Verse 34
पृथिवी विषयं सर्वमरुन्धत्यामजायत / एष सर्गः समाख्यातो विद्वान्धर्मस्य शाश्वतः
由阿伦达蒂生出大地界的一切境域;此即为通晓永恒达摩的智者所宣说之“创生”。
Verse 35
मुहूर्ताश्चैव तिथ्याश्च प्रतिभिः सह सुव्रताः / नामतः संप्रवक्ष्यामि ब्रुवतो मे निबोधत
诸位持净戒者!诸“穆呼尔塔”与诸“提提”,并连同诸“普拉提毗”——我今将依名宣说;请谛听我言。
Verse 36
अहोरात्रविभागश्च नक्षत्राणि समाश्रितः / मुहुर्त्ताः सर्वनक्षत्रा अहोरात्रभिदस्तथा
昼夜的分段依托于诸宿(纳克沙特拉);在一切星宿中,诸“牟呼尔塔”(吉时)亦同样标示昼夜之别。
Verse 37
अहोरात्रकलानां तु षडशीत्यधिकाः स्मृताः / रवेर्गति विशेषेण सर्वर्त्तुषु च नित्यशः
昼夜的诸“分”(kalā)被记为多于八十六;依太阳运行的差别,此理在一切季节中恒常如此。
Verse 38
ततो वेदविदश्चैतां गतिमिच्छन्ति पर्वसु / अविशेषेषु कालेषु ज्ञेयः सवितृमानतः
因此,通晓吠陀者在诸“节分日”(parva)中求取此种运行;在无特殊之时,应依萨维特利(太阳)的度量而知。
Verse 39
रौद्रः सार्पस्तथा मैत्रः पित्र्यो वासव एव च / आप्यो ऽथ वैश्वदेवश्च ब्राह्मो मध्याह्नसंश्रितः
罗陀罗、蛇神、弥特罗、祖灵、婆娑婆、阿普、毗湿瓦提婆与梵天——这些(牟呼尔塔时段)皆依于正午。
Verse 40
प्राजापत्यस्तथैवेन्द्र इन्द्राग्नी निरृतिस्तथा / वारुणश्च यथार्यम्णो भगश्चापि दिनश्रिताः
生主、因陀罗、因陀罗与火神、尼利提、伐楼那、阿利耶曼与薄伽——这些(牟呼尔塔时段)亦安置于白昼的诸分。
Verse 41
एते दिनमुहूर्ताश्च दिवाकरविनिर्मिताः / शङ्कुच्छाया विशेषेण वेदितव्याः प्रमाणतः
这些是白昼的牟呼尔塔(时段),由太阳神所制定;应依测影杆(śaṅku)之影的差别,按正量而知。
Verse 42
अजैकपादहिर्बुध्न्यः पूषाश्वियमदेवताः / आग्नेयश्चापि विज्ञेयः प्राजापत्यस्तथैव च
阿阇一足(Ajaikapād)与阿希尔布德尼亚(Ahirbudhnya),以及普沙(Pūṣā)、阿湿毗尼双神与阎摩等为其神祇;同样还应知晓火神系(Āgneya)与生主系(Prājāpatya)。
Verse 43
सौम्यश्चापि तथादित्यो बार्हस्पत्यश्च वैष्मवः / सावित्रश्च तथा त्वाष्ट्रो वायव्यश्चेति संग्रहः
苏摩系(Saumya)、阿底提系(Āditya)、婆罗诃斯波提系(Bārhaspatya)与毗湿奴系(Vaiṣṇava);以及萨维特利系(Sāvitra)、特瓦什特利系(Tvāṣṭra)、风神系(Vāyavya)——此为总摄。
Verse 44
एते रात्रेर्मुहूर्त्ताः स्युः क्रमोक्ता दश पञ्च च / इन्दोर्गत्युदया ज्ञेया नाडिका आदितस्तथा
这些是夜间的牟呼尔塔,依次而说,共十五段;应由月亮的运行与出升来判知,并且起初也要知晓那ḍikā(计时单位)。
Verse 45
कालावस्थास्त्विमास्त्वेते मुहूर्त्ता देवताः स्मृताः / सर्वग्रहाणां त्रीण्येव स्थानानि विहितानि च
这些时间的状态被忆念为牟呼尔塔之神祇;而对一切行星(graha)而言,只规定了三处位置。
Verse 46
दक्षिणोत्तरमध्यानि तानि विद्याद्यथाक्रमम् / स्थानं जारद्गवं सध्ये तथैरावतमुत्तरम्
应依次了知它们分属南方、北方与中部:中部为阇罗陀伽婆之处,北方则为爱罗伐多(星道)。
Verse 47
वैश्वानरं दक्षिणतो निर्दिष्टमिह तत्त्वतः / अश्विनी कृत्तिका याम्यं नागवीथीति विश्रुता
此处如实说来,毗湿婆那罗位于南方;阿湿毗尼与克利底迦在阎摩之方(南方),此道名为“那伽星道”。
Verse 48
ब्राह्मं सौम्यं तथार्द्रा च गजवीथीति शब्दिता / पुष्याश्लेषे तथादित्यं वीथी चैरावती मता
“梵”“苏摩”“阿尔德罗”被称为“象星道”;而“阿底提耶”与“普舍”“阿湿勒沙”同属“爱罗伐底星道”。
Verse 49
तिस्रस्तु विथयो ह्येता उत्तरो मार्ग उच्यते / पूर्वोत्तरे च फल्गुन्यौ मघा चैवार्षभी स्मृता
这三条星道被称为“北方之路”(Uttaro Mārga)。在东北方,有两处“婆罗伽尼”与“摩伽”,被记为“阿尔沙毗星道”。
Verse 50
हस्तश्चित्रा तथा स्वाती गोवीथीति तु शब्दिता / ज्येष्ठा विशाखानुराधा वीथी जारद्गवी मता
“哈斯塔”“质多罗”“娑婆底”被称为“牛星道”;而“吉耶什塔”“毗舍佉”“阿奴罗陀”被认为是“阇罗陀伽毗星道”。
Verse 51
एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते / मूलं पूर्वोत्तराषाढे अजवीथ्याभिशब्दिते
此为三条“维提”(vīthi),称为“中道之路”。在“前北阿沙荼”(Pūrvottarāṣāḍhā)中,“牟罗”(Mūla)宿亦名“阿阇维提”(Ajavīthī)。
Verse 52
श्रवणं च धनिष्ठा च मार्गी शतभिषक्तथा / वैश्वानरी भाद्रपदे रेवती चैव कीर्त्तिता
室罗伐那(Śravaṇa)与檀尼什吒(Dhaniṣṭhā),以及舍多毗沙克(Śatabhiṣak)被称为“行道者”(mārgī)。在婆陀罗钵陀(Bhādrapada)中,毗湿瓦那丽(Vaiśvānarī)与勒伐底(Revatī)亦被称颂。
Verse 53
एतास्तु वीथयस्तिस्रो दक्षिणे मार्ग उच्यते / अष्टाविशति याः कन्या दक्षः सोमाय ता ददौ
此三条维提称为“南方之道”。那二十八位少女,达克沙(Dakṣa)尽皆嫁与并奉献给苏摩(Soma,月神)。
Verse 54
सर्वा नक्षत्रनाम्न्यस्ता ज्यौतिषे परिकीर्त्तिताः / तासामपत्यान्यभवन्दीप्तयो ऽमिततेजसः
凡以星宿(nakṣatra)为名者,皆在天文占星(jyotiṣa)中被称述。其后裔诞生时光辉炽盛,威光无量。
Verse 55
यास्तु शेषास्तदा कन्याः प्रतिजग्राह कश्यपः / चतुर्दशा महाभागाः सर्वास्ता लोकमातरः
当时其余的少女由迦叶波(Kaśyapa)纳受。那十四位大福德者,尽皆为“世间之母”(Lokamātā)。
Verse 56
अदितिर्दितिर्दनुः काष्ठारिष्टानायुः खशा तथा / सुरभिर्विनता ताम्रा मुनिः क्रोधवशा तथा
阿底提、底提、达努、卡什塔、阿里什塔、阿那尤、卡沙;又有苏拉毗、毗那塔、塔姆拉、牟尼与克罗陀瓦沙——皆为生主(Prajapati)之配偶。
Verse 57
कद्रूर्माता च नागानां प्रजास्तासां निबोधत / स्वायंभुवे ऽन्तरे तात ये द्वादश सुरोत्तमाः
迦德茹是诸那伽之母;当知其后裔。孩子啊,在自生者(Svayambhuva)之摩奴期中,有十二位最胜天神。
Verse 58
वैकुण्ठा नाम ते साध्या बभूवुश्चाक्षुषेंऽतरे / उपस्थितेंऽतरे ह्यस्मिन्पुनर्वैवस्वतस्य ह
名为“毗昆陀(Vaikuntha)”的萨陀耶诸神,出现在恰克舒萨摩奴期;当此间期到来时,随后又进入毗婆斯瓦特摩奴期。
Verse 59
आराधिता आदित्या ते समेत्योचुः परस्परम् / एतामेव महाभागामदितिं संप्रविश्य वै
诸阿底提耶因受供奉而欢喜,聚集相告曰:“唯当进入这位大福德的阿底提之中(由她而生)。”
Verse 60
वैवस्वतेंऽतरे ह्यस्मिन्योगादर्द्धेन तेजसा / गच्छेम पुत्रतामस्यास्तन्नः श्रेयो भविष्यति
在此毗婆斯瓦特摩奴期中,凭瑜伽之力,携我等半分威光,愿我们成为她的儿子;此将为我等带来最上吉祥。
Verse 61
एवमुक्त्वा तु ते सर्वे वर्त्तमानेंऽतरे तदा / जज्ञिरे द्वादशादित्या मारीयात्कश्यपात्पुनः
说罢,在那过渡的时期里;由迦叶波经由摩利支之女,再次诞生了十二位阿底提耶天神。
Verse 62
शतक्रतुश्च विष्णुश्च जज्ञाते पुनरेव हि / वैवस्वतेंऽतरे ह्यस्मिन्नरनारायणौ तदा
沙多迦罗图(因陀罗)与毗湿奴也确实再度降生;在此毗婆斯瓦特摩奴期中,当时他们显现为那罗与那罗延。
Verse 63
तेषामपि हि देवानां निधनोत्पत्तिरुच्यते / यथा सूर्यस्य लोके ऽस्मिन्नुदयास्तमयावुभौ
即便那些天神,也被说有生与灭;正如在此世间,太阳既有升起也有落下。
Verse 64
दृष्टानुश्रविके यस्मात्सक्ताः शब्दादिलक्षणे / अष्टात्मके ऽणिमाद्ये च तस्मात्ते जज्ञिरे सुराः
由于他们执著于所见与所闻之境,执著于声等诸相,并执著于以“微细”(阿尼玛)等为首的八种神通成就;因此他们转生为苏罗天众。
Verse 65
इत्येष विषये रागः संभूत्याः कारणं स्मृतम् / ब्रह्मशापेन संभूता जयाः स्वायंभुवे जिताः
因此,对诸境的贪著被忆为生起之因;由梵天诅咒而生的“阇耶”众,在自生摩奴期中被征服而败。
Verse 66
स्वारोचिषे वै तुषिताः सत्यश्चैवोत्तमे पुनः / तामसे हरयो देवा जाताश्चा रिष्टवे तु वै
在斯瓦罗奇沙(Svārociṣa)摩奴劫中,兜史多(Tuṣita)与萨提亚(Satya)诸天出现;在乌塔摩(Uttama)摩奴劫中亦复如是记载。于塔摩萨(Tāmasa)摩奴劫中,哈拉雅(Haraya)诸天诞生;并且为阿里什塔(Ariṣṭa)之故,诸天亦示现。
Verse 67
वैकुण्ठाश्चाश्रुषे साध्या आदित्याः सप्तमे पुनः / धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा
在阿什鲁沙(Āśruṣa)摩奴劫中,有毗昆陀(Vaikuṇṭha)与萨达亚(Sādhya)诸天;在第七摩奴劫中,阿底提耶(Āditya)诸神出现:达塔(Dhātā)、阿梨耶摩(Aryamā)、密特拉(Mitra)、伐楼那(Varuṇa)、安沙(Aṃśa)与婆伽(Bhaga)。
Verse 68
इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः / ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः
因陀罗(Indra)、毗婆斯梵(Vivasvān)、普沙(Pūṣā)与帕尔贾尼亚(Parjanya)被忆为第十位(阿底提耶)。其后为特瓦什特里(Tvaṣṭā),其后为毗湿奴(Viṣṇu);并且还提到阿阇迦尼亚(Ajaghanya)与阇迦尼亚阇(Jaghanyaja)。
Verse 69
इत्येते द्वादशादित्याः कश्यपस्य सुता विभोः / सुरभ्यां कश्यपाद्रुद्रा एकादश विजज्ञिरे
如是,这十二位阿底提耶(Āditya)乃大能迦叶波(Kaśyapa)之子;而由苏罗毗(Surabhī)与迦叶波所生者,为十一位鲁陀罗(Rudra)。
Verse 70
महादेवप्रसादेन तपसा भाविता सती / अङ्गारकं तथा सर्पं निरृतिं सदसत्पतिम्
蒙大自在天(Mahādeva)之恩,彼贞洁者(萨蒂,Surabhī)以苦行而成就;遂生阿伽罗迦(Aṅgāraka)、蛇族(Sarpa)、尼利提(Nirṛti)与萨达萨特帕提(Sadasatpati)。
Verse 71
अचैकपादहिर्बुध्न्यौ द्वावेकं च ज्वरं तथा / भुवनं चेश्वरं मृत्युं कपालीति च विशुतम्
阿柴迦跋陀与阿希尔布德尼亚为二,又有一位名为“热病”(Jvara)。此外,“世界”(Bhuvana)、“自在主”(Īśvara)、“死神”(Mṛtyu)与“持髑髅者”(Kapālī)之名亦著。
Verse 72
देवानेकादशैतांस्तु रुद्रांस्त्रिभुवनेश्वरान् / तपसोग्रेण महाता सुरभिस्तानजीजनत्
苏罗毗以宏大而炽烈的苦行之力,生出了那十一位鲁陀罗——三界之主。
Verse 73
ततो दुहितरावन्ये सुरभिर्देव्यजायत / रोहिणी चैव सुभगां गान्धवी च यशस्विनीम्
随后,女神苏罗毗又诞下两位女儿:吉祥的罗希尼与声名卓著的甘达维。
Verse 74
रोहिण्या जज्ञिरे कन्याश्चतस्रो लोकविश्रुताः / सुरूपा हंसकाली च भद्रा कामदुघा तथा
罗希尼生下四位闻名于世的女儿:苏鲁帕、汉萨迦梨、跋陀罗与迦摩杜伽。
Verse 75
सुषुवे गाः कामदुघा सुरूपा तनयद्वयम् / हंसकाली तु महिषान्भद्रायस्त्वविजातयः
迦摩杜伽生下诸牛;苏鲁帕生了两位儿子。汉萨迦梨生下水牛;而跋陀罗则生出名为“阿毗阇多”(Avijāta)的另一支后裔。
Verse 76
विश्रुतास्तु महाभागा गान्धर्व्या वाजिनः सुताः / उच्चैःश्रवादयो जाताः खेचरास्ते मनोजवाः
从乾闼婆女神甘达尔薇所生、骏马之王瓦吉那的吉祥之子皆闻名于世;乌柴希罗婆等诞生为行空之众,疾速如意念。
Verse 77
श्वेताः शोणाः पिशङ्गास्च सारङ्गा हरि तार्जुनाः / उक्ता देवोपवाह्यास्ते गान्धर्वियोनयो हयाः
据说他们有白、赤、黄褐、斑纹、金绿与“塔尔朱那”等色;这些出自乾闼婆女系的骏马,被称为堪作诸天乘骑。
Verse 78
भूयो जज्ञे सुरभ्यास्तु श्रीमांश्चन्द्रप्रभो वृषः / स्रग्वी ककुद्मान्द्युतिमा नमृतालयसंभवः
随后又从苏拉毗诞生一头吉祥雄牛,光辉如月;佩戴花鬘,隆背显著,辉耀夺目,却并非出自甘露之所。
Verse 79
सुरभ्यनुमते दत्तो ध्वजो माहेश्वरस्तु सः / इत्येते कश्यपसुता रुद्रादित्याः प्रकीर्त्तिताः
经苏拉毗允可,他被赐为大自在天(摩醯湿伐罗)的旗幡;如此,这些迦叶波之子被称颂为“鲁陀罗阿底提耶”。
Verse 80
धर्मपु पुत्राः स्मृताः साध्या विश्वे च वसवस्तथा / यथेन्धनवशाद्वह्निरेकस्तु बहुधा भवेत्
萨提耶、毗湿维与诸婆苏被忆为法(Dharma)之子;正如同一团火因燃料不同而呈现多种形态。
Verse 81
भवत्येकस्तथा तद्वन्मूर्त्तीनां स पिता महः / एको ब्रह्मान्तकश्चैव पुरुषश्चैति तत्र यः
祂唯是一者;祂是诸形相之大父。在彼处,那唯一者被称为梵天、安多迦与普鲁沙。
Verse 82
एकस्यैताः स्मृतास्तिस्रस्तनवस्तु स्वयंभुवः / ब्राह्मी च पौरुषी चैव कालाख्या चेति ताः स्मृताः
就那唯一的自生者而言,传说有三种身相:梵相、普鲁沙相,以及名为“时相”(迦罗)者。
Verse 83
या तत्र राजसी तस्य तनुः सा वै प्रजाकरी / मता सा या तु कालाख्या प्रजाक्षयकरी तु सा
其中,祂的“罗阇斯”之身被认为能生起众生;而名为“时相”(迦罗)者,则能令众生衰灭。
Verse 84
सात्त्विकी पौरुषी या तु सा तनुः पालिका स्मृता / राजसी ब्रह्मणो या तु मारीचः कश्यपो ऽभवत्
那具具足“萨埵”的普鲁沙之身,被记为护持者;而梵天那具“罗阇斯”之身中,生出摩利支与迦叶波。
Verse 85
तामसी चान्तकृद्या तु तदंशो विष्णुरुच्यते
至于那具属“昏暗”(塔摩斯)、能致终结之身,其分身被称为毗湿奴。
Verse 86
त्रैलोक्ये ताः स्मृतास्तिस्रस्तनवो वै प्रजाकरी / मता सा या तु कालाख्या प्रजाक्षयकरी तु सा
于三界之中,忆有三种身相能生众生;然名为“迦罗”(时)的那一相,被认为能令众生衰灭。
Verse 87
सृजत्यथानुगृह्णाति तथा संहरति प्रजाः / एवमेताः स्मृतास्तिस्रस्तनवो हि स्वयंभुवः
彼创造众生,继而施恩摄受,又复收摄毁灭众生;如是,斯为自生者(Svayambhū)之三身相所记。
Verse 88
प्राजापत्या च रौद्रा च वैष्णवी चेति तास्त्रिधा / एतास्तन्वः स्मृता देवा धर्मशास्त्रे पुरातने
其分为三:主生(Prajāpatya)、鲁陀罗(Raudra)与毗湿奴(Vaiṣṇavī)之相;在古老的《法论》中,这些身相被记为具神性。
Verse 89
सांख्ययोगरतैर्धीरैः पृथगेकार्थदर्शिभिः / अभिजातिप्रभावज्ञैर्मुनिभिस्तत्त्वदर्शिभिः
此乃沉毅之贤者、勤修数论与瑜伽者所言:虽各有分别,然同见一义;又知种姓之势,且为见真如之牟尼。
Verse 90
एकत्वेन पृथक्त्वेन तासु भिन्नाः प्रजास्त्विमाः / इदं परमिदं नेति ब्रुवते भिन्नदर्शिनः
以一体或差别之见观之,此诸众生于彼诸身相中各各不同;见解分歧者便说:“此为至上,此非至上。”
Verse 91
ब्रह्माणां कारणं के चित्केचिदाहुः प्रजापतिम् / केचिद्भवं परत्वेन प्राहुर्विष्णुं तथापरे
有人说宇宙之因是生主(Prajāpati);有人称婆婆(Bhava,湿婆)为至上;也有人说是毗湿奴。
Verse 92
अभिज्ञानेन संभूताः सक्तारिष्टविचेतसः / सत्त्वं कालं च देशं च कार्यं चावेक्ष्य कर्म च
他们虽由明知而起,却因执著与恐惧而心意摇动;遂考量善性(sattva)、时间、处所、所作之事与业行。
Verse 93
कारणं तु स्मृता ह्येते नानार्थेष्विह देवताः / एकं प्रशंसमानस्तु सर्वानेवप्रशसति
在此,这些神祇于多种义理上被忆为“因”;然赞颂其一者,实即赞颂一切。
Verse 94
एकं निन्दति यस्त्वेषां सर्वानेव स निन्दति / न प्रद्वेषस्ततः कार्यो देवतासु विजानता
若贬毁其中一尊,便是贬毁诸神;故明达之人不当对神祇生憎恶。
Verse 95
न शक्या ईश्वराज्ञातुमैश्वर्येण व्यवस्थिताः / एकत्वात्स त्रिधा भूत्वा संप्रमोहयति प्रजाः
主宰(Īśvara)之旨难以测知,因其安住于自在威权;他本为一,却现三相,使众生迷惑。
Verse 96
एतेषां वै त्रयाणां तु विचिन्वन्त्यन्तरं जनाः / जिज्ञासवः परीहन्ते सक्ता दुष्टा विचेतसः
世人于此三者之间寻求差别。即便求知者亦会迷失;执著、邪恶而心神散乱者更被迷惑所蔽。
Verse 97
इदं परमिदं नेति संरंभाद्भिन्नदर्शिनः / यातुधाना विशेषा ये पिशाचाश्चैव नान्तरम्
因执拗地说“此为至上,此非至上”,便生出差别之见。即使是夜叉魔类(yātudhāna)与毗舍遮(piśāca)等特殊形相,实亦无别。
Verse 98
एकः स तु पृथक्त्वेन स्वयं भूत्वा च तिष्ठति / गुणमात्रात्मिकाभिस्तु तनुभिर्मोहयन्प्रजाः
彼本为一者,却以差别之相自现而住。以唯由三德(guṇa)构成之身,令众生沉迷。
Verse 99
तेष्वेकं यजते यो वै स तदा यजते त्रयम् / तस्माद्देवास्त्रयो ह्येते नैरन्तर्येणधिष्टताः
于彼等中,若有人礼敬其一,即于彼时礼敬其三。是故此三神无间断地同住于一体之所依。
Verse 100
तस्मात्पृथक्त्वमेकत्वं संख्या संख्ये गतागतम् / अल्पत्वं वा बहुत्वं वा तेषु को ज्ञातुमर्हति
是故于彼等中,或别或一,数与计之往来,或少或多——谁能确知其真相?
Verse 101
तस्मात्सृष्ट्वानुगृह्णति ग्रसते चैव सर्वशः / गुणात्मकत्ववै कल्पये तस्मादेकः स उच्यते
因此,祂创造之后施以恩护,又从四方吞摄一切。祂被观为具足诸“德性”(三古那)之本体,故称为唯一者。
Verse 102
रुद्रं ब्रह्माणमिन्द्रं च लोकपालानृषीन्मनून् / देवं तमेकं बहुधा प्राहुर्नारायणं द्विजाः
鲁陀罗、梵天、因陀罗、护世者、仙圣与摩奴——这些皆为其相;二次生者以多种方式宣说那唯一的神为“那罗延”。
Verse 103
प्राजापत्या च रौद्री च तनुर्या चैव वैष्णवी / मन्वन्तरेषु वै तिस्र आवर्त्तन्ते पुनः पुनः
主生(Prajāpatya)、鲁陀罗(Raudrī)与毗湿奴(Vaiṣṇavī)这三种身相,在诸摩奴期中一再回旋再现。
Verse 104
क्षेत्रज्ञा अपि चान्ये ऽस्य विभोर्जायन्त्यनुग्रहात् / तेजसा यशसा बुद्ध्या श्रुतेन च बलेन च
凭此大能者的恩护,其他“知田者”(kṣetrajña)亦得出生,具足光辉、名望、智慧、圣闻(śruti)与力量。
Verse 105
जायन्ते तत्समाश्चैव तानपीमान्निबोधत / राजस्या ब्रह्मणोंऽशेन मारीचः कश्यपो ऽभवत्
与祂相似者亦会出生——你也当知晓。由具“激性”(rajas)之梵天一分,摩利支成为迦叶波。
Verse 106
तामस्यास्तस्य चांशेन कालो रुद्रः स उच्यते / सात्त्विक्याश्च तथांशेन यज्ञो विष्णुरजा यत
由其昏暗(tamas)之分,时间被称为鲁陀罗;由其清净(sattva)之分,毗湿奴以祭祀(Yajña)之体显现。
Verse 107
त्रिषु कालेषु तस्यैता ब्रह्ममस्तनवो द्विजाः / मन्वन्तरेष्विह स्रष्टुमावर्त्तन्ते पुनः पुनः
在三种时分之中,这些是梵天的伟大化身,婆罗门诸君;在诸摩奴劫中,它们为创造而一次又一次回返。
Verse 108
मन्वन्तरेषु सर्वेषु प्रजाः स्थावरजङ्गमाः / युगादौ सकृदुत्पन्नास्तिष्ठन्तीहाप्रसंयमात्
在一切摩奴劫中,诸有情——静者与动者——于劫初一次出生;因尚无毁灭之制约,便在此存续。
Verse 109
प्राप्ते प्राप्ते तु कल्पान्ते रुद्रः संहरति प्रजाः / कालो भूत्वा युगात्मासौ रुद्रः संहरते पुनः
每逢劫末来临,鲁陀罗便摄灭众生;化为时间(迦罗)、成为劫期之魂的他,又再度施行毁灭。
Verse 110
संप्राप्ते चैव कल्पान्ते सप्तरशिमर्दिवाकरः / भूत्वा संवर्त्तकादित्यस्त्रींल्लोकांश्च दहत्युत
当劫末到来,具七道光芒的日神化作“劫尽日”(Samvartaka Āditya),并焚烧三界。
Verse 111
विष्णुः प्रजानुग्रहकृत्सदा पालयति प्रजाः / तस्यां तस्यामवस्थायां तत उत्पाद्य कारणम्
毗湿奴恒以慈恩护持众生;在一切境位之中,彼亦为彼等生起之因。
Verse 112
सत्त्वोद्रिक्ता तु या प्रोक्ता ब्रह्मणः पौरुषी तनुः / तस्याशेन च विज्ञेयो मनोः स्वायंभुवेन्तरे
所谓以萨埵为胜的梵天之雄伟之身;由其分分,当知此现于自生摩奴之摩奴劫中。
Verse 113
आकृत्यां मनसा देव उत्पन्नः प्रथमं विभुः / ततः पुनः स वै देवः प्राप्ते स्वारोचिषे ऽन्तरे
彼全能之神最初以意念之形而生;其后至娑罗支沙摩奴劫时,彼神复又显现。
Verse 114
तुषितायां समुत्पन्नो ह्यजितस्तुषितैः सह / औत्तमे ह्यन्तरे वापि ह्यजितस्तु पुनः प्रभुः
于兜率天众中,不败者阿阇多与兜率众同生;在优多摩摩奴劫中,彼主阿阇多亦复再现。
Verse 115
सत्यायामभवत्सत्यः सह सत्यैः सुरोत्तमैः / तामसस्यातरे चापि स देवः पुनरेव हि
于萨提亚天众中,名为“萨提亚”者与称“萨提亚”的最胜天众同现;在塔摩萨摩奴劫中,彼神亦必复再现。
Verse 116
हरिण्यां हरिभिः सार्द्धं हरिरेव बभूव ह / वैवस्वतेन्तरे चापि हरिर्देवेः पुनस्तु सः
与哈里尼娅及诸哈里同在时,唯有哈里亲自显现。于毗婆斯瓦特摩奴期中,那同一位哈里亦再度由女神之胎降生。
Verse 117
वैकुण्ठो नामतो जज्ञे विधूतरजसैः सह / मरीचात्कश्यपाद्विष्णुरदित्यां संबभूव ह
他以“毗昆陀”之名诞生,并与离染诸天同现。出自摩利支系的迦叶之缘,毗湿奴在阿底提胎中降生。
Verse 118
त्रिभिः क्रमैरिमांल्लोकञ्जित्वा विष्णुस्त्रिविक्रमः / प्रत्यपादयदिन्द्राय दैवतैश्चैव स प्रभुः
毗湿奴以三步征服诸界,故名“三步者”(Trivikrama)。那位主宰与诸天同在,将王权归还于因陀罗。
Verse 119
इत्येतास्तनवो जाता व्यतीताः सप्तसप्तसु / मन्वन्तरेष्वतीतेषु याभिः संरक्षिताः प्रजाः
如是,这些化身之形在一组组七个摩奴期中出生而逝去;凭借它们,众生得以护持。
Verse 120
यस्माद्विश्वमिदं सर्वं जायते लीयते पुनः / यस्यांशेनामराः सर्वे जायन्ते त्रिदिवेश्वराः
由彼而生此一切宇宙,复又归融于彼;由彼之一分,诸不死天神、三天之主皆得出生。
Verse 121
वर्द्धन्ते तेजसा बुद्ध्या श्रुतेन च बलेन च / यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा
凡以威光(tejas)、智慧、所闻圣教与力量而增长者;一切具神圣威德(vibhūti)、具吉祥(śrī)且强盛的存在,皆如是显现。
Verse 122
तत्तदेवावगच्छध्वं विष्णोस्तेजोंऽशसंभवम् / स एव जायतेंऽशेन केचिदिच्छन्ति मानवाः
当知此理:此皆由毗湿奴之威光(tejas)的一分(aṃśa)而生;正是祂以分身而降生,为某些人所祈愿。
Verse 123
एके विवदमानास्तु दृष्टान्ताच्च ब्रुवन्ति हि / एषां न विद्यते भेदस्त्रयाणां द्युसदामिह
有人争辩并以譬喻而说:在此,这三位天界住者之间并无差别。
Verse 124
जायन्ते पोहयन्त्यं शैरीश्वरा योगमायया
这些“Śairīśvara”由瑜伽幻力(Yogamāyā)而生,亦以此幻力令(世间)迷惑。
Verse 125
तस्मात्तेषां प्रचारे तु युक्तायुक्तं न विद्यते / भूतानुवादिना माद्या मध्यस्था भूतवादिनाम्
因此,在他们的行事中不分合宜与不合宜;他们随从关于鬼神(bhūta)的传说,沉溺于酒,并在奉行“bhūtavāda”者之间充当中介。
Verse 126
भूतानुवादिनः सक्तस्त्रयश्चैव प्रवादिनाम् / परीक्ष्य चानुगृह्णन्ति निगृह्णन्ति खलान्स्वयम्
在诸说法者中有三类人沉迷于叙述众生之事;他们经由考察而施恩于善者,并亲自制伏恶人。
Verse 127
मत्तः पूर्व्वे च ते तस्मात्प्रभवश्च ततो ऽधिकाः / तथाधिकरणैरतैर्यथा तत्त्वनिदर्शकाः
他们甚至在我之前已然存在;因此其发生亦由我而起,却又被称为更为崇高;他们安住于能显现真理(tattva)的诸依处。
Verse 128
देवानां देवभूताश्च ते वै सर्वप्रवर्त्तकाः / कर्म्मणां महतां ते हि कर्त्तारो जगदीश्वराः
他们是诸天之天,实为一切运转的发动者;一切伟大事业皆由他们成就——他们即世界之主。
Verse 129
श्रुतिज्ञैः कारणैरेतैश्चतुर्भिः परिकीर्त्तिताः / बालिशास्ते न जानन्ति दैवतानि प्रभागशः
通晓圣闻(Śruti)的智者已宣说此四种因;而愚者却不能按其分位与差别认识诸神。
Verse 130
इमं चोदाहरन्त्यत्र श्लोकं योगेश्वरान्प्रति / कुर्याद्योगबलं प्राप्य तैश्च सर्वैर्महांश्चरेत्
此处为诸瑜伽自在者(Yogēśvara)引述此偈:得瑜伽之力者,当如是行,并与彼等一切同游于伟大道途。
Verse 131
प्राप्नुयाद्विषयांश्चैव पुनश्चोर्द्ध्व तपश्चरेत् / संहरेत पुनः सर्व्वान्सूर्य्यो ज्योतिर्गणानिव
他亦得诸境之乐,复又向上修行苦行;继而再度摄收一切,犹如太阳收敛万道光辉。
The chapter foregrounds Dharma’s familial line: Dharma’s ten wives (given by Dakṣa Prācetasa) and the emergence of the twelve Sādhyas as a key divine class, framed within manvantara-based recurrence.
It treats deity-classes as cyclical offices: groups such as the Tuṣitas, Satyas, Haris, and Vaikuṇṭhas appear in different manvantaras, sometimes due to conditions like Brahmā’s curse, and are re-identified according to the governing manvantara context.
In the sampled material it is primarily lineage-and-time: it uses genealogical enumeration (vaṃśa) to situate divine classes within successive manvantaras, rather than presenting bhūvana-kośa measurements or planetary distances.