Sukta 10.165
देवाः कपोत इषितो यदिच्छन्दूतो निॠत्या इदमाजगाम । तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥
देवा॑: क॒पोत॑ इषि॒तो यदि॒च्छन्दू॒तो निॠ॑त्या इ॒दमा॑ज॒गाम॑ । तस्मा॑ अर्चाम कृ॒णवा॑म॒ निष्कृ॑तिं॒ शं नो॑ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ॥
devā́ḥ kapotá iṣitó yád icchán dūtó nírṛtyā́ idám ā́jagāma | tásmai arcāma kṛṇávāma níṣkṛtiṃ śáṃ no astu dvípade śáṃ catúṣpade ||
Hỡi các Deva, nếu chim bồ câu này, bị thúc giục và tìm kiếm, đã đến đây như sứ giả của Nirr̥ti (quyền lực của tan rã và tai ương), thì đối với sự sai phái (u tối) ấy, chúng con xin dâng lời tụng ca và thực hiện sự giải thoát. Nguyện bình an cho loài hai chân, bình an cho loài bốn chân.
देवाः॑ । क॒पोतः॑ । इ॒षि॒तः । यत् । इ॒च्छन् । दू॒तः । निःऽऋ॑त्याः । इ॒दम् । आ॒ऽज॒गाम॑ । तस्मै॑ । अ॒र्चा॒म॒ । कृ॒णवा॑म । निःऽकृ॑तिम् । शम् । नः॒ । अ॒स्तु॒ । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥देवाः । कपोतः । इषितः । यत् । इच्छन् । दूतः । निःऋत्याः । इदम् । आजगाम । तस्मै । अर्चाम । कृणवाम । निःकृतिम् । शम् । नः । अस्तु । द्विपदे । शम् । चतुःपदे ॥devāḥ | kapotaḥ | iṣitaḥ | yat | icchan | dūtaḥ | niḥ-ṛtyāḥ | idam | ājagāma | tasmai | arcāma | kṛṇavāma | niḥ-kṛtim | śam | naḥ | astu | dvi-pade | śam | catuḥ-pade