Sukta 1.127
विश्वासां त्वा विशां पतिं हवामहे सर्वासां समानं दम्पतिं भुजे सत्यगिर्वाहसं भुजे । अतिथिं मानुषाणां पितुर्न यस्यासया । अमी च विश्वे अमृतास आ वयो हव्या देवेष्वा वयः ॥
विश्वा॑सां त्वा वि॒शां पतिं॑ हवामहे॒ सर्वा॑सां समा॒नं दम्प॑तिं भु॒जे स॒त्यगि॑र्वाहसं भु॒जे । अति॑थिं॒ मानु॑षाणां पि॒तुर्न यस्या॑स॒या । अ॒मी च॒ विश्वे॑ अ॒मृता॑स॒ आ वयो॑ ह॒व्या दे॒वेष्वा वय॑: ॥
víśvāsāṃ tvā viśā́ṃ pátiṃ havāmahe sárvāsāṃ samānáṃ dám-patiṃ bhujé satyá-girvāhasaṃ bhujé | átithiṃ mā́nuṣāṇāṃ pitúr ná yásyā́sayā | amī́ ca víśve amṛ́tāsa ā́ váyo havyā́ devéṣv ā́ váyaḥ ||
Chúng con khẩn thỉnh Ngài—chủ tể của mọi bộ tộc, gia chủ chung của tất cả (dampati)—để được hưởng sự hiện diện nâng đỡ của Ngài, được hưởng Đấng chân thật mang lời thiêng. Ngài là vị khách của loài người, như người cha ở gần, ngồi cùng chúng con. Và xin các bậc bất tử—tất cả họ—mang lễ vật đến với chư thần; xin mang lễ vật đến.
विश्वा॑साम् । त्वा॒ । वि॒शाम् । पति॑म् । ह॒वा॒म॒हे॒ । सर्वा॑साम् । स॒मा॒नम् । दम्ऽप॑तिम् । भु॒जे । स॒त्यऽगि॑र्वाहसम् । भु॒जे । अति॑थिम् । मानु॑षाणाम् । पि॒तुः । न । यस्य॑ । आ॒स॒या । अ॒मी इति॑ । च॒ । विश्वे॑ । अ॒मृता॑सः । आ । वयः॑ । ह॒व्या । दे॒वेषु॑ । आ । वयः॑ ॥विश्वासाम् । त्वा । विशाम् । पतिम् । हवामहे । सर्वासाम् । समानम् । दम्पतिम् । भुजे । सत्यगिर्वाहसम् । भुजे । अतिथिम् । मानुषाणाम् । पितुः । न । यस्य । आसया । अमी इति । च । विश्वे । अमृतासः । आ । वयः । हव्या । देवेषु । आ । वयः ॥viśvāsām | tvā | viśām | patim | havāmahe | sarvāsām | samānam | dam-patim | bhuje | satya-girvāhasam | bhuje | atithim | mānuṣāṇām | pituḥ | na | yasya | āsayā | amī iti | ca | viśve | amṛtāsaḥ | ā | vayaḥ | havyā | deveṣu | ā | vayaḥ