Adhyaya 235
Raja-dharmaAdhyaya 23566 Verses

Adhyaya 235

Raṇadīkṣā (War-Consecration) — Agni Purāṇa Adhyāya 235

本章以严密次第阐述王者在七日之内发起征伐的礼制,将战争视为合乎法(dharma)的事业,须具戒净、与神明相应,并以伦理治国为本。仪程先礼敬毗湿奴(Viṣṇu)、湿婆(Śiva)与伽内沙(Gaṇeśa),继而按日安抚方护神(Dikpāla)、诸鲁陀罗(Rudra)、诸行星神(Graha)与阿湿毗双神(Aśvin),并于行军途中供奉所遇诸神,夜间亦施供于灵类。又以咒语为中心行“梦兆”之法,求吉凶征验,使国王远征置于天神鉴察之下。第六日行胜利浴(vijaya-snāna)与灌顶(abhiṣeka);第七日礼敬三步遍(Trivikrama),以 nīrājana 之礼净化并奉献兵器与车乘,诵护身之文,国王登象、登车、乘马及役畜时不得回顾。后半转入《弓术》(Dhanurveda)与王道政略(rāja-nīti):论战略欺敌,分列 vyūha 阵形(以兽形/肢体为类与以器物为类),并举名阵如 Garuḍa、Makara、Cakra、Śyena、Ardhacandra、Vajra、Śakaṭa、Maṇḍala、Sarvatobhadra、Sūcī,以及五部军制。文中警戒粮道断绝,劝王不宜亲自搏战,详述队列间距、破阵之术、兵种职责(持盾者、弓手、战车)、地形与兵种相宜、振奋士气之赏,以及英雄战死之宗教义理。末后立戒:不杀逃亡者、非战者、无兵者与投降者;护持妇女;胜后尊重地方风俗;公平分配所得;并保障士卒家属——并称此 raṇadīkṣā 能为正义之王确保胜利。

Shlokas

Verse 1

इत्य् आग्नेये महापुराणे आजस्रिकं नाम चतुस्त्रिंशदधिकद्विशततमो ऽध्यायः अथ पञ्चत्रिंशदधिकद्विशततमो ऽध्यायः रणदीक्षा पुष्कर उवाच यात्राविधानपूर्वन्तु वक्ष्ये साङ्ग्रामिकं विधिं सप्ताहेन यदा यात्रा भविष्यति महीपतेः

如是,《阿耆尼摩诃补罗那》中名为“阿阇斯利迦”的第二百三十四章告终。今起第二百三十五章:“罗那迪迦沙”(战前灌顶/军征受戒)。普湿迦罗曰:“我将宣说战阵之法;先陈王者出征之规制:当大王之行军定于七日之内启程之时。”

Verse 2

पूजनीयो हरिः शम्भुर्मोदकाद्यैर् विनायकः द्वितीये ऽहनि दिक्पालान् सम्पूज्य शयनञ्चरेत्

当礼拜诃利(毗湿奴)与商布(湿婆),并以摩陀迦等供品供奉毗那夜迦(伽内沙)。至第二日,既如法敬礼诸方护世神(Dikpāla,方位守护),随后当行卧眠之仪(依戒而寝)。

Verse 3

शय्यायां वा तदग्रे ऽथ देवान् प्रार्च्य मनुं स्मरेत् नमः शम्भोः त्रिनेत्राय रुद्राय वरदाय च

或在床上,或于床前适当之处,先礼诸神,然后当忆持此真言:“南无商布,三目者;南无鲁陀罗,施愿赐福者。”

Verse 4

वामनाय विरूपाय स्वप्नाधिपतये नमः संविशेदिति ज भगवन्देवदेवेश शूलभृद्वृषवाहन

“南无婆摩那;南无毗卢波;南无梦之主宰。”如是言已,当卧而眠。噫,薄伽梵——诸天之天主,执三叉戟者,乘牛为座骑者(Vṛṣavāhana)!

Verse 5

इष्टानिष्टे ममाचक्ष्व स्वप्ने सुप्तस्य शाश्वत यज्जाग्रतो दूरमिति पुरोधा मन्त्रमुच्चरेत्

“噢,永恒者,请告诉我:睡者之梦所招致的吉与凶之果报。”如此发问后,家祭司当诵此真言:“对醒者而言遥远之物。”

Verse 6

तृतीये ऽहनि दिक्पालान् रुद्रांस्तान् दिक्पतीन्यजेत् ग्रहान् यजेच्चतुर्थे ऽह्नि पञ्चमे चाश्विनौ यजेत्

第三日,当礼敬诸方护卫——主宰诸方位的鲁陀罗众。第四日,当礼敬诸“格罗诃”(行星神祇)。第五日,当礼敬阿湿毗那双神。

Verse 7

मार्गे या देवतास्तासान्नद्यादीनाञ्च पूजनं दिव्यान्तरीक्षभौमस्थदेवानाञ्च तथा बलिः

当礼敬行路所遇诸神,并礼敬江河等处;亦当向住于天界、空界(中域)与地界之神献上“巴利”供献。

Verse 8

रात्रौ भूतगणानाञ्च वासुदेवादिपूजनं भद्रकाल्याः श्रियः कुर्यात् प्रार्थयेत् सर्वदेवताः

夜间亦当祭礼诸“部多”众(灵类之群),以婆苏提婆为首而供养;当修行为跋陀罗迦梨之“室利”(吉祥、兴盛)之仪,并祈祷一切诸神。

Verse 9

वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः नारायणो ऽब्जजो विष्णुर् नारसिंहो वराहकः

彼即婆苏提婆;僧迦尔沙那;普拉丢姆那;与阿尼鲁陀。彼即那罗延那;莲华所生者(梵天);毗湿奴;那罗辛诃;与伐罗诃。

Verse 10

शिव ईशस्तत्पुरुषो ह्य् अघोरो राम सत्यजः सूर्यः सोमः कुजश्चान्द्रिजीवशुक्रशनैश् चराः

湿婆(Śiva)、伊沙(Īśa)、达特普鲁沙(Tatpuruṣa)以及阿戈罗(Aghora);又有罗摩(Rāma)与萨提亚迦(Satyaja)——这些皆为太阳与月亮之圣名;同样还有库迦(Kuja,火星)及诸行星神:布陀(Budha,月裔)、布里哈斯帕提(Bṛhaspati,亦名Jīva)、舒克罗(Śukra)与沙奈什查罗(Śanaiścara)。

Verse 11

राहुः केतुर्गणपतिः सेनानी चण्डिका ह्य् उमा लक्ष्मीः सरस्वती दुर्गा ब्रह्माणीप्रमुखा गणाः

罗睺(Rāhu)与计都(Ketu)、象头神伽内沙(Gaṇapati)、天军统帅塞那尼(Senānī)、旃荼迦(Caṇḍikā)、诚然乌玛(Umā)、吉祥天女拉克什米(Lakṣmī)、辩才天女萨拉斯瓦蒂(Sarasvatī)、难近母杜尔迦(Durgā),以及以梵摩尼(Brahmāṇī)为首的诸神众——皆当忆念并奉请。

Verse 12

रुद्रा इन्द्रादयो वह्निर् नागास्तार्क्ष्यो ऽपरे सुराः दिव्यान्तरीक्षभूमिष्ठा विजयाय भवन्तु मे

愿诸鲁陀罗(Rudra)、因陀罗(Indra)等诸天、火神阿耆尼(Agni)、诸那伽(Nāga)、塔尔克夏(Tārkṣya,即迦楼罗Garuḍa)及其余诸神——住于天界、空界与地界者——皆成就我之胜利。

Verse 13

मर्दयन्तु रणे शत्रून् सम्प्रगृह्योपहारकं सपुत्रमातृभृत्यो ऽहं देवा वः शरणङ्गतः

愿诸神于战阵中摧伏仇敌,并擒获那携贡品/供物之人。噫,诸天!我与诸子、母亲及随从一道,已来归依于汝等庇护。

Verse 14

तत्पुरत इति ख रात्रावित्यादिः, सत्यज इत्य् अन्तः पाठः ग पुस्तके नास्ति मर्दयन्तु च मे शत्रूनिति घ , ञ च अवन्तु मां स्वभृत्यो ऽहमिति ज , ट च चामूनां पृष्ठतो गत्वा रिपुनाशा नमो ऽस्तु वः विनिवृत्तः प्रदास्यामि दत्तादभ्यधिकं बलिं

“‘在其前方’——为Kha本之读法;‘于夜间’等——为另一异读。末尾‘satyaja’一语,Ga写本不载。‘并愿其摧灭我之仇敌’——Gha与Ña作此读。‘愿其护佑我;我乃其自家仆从’——Ja与Ṭa作此读。‘行至军阵(cāmū)之后,噫,灭敌者,向汝等致敬。待我(平安)归来,当献上较先前所献更为丰厚之bali供献。’”

Verse 15

षष्ठे ऽह्नि विजयस्नानं कर्तव्यं चाभिषेकवत् यात्रादिने सप्तमे च पूजयेच्च त्रिविक्रमं

第六日应行“胜利沐浴”(vijaya-snāna),并如同灌顶安立之仪般施行阿毗湿迦(abhiṣeka)灌顶。第七日为游行庆典(yātrā)之日,当礼拜三步神特里维克拉玛(Trivikrama,即毗湿奴)。

Verse 16

नीराजनोक्तमन्त्रैश् च आयुधं वाहनं यजेत् पुण्याहजयशब्देन मन्त्रमेतन्निशामयेत्

并以为尼罗阇那(nīrājana,吉祥挥灯)所规定之真言,供奉并加持兵器与乘具;又以“puṇyāha”(愿此日吉祥)与“jaya”(胜利)之呼声,依仪诵持此真言。

Verse 17

दिव्यान्तरीक्षभूमिष्ठाः सन्त्वायुर्दाः सुराश् च ते देवसिद्धिं प्राप्नुहि त्वं देवयात्रास्तु सा तव

愿住于天际与大地之诸神圣者——赐寿之天神(Deva)——垂怜于汝。愿汝获得神圣成就(deva-siddhi);此即汝之天行仪(devayātrā,神圣之旅/法事)。

Verse 18

रक्षन्तु देवताः सर्वा इति श्रुत्वा नृपो व्रजेत् गृहीत्वा सशरञ्चापं धनुर्नागेति मन्त्रत

听闻“愿一切神祇护佑(我)”之语后,国王当启行,执弓并携箭,依真言诵念“dhanur-nāga”之句。

Verse 19

तद्विष्णोरिति जप्त्वाथ दद्याद्रिपुमुखे पदं दक्षिणं पदं द्वात्रिंशद्दिक्षु प्राच्यादिषु क्रमात्

诵念以“tad viṣṇoḥ …”开头之真言后,应将真言之句(pada)面向敌方安置;并自东方起,依次于三十二方位中安置“右句”(右pada),循序而行。

Verse 20

नागं रथं हयञ्चैव धुर्यांश् चैवारुहेत् क्रमात् आरुह्य वाद्यैर् गच्छेत् पृष्थतो नावलोकयेत्

他应依次登乘大象、战车、骏马及役畜;登乘之后,当在乐器声中前行,且不可回首向后观望。

Verse 21

क्रोशमात्रं गतस्तिष्ठेत् पूजयेद्देवता द्विजान् परदेशं व्रजेत् पश्चादात्मसैन्यं हि पालयन्

行进仅一拘舍(krośa)后,应当停驻,礼敬诸神与二生者(dvija);随后再赴异国之地,并切实护持自己的随从军队。

Verse 22

राजा प्राप्य देवेशन्तु देशपालन्तु पालयेत् देवानां पूजनं कुर्यान्न छिन्द्यादायमत्र तु

国王既得王权,当护持诸神之主与护国护地之神。应当奉行对诸神的祭祀礼敬,并且在此不可削减他们依法应得的供奉与收入。

Verse 23

नावमानयेत्तद्देश्यानागत्य स्वपुरं पुनः पृष्ठश् चैव रिपुनाशो भवेद्यथेति ट जित्वा शत्रुं प्रदास्यामीति ट जैत्रा यात्रास्त्विति ट प्राप्तविदेशस्तु इति ग , घ , ञ च देशाचारन्तु पालयेदिति ख देशाचारणेण पालयेदिति ग , घ , छ , ज , ञ च जयं प्राप्यार्चयेद्देवान् दद्याद्दानानि पार्थिवः

抵达异国之地时,不可侮辱该国之民;回到本城之后,应当按其法度,使敌军从后方被歼灭。“既已克敌,我将施赐礼物”——经文如是说。此等称为凯旋远征(jaitra-yātrā)。既至异邦,当遵守当地风俗。得胜之后,国王应礼拜诸神,并广行布施。

Verse 24

द्वितीये अहनि सङ्ग्रामो भविष्यति यदा तदा स्नपयेद्गजमश्वादि यजेद्देवं नृपसिंहकं

若战斗将于第二日发生,则当其时应为大象、马等行洒净沐浴之仪(snāpana),并礼拜神祇尼罗帕西摩诃迦(Nṛpasiṁhaka,即那罗辛哈,人狮之主)。

Verse 25

छत्रादिराजलिङ्गानि शस्त्राणि निशि वै गणान् प्रातर्नृसिंहकं पूज्य वाहनाद्यमशेषतः

夜间应礼敬王者的诸般徽仪,自华盖(伞盖)等起,并礼敬诸兵器;亦当礼敬随从之众——诸伽那(gaṇa)。清晨既礼敬那罗辛诃(Narasiṃha)之后,应无所遗漏,复礼敬一切,自诸乘具(vāhana,坐骑)等起及其余诸物。

Verse 26

पुरोधसा हुतं पश्येद्वह्निं हुत्वा द्विजान्यजेत् गृहीत्वा सशरञ्चापं गजाद्यारुह्य वै व्रजेत्

应令王家祭司(purohita)献供,然后观视圣火;既行火供之后,当礼敬二次生者(婆罗门)。执弓并携诸箭,遂乘象或他种坐骑而出行。

Verse 27

देशे त्वदृश्यः शत्रूणां कुर्यात् प्रकृतिकल्पनां संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून्

在敌人看不见之处,应筹设兵势之伪装:使少数作战如同密集成阵;又随所需,使多数显现为分散铺开,以惑敌。

Verse 28

सूचीमुखमनीकं स्यादल्पानां बहुभिः सह व्यूहाः प्राण्यङ्गरूपाश् च द्रव्यरूपाश् च कीर्तिताः

名为“苏契目迦”(sūcīmukha,针尖阵)的战阵前锋,据说适用于小部队在与大军协同之时。诸战阵(vyūha)被称为两类:一类取形于有情众生之肢体,一类依凭物质器物之形(无生之式)。

Verse 29

गरुडो मकरव्यूहश् चक्रः श्येनस्तथैव च अर्धचन्द्रश् च वज्रश् च शकटव्यूह एव च

诸战阵为:迦楼罗阵(Garuḍa)、摩伽罗阵(Makara)、轮阵(Cakra)、鹞/鹰阵(Śyena)、半月阵(Ardhacandra)、金刚/雷霆阵(Vajra),以及车阵(Śakaṭa)。

Verse 30

मण्डलः सर्वतोभद्रः सूचीव्यूहश् च ते नराः व्यूहानामथ सर्वेषां पञ्चधा सैन्यकल्पना

圆阵、“四面皆吉祥”之阵,以及“针形(楔形)”之阵——诸位男子,此等皆是;并且就一切阵形而言,军队的布置分为五种。

Verse 31

द्वौ पक्षावनुपक्षौ द्वावश्यं पञ्चमं भवेत् एकेन यदि वा द्वाभ्यां भागाभ्यां युद्धमाचरेत्

当设两翼与两支援翼;并且必有第五部(分队)。作战时可用一部,或视所需用两部而战。

Verse 32

भागत्रयं स्थापयेत्तु तेषां रक्षार्थमेव च न व्यूहकल्पना कार्या राज्ञो भवति कर्हिचित्

他应设立三重分队,唯为护卫之用;因为对国王而言,筹划战阵(vyūha)不应轻率为之,甚至不应为之(无必要时)。

Verse 33

मूलच्छेदे विनाशः स्यान्न युध्येच्च स्वयन्नृपः सैन्यस्य पश्चात्तिष्ठेत्तु क्रोशमात्रे महीपतिः

若“根本”(即主要依托/补给线)被截断,必致覆亡。国王不应亲自交战;大地之主当在军后约一拘舍(krośa)之处驻立。

Verse 34

भग्नसन्धारणं तत्र योधानां परिकीर्तितं प्रधानभङ्गे सैन्यस्य नाशस्थानं विधीयते

在此情境中,“维系溃散者之凝聚”被称为战士之责;当主帅/中央主力被击碎时,军队覆灭之处(关键点)亦由此而定。

Verse 35

न संहतान्न विरलान्योधान् व्यूहे प्रकल्पयेत् आयुधानान्तु सम्मर्दो यथा न स्यात् परस्परं

布置战阵(vyūha)时,战士不可过于密集,也不可过于稀疏,以免兵器彼此碰撞纠缠。

Verse 36

भेत्तुकामः परानीकं संहतैर् एव भेदयेत् भेदरक्ष्याः परेणापि कर्तव्याः संहतास् तथा

欲破敌军战线者,应仅以密集队形之兵突入。同样,对方亦须使诸部紧密结集,以防被穿破。

Verse 37

व्यूहं भेदावहं कुर्यात् परव्यूहेषु चेच्छया गजस्य पादरक्षार्थाश् चत्वारस्तु तथा द्विज

若其愿意,应采用能在敌阵诸队形中造成缺口之阵式。同样,婆罗门啊,应指派四名战士守护战象之足。

Verse 38

रथस्य चाश्वाश् चत्वारः समास्तस्य च चर्मिणः धन्विनश् चर्मिभिस्तुल्याः पुरस्ताच्चर्मिणो रणे

战车当配四马,并应随有持盾者。弓手之数当与持盾者相等;临战时,持盾者应列于前。

Verse 39

पृष्ठतो धन्विनः प्रश्चाद्धन्विनान्तुरगा रथाः रथानां कुञ्जराः पश्चाद्दातव्याः पृथिवीक्षिता

后方当列弓手;弓手之后为骑兵与战车。战车之后应置战象——大王,护持大地者。

Verse 40

पदातिकुञ्जराश्वानां धर्मकार्यं प्रयत्नतः शूराः प्रमुखतो देयाः स्कन्धमात्रप्रदर्शनं

对于步兵、象兵与骑兵,出征之功德法事当以勤勉努力而行;勇士应先受赏,纵仅凭“示肩”——即在前列现身,表明自己为经验证的战士。

Verse 41

कर्तव्यं भीरुसङ्घेन शत्रुविद्रावकारकं दारयन्ति पुरस्तात्तु न देया भीरवः पुरः

胆怯之众宜分派能使敌军溃散之事;然怯者不可置于前列,因为在前锋他们易崩散退却。

Verse 42

प्रोत्साहन्त्येव रणे भीरून् शूराः पुरस्थिताः प्रांशवः शकुनाशाश् च ये चाजिह्मेक्षणा नराः

战阵之中,后列所驻之英雄用以鼓舞怯者——包括身材高大者、善解征兆者,以及目光端直者(坚定而无诈)。

Verse 43

संहतभ्रूयुगाश् चैव क्रोधना कलहप्रियाः नित्यहृष्टाः प्रहृष्टाश् च शूरा ज्ञेयाश् चकामिनः

眉聚而蹙、易怒且好争者——然常怀欢悦、兴奋昂扬——当识为勇士;亦当知其为多欲之人,为爱欲(kāma)所牵。

Verse 44

संहतानां हतानां च रणापनयनक्रिया प्रतियुद्धं गजानाञ्च तोयदानादिकञ्च यत्

亦复阐明:将集结之军与阵亡者移出战场之法,战象之反击战法,以及供水等一切随侍处置之事。

Verse 45

शत्रुद्रावकारणमिति ख , ग , घ , ञ च ये च जिह्मेक्षणा इति ख , ग , घ , ञ च वलापनयनक्रियेति ज आयुधानयनं चैव पत्तिकर्म विधीयते रिपूणां भेत्तुकामानां स्वसैन्यस्य तु रक्षणं

“使敌军溃退之因”——Kha、Ga、Gha 与 Ña 诸本如是读;“目光乖曲者”亦为这些版本所载;而 J(a) 本则读作“除去敌之力(vala)之仪轨”。无论从何读法,取来并运送兵器皆被规定为步兵之作业(pattikarma),为欲破敌者所行,亦为护持己军之安。

Verse 46

भेदनं संहतानाञ्च चर्मिणां कर्म कीर्तितं विमुखीकरणं युद्धे धन्विनां च तथोच्यते

“破裂(敌之阵列)”被宣示为密集结队者与持盾者之正当作业;同样,在战斗中,“使敌转身而退”(逼退、迫其撤退)被称为弓手之作业。

Verse 47

दूरापसरणं यानं सुहतस्य तथोच्यते त्रासनं रिपुसैन्यानां रथकर्म तथोच्यते

“远距撤退”被称为重创者之行进(yāna);而“令敌军生怖”亦被称作战车之作业(ratha-karma)。

Verse 48

भेदनं संहतानाञ्च भेदानामपि संहतिः प्राकारतोरणाट्टालद्रुमभङ्गश् च सङ्गते

在近身交战之际,应施行破散敌之密集阵列;亦当将己方已散之部伍再度合聚(整编巩固);并于交锋中摧毁城垣、门楼、雉堞高台之塔,乃至砍伐用于防御或阻碍之树木。

Verse 49

पत्तिभूर्विषमा ज्ञेया रथाश्वस्य तथा समा सकर्दमा च नागानां युद्धभूमिरुदाहृता

步兵之地当知为崎岖不平;战车与马军之地亦当为平坦。至于象军,则宣说以泥泞之战场为相宜。

Verse 50

एवं विरचितव्यूहः कृतपृष्ठदिवाकरः तथानुलोमशुक्रार्किदिक्पालमृदुमारुताः

如是应布置战阵——以太阳为后卫;并依次向前安置金星、太阳之子土星、诸方位守护神,以及柔和之风。

Verse 51

योधानुत्तेजयेत्सर्वान्नामगोत्रावदानतः भोगप्राप्त्या च विजये स्वर्गप्राप्त्या मृतस्य च

他应当宣告众战士的名号、族姓与英勇事迹,以此激励他们——并许诺:胜则得享受与赏赐,战死则得升天界。

Verse 52

जित्वारीन् भोगसम्प्राप्तिः मृतस्य च परा गतिः निष्कृतिः स्वामिपिण्डस्य नास्ति युद्धसमा गतिः

战胜仇敌则得诸享受;而战死者则有至高归宿。此乃偿报受主所赐食禄之赎罪;世间无有与战争相等的成就之途。

Verse 53

शूराणां रक्तमायाति तेन पापन्त्यजन्ति ते धातादिदुःखसहनं रणे तत् परमन्तपः

当勇士之血流洒之时,凭此他们便脱落诸罪;而在战阵中忍受创伤等种种身苦——这便是至上的苦行,噬敌者啊。

Verse 54

वराप्सरःसहस्राणि यान्ति शूरं रणे मृतं स्वामी सुकृतमादत्ते भग्नानां विनिवर्तिनां

千千万万的上妙阿普萨罗(天女)将趋赴那战死的英雄;而主君(国王/统帅)却夺取那些溃散阵列、转身退却者的功德。

Verse 55

ब्रह्महत्याफलं तेषां तथा प्रोक्तं पदे पदे त्यक्त्वा सहायान् यो गच्छेद्देवास्तस्य विनष्टये

因此,在每一步都为他们宣说杀害婆罗门之罪的果报。凡抛弃同伴而独自前行者——诸天将起而行事,使其走向毁灭。

Verse 56

अश्वमेधफलं प्रोक्तं शूराणामनिर्वर्तिनां धर्मनिष्ठे जयो राज्ञि योद्धव्याश् च समाः समैः

经宣说:对不从战阵退却的勇士,其功德之报等同于阿湿婆梅陀(马祭)。国王若安住于达摩,胜利必定归于他;并且强弱相当者当与相当者交战。

Verse 57

गजाद्यैश् च गजाद्याश् च न हन्तव्याः पलायिनः न प्रेक्षकाः प्रविष्टाश् च अशस्त्राः प्रतितादयः

凡已逃遁者,不可加杀——无论其属象军等部,或其他诸军。亦不可击杀观战者、误入战场或营垒而无战意者、无兵器者,以及已投降等诸类之人。

Verse 58

शान्ते निद्राभिभूते च अर्धोत्तीर्णे नदीवने दुर्दिने कूटयुद्धानि शत्रुनाशार्थमाचरेत्

当(敌军)安逸之时、为睡眠所制之时、渡河至半途之时、在滨河林野之中,以及逢恶劣天气之日——应施行隐秘/非常之战法,以求歼灭敌人。

Verse 59

बाहू प्रगृह्य विक्रोशेद्भग्ना भग्नाः परे इति प्राप्तं मित्रं बलं भूरि नायको ऽत्र निपातितः

举起双臂,应高声呼喊:“敌军已溃——已溃!”由此(宣示)盟友大军已至,并且敌方统帅已在此被击倒。

Verse 60

सेनानीर्निहताश्चायं भूपतिश्चापि विप्लुतः विद्रुतानान्तु योधानां मुखं घातो विधीयते

当统帅已被诛杀,国王亦陷于紊乱之时,对于溃逃的战士,经中规定应从正面施以一击(即击其面门/前部)。

Verse 61

धूपाश् च देया धर्मज्ञ तथा च परमोहनाः पताकाश् चैव सम्भारो वादित्राणाम् भयावहः

噫,知法者,当供奉香品(dhūpa),亦当备办极其摄心之物;并设立旌旗,又具足诸乐器之全套资具,以威严震慑之势陈列。

Verse 62

सम्प्राप्य विजयं युद्धे देवान्विप्रांश् च संयजेत् रत्नानि राजगामीनि अमात्येन कृते रणे

既于战阵中得胜,当如法祭敬诸天并礼敬婆罗门;而凡应归于王者之珍宝财物,即使此战由大臣所行,亦当送归国王。

Verse 63

तस्य स्त्रियो न कस्यापि रक्ष्यास्ताश् च परस्य च शत्रुं प्राप्य रणे मुक्तं पुत्रवत् परिपालयेत्

其妇女不得为任何人所侵辱;他人之妇女亦当加以护持。又若在战中得遇已被释放(或已归降)的敌人,当如养子一般抚育保护之。

Verse 64

पुनस्तेन न योद्धव्यं देशाचारादि पालयेत् ततश् च स्वपुरं प्राप्य ध्रुवे भे प्रविशेद् गृहं

不应再与其复战;当守护国土之风俗礼制等既定法度。其后既至己城,当于吉祥而确定之时入宅。

Verse 65

देवादिपूजनं कुर्याद्रक्षेद्योधकुटुम्बकं संविभागं प्रावाप्तैः कुर्याद् भृत्यजनस्य च

他应当礼敬诸天及一切可尊者;应当护持军士之家眷;并从依法所得之物中,亦当为仆从与依附之众作适当分配。

Verse 66

रणादीक्षा मयोक्ता ते जयाय नृपतेर्ध्रुवा

此战斗之灌顶(战前圣礼)我已教示于你;对国王而言,这是通向胜利的确实法门。

Frequently Asked Questions

It prescribes a day-wise consecration: worship of Hari-Śambhu-Vināyaka; Dikpāla rites and ritual sleep with dream-mantras; further quarter-guardian/Rudra worship; Graha worship; Aśvin worship; then vijaya-snāna with abhiṣeka; and finally yātrā-day worship of Trivikrama with nīrājana consecration of weapons and vehicles.

The chapter invokes Viṣṇu and his forms (Vāsudeva, Saṅkarṣaṇa, Pradyumna, Aniruddha, Narasiṃha, Varāha), Śiva and Rudra-forms, Gaṇapati, Dikpālas, Grahas (Sun, Moon, Mars, Budha, Bṛhaspati, Śukra, Śani, plus Rāhu and Ketu), the Aśvins, Devīs (Caṇḍikā, Umā, Lakṣmī, Sarasvatī, Durgā, Brahmāṇī-gaṇas), Nāgas, and Garuḍa.

It lists Garuḍa, Makara, Cakra, Śyena, Ardhacandra, Vajra, Śakaṭa, Maṇḍala, Sarvatobhadra, and Sūcī formations, while also classifying vyūhas as living-limb-shaped and object-based.

It prohibits killing fugitives, noncombatants/spectators, the unarmed, and those who surrender; mandates protection of women (one’s own and the enemy’s); and instructs humane protection of a released/surrendered enemy like a son, alongside honoring local customs after victory.

It sacralizes statecraft and warfare by embedding them in worship, mantra, and restraint, presenting victory as dharma-aligned action and framing disciplined courage, protection of the vulnerable, and post-war charity as spiritually meritorious conduct.