Sukta 10.87
पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु तृष्टाः । वाचास्तेनं शरव ऋच्छन्तु मर्मन्विश्वस्यैतु प्रसितिं यातुधानः ॥
परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णन्तु प्र॒त्यगे॑नं श॒पथा॑ यन्तु तृ॒ष्टाः । वा॒चास्ते॑नं॒ शर॑व ऋच्छन्तु॒ मर्म॒न्विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धान॑: ॥
párādyá devā́ vṛjináṃ śṛṇantu prátyág enaṃ śápathā yantu tṛṣṭā́ḥ | vācā́stenaṃ śárava ṛ́cchantu márman víśvasyaitu prásitiṃ yātudhā́naḥ ||
Hôm nay, nguyện các thần xua tan điều ác quanh co; nguyện những lời nguyền đã mài sắc quay trở lại kẻ ấy. Nguyện các mũi tên của lời nói đánh trúng kẻ trộm Lời Thiêng (vāc) nơi các khớp mạch sinh tử; nguyện yātudhāna (yātudhāna) sa vào chiếc bẫy phổ quát—lưới của luật vũ trụ.
परा॑ । अ॒द्य । दे॒वाः । वृ॒जि॒नम् । शृ॒ण॒न्तु॒ । प्र॒त्यक् । ए॒न॒म् । श॒पथाः॑ । य॒न्तु॒ । तृ॒ष्टाः । वा॒चाऽस्ते॑नम् । शर॑वः । ऋ॒च्छ॒न्तु॒ । मर्म॑न् । विश्व॑स्य । ए॒तु॒ । प्रऽसि॑तिम् । या॒तु॒ऽधानः॑ ॥परा । अद्य । देवाः । वृजिनम् । शृणन्तु । प्रत्यक् । एनम् । शपथाः । यन्तु । तृष्टाः । वाचास्तेनम् । शरवः । ऋच्छन्तु । मर्मन् । विश्वस्य । एतु । प्रसितिम् । यातुधानः ॥parā | adya | devāḥ | vṛjinam | śṛṇantu | pratyak | enam | śapathāḥ | yantu | tṛṣṭāḥ | vācāstenam | śaravaḥ | ṛcchantu | marman | viśvasya | etu | pra-sitim | yātu-dhānaḥ