Amritnada
भूमिभागे समे रम्ये सर्वदोषविवर्जिते ।
कृत्वा मनोमयीं रक्षां जप्त्वा चैवाथ मण्डले ॥
पद्मकं स्वस्तिकं वापि भद्रासनमथापि वा ।
बद्ध्वा योगासनं सम्यगुत्तराभिमुखः स्थितः ॥
नासिकापुटमङ्गुल्या पिधायैकेन मारुतम् ।
आकृष्य धारयेदग्निं शब्दमेवाभिचिन्तयेत् ॥१८–२०॥
भूमि-भागे । समे । रम्ये । सर्व-दोष-विवर्जिते ।
कृत्वा । मनः-मयीम् । रक्षाम् । जप्त्वा । च । एव । अथ । मण्डले ।
पद्मकम् । स्वस्तिकम् । वा । अपि । भद्र-आसनम् । अथ । अपि । वा ।
बद्ध्वा । योग-आसनम् । सम्यक् । उत्तर-अभिमुखः । स्थितः ।
नासिका-पुटम् । अङ्गुल्या । पिधाय । एकेन । मारुतम् ।
आकृष्य । धारयेत् । अग्निम् । शब्दम् । एव । अभिचिन्तयेत् ।
bhūmibhāge same ramye sarvadoṣavivarjite |
kṛtvā manomayīṃ rakṣāṃ japtvā caivātha maṇḍale ||
padmakaṃ svastikaṃ vāpi bhadrāsanam athāpi vā |
baddhvā yogāsanaṃ samyag uttarābhimukhaḥ sthitaḥ ||
nāsikāpuṭam aṅgulyā pidhāyaikena mārutam |
ākṛṣya dhārayed agniṃ śabdam evābhicintayet ||18–20||
Trên nền đất bằng phẳng, dễ chịu, không lỗi lầm, sau khi lập hộ trì bằng tâm và trì tụng japa trong maṇḍala, hãy ngồi đúng pháp trong padmaka, svastika hoặc bhadrāsana, hướng về phương bắc. Bịt một lỗ mũi bằng ngón tay, hít khí vào, giữ lửa nội tại, và chỉ quán âm thanh mà thôi.
On a level, pleasant piece of ground free from all defects, having made a mental protection and having performed japa in a maṇḍala, one should properly assume padmaka, svastika, or bhadrāsana, facing north. Closing one nostril with a finger, one should draw in the breath, retain the inner fire, and contemplate sound alone.