Sukta 1.187
पितुं नु स्तोषं महो धर्माणं तविषीम् । यस्य त्रितो व्योजसा वृत्रं विपर्वमर्दयत् ॥
पि॒तुं नु स्तो॑षं म॒हो ध॒र्माणं॒ तवि॑षीम् । यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप॑र्वम॒र्दय॑त् ॥
pitúṃ nu stoṣaṃ mahó dharmā́ṇaṃ táviṣīm | yásya tritó vyòjasā vṛtráṃ víparvam árdayat ||
Giờ đây ta sẽ ca ngợi Đấng hùng mạnh—đấng nâng đỡ Đại Pháp (dharma), chính là sức lực của uy lực; nhờ sức mạnh rộng lớn của Ngài, Trita đã nghiền nát Vṛtra, từng khớp từng đốt.
पि॒तुम् । नु । स्तो॒ष॒म् । म॒हः । ध॒र्माण॑म् । तवि॑षीम् । यस्य॑ । त्रि॒तः । वि । ओज॑सा । वृ॒त्रम् । विऽप॑र्वम् । अ॒र्दय॑त् ॥पितुम् । नु । स्तोषम् । महः । धर्माणम् । तविषीम् । यस्य । त्रितः । वि । ओजसा । वृत्रम् । विपर्वम् । अर्दयत् ॥pitum | nu | stoṣam | mahaḥ | dharmāṇam | taviṣīm | yasya | tritaḥ | vi | ojasā | vṛtram | vi-parvam | ardayat