Sukta 10.185
महि त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः । दुराधर्षं वरुणस्य ॥
महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः । दु॒रा॒धर्षं॒ वरु॑णस्य ॥
máhi trīṇām ávo ’stu dyukṣáṃ mitrásyā́ryamṇaḥ | durādhárṣaṃ váruṇasya ||
Nguyện sự chở che rộng lớn của “Ba Đấng” thuộc về chúng con: sức mạnh rực sáng của Mitra và Aryaman, và uy lực bất khả khuất phục của Varuṇa.
महि॑ । त्री॒णाम् । अवः॑ । अ॒स्तु॒ । द्यु॒क्षम् । मि॒त्रस्य॑ । अ॒र्य॒म्णः । दुः॒ऽआ॒धर्ष॑म् । वरु॑णस्य ॥महि । त्रीणाम् । अवः । अस्तु । द्युक्षम् । मित्रस्य । अर्यम्णः । दुःआधर्षम् । वरुणस्य ॥mahi | trīṇām | avaḥ | astu | dyukṣam | mitrasya | aryamṇaḥ | duḥ-ādharṣam | varuṇasya