Sukta 10.132
युवं ह्यप्नराजावसीदतं तिष्ठद्रथं न धूर्षदं वनर्षदम् । ता नः कणूकयन्तीर्नृमेधस्तत्रे अंहसः सुमेधस्तत्रे अंहसः ॥
यु॒वं ह्य॑प्न॒राजा॒वसी॑दतं॒ तिष्ठ॒द्रथं॒ न धू॒र्षदं॑ वन॒र्षद॑म् । ता न॑: कणूक॒यन्ती॑र्नृ॒मेध॑स्तत्रे॒ अंह॑सः सु॒मेध॑स्तत्रे॒ अंह॑सः ॥
yuváṃ hy apna-rā́jāv ásīdataṃ tíṣṭhad ráthaṃ ná dhū́rṣadaṃ vana-rṣádam | tā́ naḥ kaṇūka-yántīr nṛ-médhas tatré áṃhasaḥ su-médhas tatré áṃhasaḥ ||
Hai Ngài quả thật là những bậc vương của sự thành tựu; hai Ngài an tọa như cỗ chiến xa đứng vững, khó bị công phá, băng qua khu rừng của hữu thể. Nguyện những trợ lực tiến bước của hai Ngài đưa chúng con vượt qua: Nṛmedha đã vượt khỏi khổ ách; Sumedha cũng đã vượt khỏi khổ ách.
यु॒वम् । हि । अ॒प्न॒ऽराजौ॑ । असी॑दतम् । तिष्ठ॑त् । रथ॑म् । न । धूः॒ऽसद॑म् । व॒न॒ऽसद॑म् । ताः । नः॒ । क॒णू॒क॒ऽयन्तीः॑ । नृ॒ऽमेधः॑ । त॒त्रे॒ । अंह॑सः । सु॒ऽमेधः॑ । त॒त्रे॒ । अंह॑सः ॥युवम् । हि । अप्नराजौ । असीदतम् । तिष्ठत् । रथम् । न । धूःसदम् । वनसदम् । ताः । नः । कणूकयन्तीः । नृमेधः । तत्रे । अंहसः । सुमेधः । तत्रे । अंहसः ॥yuvam | hi | apna-rājau | asīdatam | tiṣṭhat | ratham | na | dhūḥ-sadam | vana-sadam | tāḥ | naḥ | kaṇūka-yantīḥ | nṛ-medhaḥ | tatre | aṃhasaḥ | su-medhaḥ | tatre | aṃhasaḥ