
मत्स्यावतारवर्णनम् (The Description of the Matsya Incarnation)
第二章开启阿伐多罗戏(avatāra-līlā)序列:婆悉吒(Vasiṣṭha)请求一段连贯的叙述,说明毗湿奴(Viṣṇu)诸次降世如何成为宇宙创生与护持的因。火神阿耆尼(Agni)答曰,阿伐多罗之旨在于伦理层面:诛灭恶人,护佑善者。故事置于前一劫末的因缘毁灭(naimittika pralaya)之时,诸世界为海水所淹。毗婆斯伐多摩奴(Manu Vaivasvata)在克利塔玛拉河(Kṛtamālā)岸修苦行并行洒水供养,遇一小鱼哀求庇护。摩奴先后将其置于罐、湖与大海,小鱼神变增长至宇宙之量,显现为那罗延那(Nārāyaṇa)。摩蹉(Matsya)教摩奴备舟,收集种子与必需之物,与七圣仙同度梵天之夜,并以大蛇将舟系于摩蹉之角。篇末以护持吠陀并引出后续化身(龟化身Kūrma、野猪化身Varāha)作结,凸显“守护启示”乃阿伐多罗的核心功能。
Verse 1
इत्य् आदिमहापुराणे आग्नेये प्रश्नो नाम प्रथमोध्यायः अथ द्वितीयो ऽध्यायः मत्स्यावतारवर्णनं वशिष्ठ उवाच मत्स्यादिरूपिणं विष्णुं ब्रूहि सर्गादिकारणम् पुराणं ब्रह्म चाग्नेयं यथा विष्णोः पुरा श्रुतम्
如是,在《阿耆尼往世书》(Āgneya/Agni Purāṇa)——隶属原初大往世书——第一章名为“问”。今起第二章:“鱼化身(Matsya)之描述”。婆悉吒(Vasiṣṭha)曰:“请宣说毗湿奴(Viṣṇu)示现为鱼等诸化身,乃至创生等之因;并请如昔从毗湿奴所闻,宣说《阿耆尼往世书》这部神圣的梵之教诲。”
Verse 2
अग्निर् उवाच मत्स्यावतारं वक्ष्ये ऽहं वसिष्ठ शृणु वै हरेः अवतारक्रिया दुष्ट- नष्ट्यै सत्पालनाय हि
阿耆尼(Agni)曰:“婆悉吒啊,汝当谛听。我将宣说哈利(Hari)之鱼化身(Matsya)。诚然,神圣降世(avatāra)之行,为灭恶而护善。”
Verse 3
आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः समुद्रोपप्लुतास्तत्र लोका भूरादिका मुने
在前一劫的终末,噢牟尼,发生了梵天式的间歇性毁灭(naimittika pralaya);在那里,自Bhū(地界)起的诸世界皆为大海所淹没。
Verse 4
मनुर्वैवस्वतस्तेपे तपो वै भुक्तिमुक्तये एकदा कृतमालायां कुर्वतो जलतर्पणं
摩奴·毗婆斯伐多为求得世间享受与解脱而修苦行。一次,在克利塔玛拉河岸边,当他正在行水供(tarpaṇa)之时,
Verse 5
तस्याञ्जल्युदके मत्स्यः स्वल्प एको ऽभ्यपद्यत क्षेप्तुकामं जले प्राह न मां क्षिप नरोत्तम
在他合掌捧起的水中,有一条极小的鱼独自游来。正当他要把它抛回水里时,它开口说道:“噢人中至善者,莫将我弃掷。”
Verse 6
ब्रह्मावगम्यते इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः अगोत्रचरणं परमिति ग, चिह्नितपुस्तकपाठः न मां क्षिप नृपोत्तम इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः प्>ग्राहादिभ्यो भयं मे ऽद्य तच् छ्रुत्वा कलशे ऽक्षिपत् स तु वृद्धः पुनर्मत्स्यः प्राह तं देहि मे वृहत्
“(异读:)‘应当理解为梵(Brahman)’——三部标记抄本(kha, ga, gha)如此读。‘至上者超越族姓与吠陀支派’——标记抄本(ga)如此读。‘勿弃我,噢诸王之最胜者’——三部抄本(kha, ga, gha)如此读。‘今日我惧鳄鱼等类。’听罢,他将其置于水罐之中。随后鱼又长大,便说:‘请给我更大的容器。’”
Verse 7
स्थानमेतद्वचः श्रुत्वा राजाथोदञ्चने ऽक्षिपत् तत्र वृद्धो ऽब्रवीद्भूपं पृथु देहि पदं मनो
听了这些话,国王便将心志转向北方。于是有一位长者对王说道:“噢普利图(Pṛthu),当安住其心于你应得的立足之位。”
Verse 8
सरोवरे पुनः क्षिप्तो ववृधे तत्प्रमाणवान् ऊचे देहि वृहत् स्थानं प्राक्षिपच्चाम्बुधौ ततः
当他再次被投入湖中时,便增长到先前那般尺度。随后他说:“赐我广大之处。”于是又被投进大海。
Verse 9
लक्षयोजनविस्तीर्णः क्षणमात्रेण सो ऽभवत् मत्स्यं तमद्भुतं दृष्ट्वा विस्मितः प्राब्रवीन् मनुः
顷刻之间,它便扩展到十万由旬之广。摩奴见此奇妙之鱼,惊异之下开口说道。
Verse 10
को भवान् ननु वै विष्णुर् नारायण नमोस्तुते मायया मोहयसि मां किमर्थं त्वं जनार्दन
你究竟是谁?你必是毗湿奴——那罗延;我向你顶礼。为何以你的幻力(māyā)使我迷惑,哦阇那尔达那?
Verse 11
मनुनोक्तो ऽब्रवीन्मत्स्यो मनुं वै पालने रतम् अवतीर्णो भवायास्य जगतो दुष्टनष्टये
摩奴如此发问后,鱼(摩蹉,Matsya)对一心护持的摩奴说道:“我为此世界之安泰而降临,为毁灭恶人而来。”
Verse 12
सप्तमे दिवसे त्वब्धिः प्लावयिष्यति वै जगत् उपस्थितायां नावि त्वं वीजादीनि विधाय च
到第七日,大海必将淹没世界。待船只到来之时,你也应将种子等诸般必需之物安置于船中。
Verse 13
सप्तर्षिभिः परिवृतो निशां ब्राह्मीं चरिष्यसि उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना
在七圣仙(七仙人)环绕之中,你将度过梵天之夜。待我现前之时,以大蛇将(舟)系缚于我之角上。
Verse 14
इत्युक्त्वान्तर्दधे मत्स्यो मनुः कालप्रतीक्षकः स्थितः समुद्र उद्वेले नावमारुरुहे तदा
说罢,鱼(摩蹉,Matsya)便隐没不见。摩奴等待既定之时,仍立于彼处;及至大海泛滥涌起,他便登上舟船。
Verse 15
एकशृङ्गधरो मत्स्यो हैमो नियुतयोजनः हौ मनुरिति ख, घ, चिह्नितपुस्तकद्वयपाठः ननु विष्णुस्त्वमिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः इत्य् उक्तान्तर्हितो मत्स्य इति घ, चिह्नितपुस्तकपाठः इत्य् उक्त्वा देवमत्स्यात्मा बृहत्कारणसङ्गत इति ग, चिह्नितपुस्तकपाठः नावम्बबन्ध तच्छृङ्गे मत्स्याख्यं च पुराणकम्
那鱼(摩蹉,Matsya)金色辉耀,独角在额,身量延展至一万由旬,遂现其形。对摩奴如是言毕,具神性之鱼——其形即神(毗湿奴),并与大因之理相应——令舟船系缚于其角;由此传出所谓“摩蹉”之《往世书》事迹。
Verse 16
शुश्राव मत्स्यात्पापघ्नं संस्तुवन् स्तुतिभिश् च तं ब्रह्मवेदप्रहर्तारं हयग्रीवञ्च दानवं
他一边以颂词赞叹摩蹉——灭罪者——一边从其处听闻:达那婆海耶格利瓦夺取梵天诸吠陀之事。
Verse 17
अवधीत्, वेदमत्स्याद्यान् पालयामास केशवः प्राप्ते कल्पे ऽथ वाराहे कूर्मरूपो ऽभवद्धरिः
凯舍瓦自鱼(化身)之始护持诸吠陀。其后,及至野猪劫(Varāha-kalpa)来临,哈利化现为龟(库尔摩)之形。
Agni defines avatāra-kriyā as twofold: dūṣṭa-nāśa (destruction of the wicked) and sat-pālana (protection of the virtuous), framing incarnation as ethical preservation of cosmic and social order.
Matsya’s guidance ensures continuity through pralaya by saving Manu, the Saptarṣis, and the seeds of life, while the narrative explicitly links Matsya to the safeguarding and recovery of the Vedas (including the Hayagrīva motif), making revelation-protection the avatāra’s core function.