Adhyaya 226
Raja-dharmaAdhyaya 22667 Verses

Adhyaya 226

Chapter 226 — राजधर्माः (Rājadharma: Royal Duties and Daṇḍanīti)

本章在王法(rājadharma)中如同一部惩罚政术(daṇḍanīti)手册,阐明国王如何依循统一度量而施以轻重有序的刑罚,以维持秩序。开篇先定重量与货币的换算标准(kṛṣṇala、triyava、suvarṇa、niṣka、dharaṇa、kārṣāpaṇa/paṇa),并据此制定分级罚金,尤重 sāhasa 的三等(初等/中等/上等)。继而列举司法条目:对虚报被劫、在王家护法者/审判者前作伪证或妄言、捏造证词,以及侵吞或毁坏寄存之物(nikṣepa)等,皆有相应惩处。又论商贸与雇佣纠纷(售卖他人财物、收款不交付、未劳而取薪、十日内撤销买卖),婚姻相关欺诈与已许嫁之女再嫁,以及监护人、守卫之失职。治安层面扩展至城邑规划与防卫(村界丈量、城垣壁垒)、越界侵扰与盗窃分等,重大盗窃与掳人则至死刑。对侮辱与失德之罚依社会等级而定,重者甚至施以肢体残刑;而对婆罗门则偏重放逐而非伤体。并严惩贪墨:守卫、重臣、法官滥权者,处以没收与流放。末后规定国家对重罪(纵火、下毒、通奸、殴击)、市肆欺诈(掺假、伪造)、污秽不洁之犯,以及程序滥用(不当传唤、逃脱拘押)的处置,呈现治国为以纪律与真实为核心、契合 dharma 的法器。

Shlokas

Verse 1

इत्य् आग्नेये महापुराणे सामाद्युपायो नाम पञ्चविंशत्यधिकद्विशततमो ऽध्यायः अथ षड्विंशत्यधिकद्विशततमो ऽध्यायः राजधर्माः पुष्कर उवाच दण्डप्रणयनं वक्ष्ये येन राज्ञः परा गतिः त्रियवं कृष्णलं विद्धि पापस्तत्पञ्चकं भवेत्

如是,在《阿耆尼大往世书》中,名为“以Sāma(和解)等为始之方法”的第二百二十五章告终。今起第二百二十六章,论“王法(Rājadharma)”。普什迦罗(Puṣkara)曰:“我将宣说制定刑罚(及罚金)之法,由此国王得至最高之义务之道。应知‘triyava’等同于一‘kṛṣṇala’;若属罪过,其罚为该量之五倍。”

Verse 2

कृष्णलानां तथा षष्ट्या कर्षार्धं रामकीर्तितं सुवर्णश् च विनिर्दिष्टो राम षोडशमापकः

罗摩(Rāma)说:六十个kṛṣṇalā(黑色guñjā种子)为半个karṣa。又规定“suvarṇa”:其为十六(单位)之量。

Verse 3

निष्कः सुवर्णाश् चत्वारो धरणं दशभिस्तु तैः ताम्ररूप्यसुवर्णानां मनमेतत् प्रकीर्तितं

一枚尼湿迦(niṣka)由四个苏伐尔那(suvarṇa)构成;而一达罗那(dharaṇa)以其中十个苏伐尔那计。由此宣说铜、银与金的重量标准。

Verse 4

ताम्रकैः कार्षिको राम प्रोक्तः कार्षापणो बुधैः पणानां द्वे शते सार्धं प्रथमः साहसः स्मृतः

噢,罗摩(Rāma),所谓迦尔沙迦(kārṣika),学者称之为迦尔沙钵那(kārṣāpaṇa),以铜币为准而定;而二百五十般那(paṇa)被记为第一等萨哈萨(sāhasa,刑罚罚金)。

Verse 5

मध्यमः पञ्च विज्ञेयः सहस्रमपि चोत्तमः चौरैर् अमूषितो यस्तु मूषितो ऽस्मीति भाषते

中等罚金应知为五百,最高罚金为一千。若有人并未遭盗贼劫掠,却宣称“我被抢了”,(亦当依其所致之害受罚)。

Verse 6

तत्प्रदातरि भापाले स दण्ड्यस्तावदेव तु यो यावद्विपरीतार्थं मिथ्या वा यो वदेत्तु तं

在审判者/王之护法者面前,若有人陈述之义与事实相反、颠倒其意,或妄言虚语,则应按其程度受罚(与所致损害相称)。

Verse 7

तौ नृपेण ह्य् अधर्मज्ञौ दाप्यौ तद्द्विगुणं दमं कूटसाक्ष्यन्तु कुर्वाणांस्त्रीन् वर्णांश् च प्रदापयेत्

此二人既知不法(adharma),国王应令其缴纳双倍罚金。至于作伪证、造作证据者,在三种瓦尔那(varṇa)之中,应依其所属阶层分别施罚。

Verse 8

विवासयेद्ब्राह्मणन्तु भोज्यो विधिर् न हीरतः निक्षेपस्य समं मूल्यं दण्ड्यो निक्षेपभुक् तथा

但若为婆罗门,其刑当以放逐为宜;不为其设肉刑。凡吞用或侵占寄存之物(尼克舍帕,nikṣepa)者,亦当罚金与该寄存物之价等同。

Verse 9

तथाचाष्टौ इति छ , ज च ताम्रिकैः कार्षिक इत्य् आदिः, साहसः स्मृत इत्य् अन्तः पाठः झ पुस्तके नास्ति यो यावदित्यादिः, तद्द्विगुणं दममित्यन्तः पाठः झ पुस्तके नास्ति वस्त्रादिकस्य धर्मज्ञ तथा धर्मो न हीयते यो निक्षेपं घातयति यश्चानिक्षिप्य याचते

因此,在某些传本(cha 与 ja)中,文句以“八……;自铜钱至 kārṣika”为起,而末句“被宣称为 sāhasa(暴行之罪)”在 jha 抄本中缺失。同样,以“凡人,依其程度……”起、以“罚金为其二倍”止的一段,在 jha 抄本亦不见。至于衣服等类物品之争,通晓达摩者当作裁断,使达摩不致减损:应罚者为毁坏或篡改寄存物(nikṣepa)之人,以及未曾寄存而妄求索取之人。

Verse 10

तावुभौ चौरवच्छास्यौ दण्ड्यौ वा द्विगुणं दम अज्ञानाद्यः पुमान् कुर्यात् परद्रव्यस्य विक्रयं

此二人皆当以盗贼论处,或处以二倍罚金(按所涉价值)。凡因无知而售卖他人财物之男子,亦应负此等刑责。

Verse 11

निर्दोषो ज्ञानपूर्वकन्तु चौरवद्दण्डमर्हति मूल्यमादाय यः शिल्पं न दद्याद् दण्ड्य एव सः

即便自称无过,若明知而为者,亦当受如盗贼之刑。凡受取报酬而不交付工艺之作或服务者,必当受罚。

Verse 12

प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन्नृपः भृतिं गृह्य न कुर्याद्यः कर्माष्टौ कृष्णला दमः

凡许诺而不交付黄金者,国王当加以惩罚。又凡受取工钱而不作工者,其罚金为八 kṛṣṇalā。

Verse 13

अकाले तु त्यजन् भृत्यं दण्ड्यः स्यात्तावदेव तु क्रीत्वा विक्रीय वा किञ्चिद्यस्येहानुशयो भवेत्

若在不适当之时解雇仆役,当受与该数额相等之罚金。同样,若买卖某物之后又生悔意而欲撤回者,亦依同一法则处理。

Verse 14

सो ऽन्तर्दशाहात्तत्स्वामी दद्याच्चैवाददीत च परेण तु दशाहस्य नादद्यान्नैव दापयेत्

若在十日之内,真正的所有者应当交还(该物),并在他人归还时亦应受领。若已逾十日,则既不应受领,也不应强令他人交付。

Verse 15

आददद्धि ददच्चैव राज्ञा दण्ड्यः शतानि षट् वरे दोषानविख्याप्य यः कन्यां वरयेदिह

凡不揭示新郎之过失而在此求娶少女者——无论其取财或亦施财——皆当由王处以六百(波那)之罚。

Verse 16

दत्ताप्यदत्ता सा तस्य राज्ञा दण्ड्यः शतद्वयं प्रदाय कन्यां यो ऽन्यस्मै पुनस्तां सम्प्रयच्छति

纵使已依仪式交付,她亦当视为未交付:凡将少女嫁出之后,又把同一女子再嫁与他人者,王当加以惩罚,并令其缴纳二百(波那)之罚金。

Verse 17

दण्डः कार्यो नरेन्द्रेण तस्याप्युत्तमसाहसः सत्यङ्कारेण वाचा च युक्तं पुण्यमसंशयं

刑罚(daṇḍa)应由国王施行;即便如此,也当以最高的审慎与克制而行。若与真实之誓约及真实之言语相结合,则必为功德,毫无疑义。

Verse 18

लुब्धो ऽन्यत्र च विक्रेता षट्शतं दण्डमर्हति दद्याद्धेनुं न यः पालो गृहीत्वा भक्तवेतनं

贪婪之人若将受托之物转卖他处,当受六百(pāṇa)之罚金。又牧牛者既已领取口粮与工钱而不将牛交还其主者,亦应同受惩罚。

Verse 19

स तु दण्ड्यः शतं राज्ञा सुवर्णं वाप्यरक्षिता चौरवद्वधमर्हतोति घ , ञ च वरयेद्यदि इति घ , ञ च धनुःशतं परीणाहो ग्रामस्य तु समन्ततः

此等怠惰之守卫/监护者,王应罚其一百苏伐尔那(suvarṇa);若仍任其处无守,则当如盗贼而处死。若能防遏其罪,则——依所引法本之读——村界应四周扩展,周长为一百弓长。

Verse 20

द्विगुणं त्रिगुणं वापि नगरस्य च कल्पयेत् वृतिं तत्र प्रकुर्वीत यामुष्ट्रो नावलोकयेत्

城邑之围护(城墙/壕垒)当规划为其尺度之二倍,乃至三倍;并应于其处修筑防御之围障,高峻坚固,使骆驼亦不能越望其上。

Verse 21

तत्रापरिवृते धान्ये हिंसिते नैव दण्डनं गृहन्तडागमारामं क्षेत्रं वा भीषया हरन्

若谷物未曾妥善围护,即便遭损害亦不施罚。又若有人因恐惧威逼或强制而取走房舍、池塘、园圃或田地者,亦不当加罪。

Verse 22

शतानि पञ्च दण्ड्याः स्यादज्ञानाद् द्विशतो दमः मर्यादाभेदकाः सर्वे दण्ड्याः प्रथमसाहसं

若因无知而犯,则罚金为五百;若明知而犯,则再加二百。凡破坏既定疆界者,皆当以萨哈萨(sāhasa)之第一等(最低等)科罚。

Verse 23

शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति वैश्यश् च द्विशतं राम शूद्रश् च बधमर्हति

辱骂婆罗门者:刹帝利当罚一百(paṇa);吠舍当罚二百——噢,罗摩;首陀罗则当受死刑。

Verse 24

पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने वैश्ये वाप्यर्धपञ्चाशच्छूद्रे द्वादशको दमः

婆罗门辱骂刹帝利者,当罚五十(paṇa);辱骂吠舍者,罚五十之半;辱骂首陀罗者,罚十二(paṇa)。

Verse 25

क्षत्रियस्याप्नुयाद्वैश्यः साहसं पूर्वमेव तु शूद्रः क्षत्रियमाक्रुश्य जिह्वाच्छेदनमाप्नुयात्

吠舍若对刹帝利犯过,当依先前所说之“萨诃萨”(sāhasa,暴犯)之罚。若首陀罗辱骂刹帝利,则当受割舌之刑。

Verse 26

धर्मोपदेशं विप्राणां शूद्रः कुर्वंश् च दण्डभाक् श्रुतदेशादिवितथी दाप्यो द्विगुणसाहसं

首陀罗若向婆罗门宣讲法(dharma),即应受罚;又若有人虚称具备权威学识、受学之地等,须缴纳相当于“萨诃萨”(sāhasa)罚金两倍之罚。

Verse 27

उत्तमः साहसस्तस्य यः पापैर् उत्तमान् क्षिपेत् प्रमादाद्यैर् मया प्रोक्तं प्रीत्या दण्डार्धमर्हति

“萨诃萨”(sāhasa)之最高等,适用于那种借助恶人而推倒(或使人推倒)贤善可敬之人者。若因疏忽等缘由而发生——如我所述——则出于宽宥,只当受所定刑罚之一半。

Verse 28

मातरं पितरं ज्येष्ठं भ्रातरं श्वशुरं गुरुं आक्षारयञ्च्छतं दण्ड्यः पन्थानं चाददद्गुरोः

凡辱骂、以恶言诋毁其母、父、长兄、兄弟、岳父或师长(古鲁)者,当罚一百(波那);凡夺取或阻塞师长之通行权(拦路、占道)者,亦当受罚。

Verse 29

अन्त्यजातिर्द्विजातिन्तु येनाङ्गेनापराध्नुयात् तदेव च्छेदयेत्तस्य क्षिप्रमेवाविचारयन्

若属安底耶阇提(最下等群体)之人,以某一肢体冒犯二生者(dvija),则应将其所用之肢体当即斩断——迅速施行,不得迟疑。

Verse 30

अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेन्नृपः अपमूत्रयतो मेढ्रमपशब्दयतो गुदं

若有人因傲慢而向地上吐唾,国王应割其双唇;若有人在禁处或公众之地不当小便,应割其阳具;若有人出秽亵之语,应割其肛门。

Verse 31

उत्कृष्टासनसंस्थस्य नीचस्याधोनिकृन्तनं यो यदङ्गं च रुजयेत्तदङ्गन्तस्य कर्तयेत्

卑贱之人若坐于尊贵之座,其刑为割其下部(在下方)。又凡伤人某一肢体者,当割其自身同一肢体。

Verse 32

अर्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः वृक्षन्तु विफलं कृत्त्वा सुवर्णं दण्डमर्हति

杀牛、象、马或骆驼者,应罚半个 pāda;而使结果之树变为不结果(令其枯绝其果)者,当受一 suvarṇa 之罚。

Verse 33

द्विगुणं दापयेच्छिन्ने पथि सीम्नि जलाशये द्रव्याणि यो हरेद्यस्य ज्ञानतो ऽज्ञानतो ऽपिवा

若有人在断裂的通道或道路、边界线处,或在蓄水池旁取走他人财物,不论明知或不知,皆应令其偿付双倍价值。

Verse 34

स तस्योत्पाद्य तुष्टिन्तु राज्ञे दद्यात्ततो दमं यस्तु रज्जुं घटं कूपाद्धरेच्छिन्द्याच्च तां प्रपां

先以归还应还之物使受害者满意,然后再向国王缴纳罚金。若有人从井中取走绳索与汲水罐,或割断/损坏公共供水处(prapā),则应受惩罚与罚款。

Verse 35

स दण्डं प्राप्नुयान् मासं दण्ड्यः स्यात् प्राणितारने धान्यं दशभ्यः कुम्भेभ्यो हरतो ऽभ्यधिकं बधः

其人应受一月之罚;若为救护有情生命之故,则仅受惩戒(从轻)。但凡盗取谷物超过十库姆婆(kumbha)者,其刑为处死。

Verse 36

शेषे ऽप्येकादशगुणं तस्य दण्डं प्रकल्पयेत् सुवर्णरजतादीनां नृस्त्रीणां हरणे बधः

其余诸案亦当为其制定十一倍之罚。盗取黄金、白银等物,以及掳走男子或女子者,其刑为处死。

Verse 37

येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते तत्तदेव हरेदस्य् प्रत्यादेशाय पार्थिवः

盗贼在人群中以何肢体、以何方式行窃,国王即当取其同一肢体,以示报应之刑。

Verse 38

ब्राह्मणः शाकधान्यादि अल्पं गृह्णन्न दोषभाक् गोदेवार्थं हरंश्चापि हन्याद्दुष्टं बधीद्यतं

A brāhmaṇa who takes a small quantity of vegetables, grain, and the like incurs no fault. And even when taking (resources) for the sake of cows and the gods, he may strike down a wicked person and may restrain (bind) one who is intent on wrongdoing.

Verse 39

गृहक्षेत्रापहर्तारं तथा पत्न्यभिगामिनं अग्निदं गरदं हन्यात्तथा चाभ्युद्यतायुधं

One should slay the robber of house or land, likewise the violator who approaches another’s wife; also the arsonist and the poisoner, and likewise one who has raised a weapon to strike.

Verse 40

राजा गवाभिचाराद्यं हन्याच्चैवाततायिनः परस्त्रियं न भाषेत प्रतिषिद्धो विशेन्न हि

The king should punish offences beginning with cattle-sorcery and the like, and he should also slay (or execute) the ātatāyin (violent aggressor). He should not converse with another man’s wife; and one who has been forbidden (entry) should certainly not enter.

Verse 41

अदण्ड्या स्त्री भवेद्राज्ञा वरयन्तो पतिं स्वयं उत्तमां सेवमानः स्त्री जघन्यो बधमर्हति

A woman is not to be punished by the king when she herself chooses her husband. But a man of the lowest sort who approaches a woman of high status is deserving of execution.

Verse 42

भर्तारं लङ्घयेद्या तां श्वभिः सङ्घातयेत् स्त्रियं सवर्णदूषितां कुर्यात् पिण्डमात्रोपजीविनीं

Verse 43

ज्यायसा दूषिता नारी मुण्डनं समवाप्नुयात् वैश्यागमे तु विप्रस्य क्षत्रियस्यान्त्यजागमे

若女子因与社会等级更高之男子交合而受污,应行剃发之仪以作忏悔之标志。同样,婆罗门若与吠舍女子交合,刹帝利若与安底耶阇(贱民、出种姓者)女子交合,亦规定须剃发。

Verse 44

क्षत्रियः प्रथमं वैश्यो दण्ड्यः शूद्रागमे भवेत् गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति

刹帝利或吠舍若首次亲近首陀罗女子,应受惩罚。同样,娼伎既已受取酬金,却因贪欲而转往他处者,亦当治罪。

Verse 45

वेतनन्द्विगुणं दद्याद्दण्दञ्च द्विगुणं तथा भार्या पुत्राश् च दासाश् च शिष्यो भ्राता च सोदरः

当付工钱加倍,罚金亦当加倍;(此则视情而定)亦可推及妻子、诸子、仆役、弟子,以及同母所生之兄弟。

Verse 46

कृटापराधास्ताड्याः सूरज्वा वेणुदलेन वा पृष्ठे न मस्तके हन्याच्चौरस्याप्नोति किल्विषं

犯轻罪者,当以皮带/鞭或劈竹责打;应击其背,不可击其首。若违此法而击盗者,实招罪业。

Verse 47

रक्षास्वधिकृतैयस्तु प्रजात्यर्थं विलुप्यते तेषां सर्वस्वमादाय राजा कुर्यात् प्रवासनं

若受命掌护卫之权者(守卫或官吏)为一己之利而掠夺百姓,则国王应没收其全部财产,并施以流放之刑。

Verse 48

ये नियुक्ताः स्वकार्येषु हन्युः कार्याणि कर्मिणां निर्घृणाः क्रूरमनसस्तान्निःस्वान् कारयेन्नृपः

凡官吏虽受任于本职,却心性残酷、毫无悲悯,阻挠劳作之民的事务者——国王当夺其财与位,使之陷于贫困。

Verse 49

अमात्यः प्राड्विवाको वा यः कुर्यात् कार्यमन्यथा तस्य सर्वस्वमादाय तं राजा विप्रवासयेत्

若大臣或首席法官办理事务乖僻失当,国王当没收其全部财产,并将其逐出国境。

Verse 50

गुरुतल्पे भयः कार्यः सुरापाणे सुराध्वजः स्तेयेषु श्वपदं विद्याद् ब्रह्महत्याशिरः पुमान्

犯师床之罪(gurutaḷpa),其标记当知为“恐惧”;饮酒之罪,其标记为“酒旗”;盗窃之罪,其标记当知为“猛兽”;而杀婆罗门者,则为以“梵杀(Brahma-hatyā)之首”为徽记之人。

Verse 51

शूद्रादीन् घातयेद्राजा पापान् विप्रान् प्रवासयेत् महापातकिनां वित्तं वरुणायोपपादयेत्

国王当处死犯下重罪的首陀罗等非婆罗门诸阶层之人;有罪的婆罗门则当流放。凡犯大罪(mahāpātaka)者之财,应奉献为供物以献于伐楼那(Varuṇa)。

Verse 52

ग्रामेष्वपि च ये केचिच्चौराणां भक्तदायकाः भाण्डारकोषदाश् चैव सर्वांस्तानपि घातयेत्

即便在乡村,凡供养盗贼者,以及掠夺仓库与国库者——国王亦当将其尽数处死。

Verse 53

राष्ट्रेषु राष्ट्राधिकृतान् सामन्तान् पापिनो हरेत् सन्धिं कृत्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः

In the kingdoms, the king should seize and remove the wicked feudatories and provincial officers. And those robbers who, after making a pact (with others), commit theft at night—(they too) should be apprehended.

Verse 54

तेषां च्छित्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् तडागदेवतागारभेदकान् घातयेन्नृपः

Having cut off their hands, the king should impale them on a sharp stake; the king should put to death those who break into (or damage) tanks/reservoirs and the houses/temples of deities.

Verse 55

समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि स हि कार्षापणन्दण्ड्यस्तममेध्यञ्च शोधयेत्

Whoever, without emergency, discharges filth on the king’s highway—he is to be fined one kārṣāpaṇa, and he must also have that filth cleaned away.

Verse 56

प्रतिमासङ्क्रमभिदो दद्युः पञ्चशतानि ते समैश् च विषमं यो वा चरते मूल्यतो ऽपि वा

Those who violate the monthly transfer/rotation regulations shall pay a fine of five hundred (pañcaśatāni). Likewise, whoever conducts dealings in an irregular (unfair) manner with equals—or even by manipulating the stated price/value—shall (also) be penalized.

Verse 57

समाप्नुयान्नरः पूर्वं दमं मध्यममेव वा द्रव्यमादाय वणिजामनर्घेणावरुन्धतां

A man should first obtain the earlier (agreed) price, or else the middle (fair) price; having taken the goods, he should not bind (i.e., hold up or coerce) the merchants by demanding an excessive (unfair) price.

Verse 58

राजा पृथक् पृथक् कुर्याद्दण्डमुत्तमसाहसं द्रव्याणां दूषको यश् च प्रतिच्छन्दकविक्रयी

The king shall, in each case separately, impose the penalty of the highest grade of sāhasa on one who adulterates goods, and also on one who sells counterfeit (goods).

Verse 59

मध्यमं प्राप्नुयाद्दण्डं कूटकर्ता तथोत्तमं कलहापकृतं देयं दण्डश् च द्विगुणस्ततः

A forger (one who fabricates a false document/evidence) should receive the middle-grade punishment; likewise, the instigator of a quarrel should receive the highest punishment. For the harm done by provoking a quarrel, compensation must be paid, and thereafter the fine is to be doubled.

Verse 60

अभक्ष्यभक्ष्ये विप्रे वा शूद्रे वा कृष्णलो दमः तुलाशासनकर्ता च कूटकृन्नाशकस्य च

For a brāhmaṇa or a śūdra who eats what is forbidden as food, the fine is one kṛṣṇala. Likewise, for one who makes (or manipulates) a weighing-scale or a measuring-rod, and for one who destroys (the evidence against) a forger, the penalty is the same.

Verse 61

एभिश् च व्यवहर्ता यः स दाप्यो दममुत्तमं विषाग्निदां पतिगुरुविप्रापत्यप्रमापिणीं

And whoever engages in dealings (or litigation) connected with these persons—such a man shall be made to pay the highest fine: namely, one who administers poison or fire, and one who kills a husband, a teacher, a Brāhmaṇa, or a child.

Verse 62

विकर्णकरनासौष्ठी कृत्वा गोभिः प्रवासयेत् क्षेत्रवेश्मग्रामवनविदारकास् तथा नराः

Having inflicted the mutilations of a split ear, a cut ear, and (the cutting of) the nose and lip, he should banish—along with their cattle—those men who devastate fields, houses, villages, and forests.

Verse 63

राजपत्न्यभिगामी च दग्धव्यास्तु कटाग्निना ऊनं वाप्यधिकं वापि लिखेद्यो राजशासनं

One who has intercourse with the king’s wife should be burned with a fierce fire; likewise, whoever writes (issues/records) a royal decree with anything omitted or added (i.e., altered from the king’s intent) is culpable.

Verse 64

पारजायिकचौरौ च मुञ्चतो दण्ड उत्तमः राजयानासनारोढुर्दण्ड उत्तमसाहसः

For one who releases (sets free) an adulterer and a thief, the highest penalty is prescribed. For one who mounts the royal conveyance or seat, the penalty is the highest sāhasa-fine (i.e., the gravest class of punitive fine).

Verse 65

यो मन्येताजितो ऽस्मीति न्यायेनापि पराजितः तमायान्तं पराजित्य दण्डयेद् द्विगुणं दमं

If someone, though defeated even by due process of law, imagines, “I am not defeated,” then when he returns (to renew the dispute), having subdued him again, one should punish him with a fine twice as great.

Verse 66

आह्वानकारी बध्यः स्यादनाहूतमथाह्वयन् दाण्डिकस्य च यो हस्तादभिमुक्तः पलायते

One who issues a summons (without authority) should be confined; and likewise, one who summons a person who has not been summoned (i.e., improperly calls another). Also, whoever, having been released from the hand/custody of the officer of punishment (the constable/executioner), runs away—[is liable to punishment].

Verse 67

हीनः पुरुषकारेण तद् दद्याद्दाण्डिको धनं

If a person is deficient in personal effort (i.e., lacks the means or capacity to make restitution through his own labor), then the one liable to punishment shall pay that amount in money as a fine/compensation.

Frequently Asked Questions

It standardizes the metrics for legal penalties by defining weight/coin units (kṛṣṇala, suvarṇa, niṣka, dharaṇa, kārṣāpaṇa/paṇa) and then uses these to compute graded fines such as the three levels of sāhasa.

By treating justice, truthful speech, and proportionate punishment as dharmic acts: the king’s restraint, accuracy in measure, and suppression of corruption are framed as moral disciplines that protect society and uphold ṛta-like order.