Aitreya
एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्चमहाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानि । इमानि च क्षुद्रमिश्राणीव । बीजान्यितराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरं सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म ॥३॥
एषः । ब्रह्म । एषः । इन्द्रः । एषः । प्रजापतिः । एते । सर्वे । देवाः । इमानि । च । पञ्च । महा-भूतानि । पृथिवी । वायुः । आकाशः । आपः । ज्योतींषि । इति । एतानि । इमानि । च । क्षुद्र-मिश्राणि-इव । बीजानि । इतराणि । च । इतराणि । च । अण्ड-जानि । च । जारु-जानि । च । स्वेद-जानि । च । उद्भिज्जानि । च । अश्वाः । गावः । पुरुषाः । हस्तिनः । यत्-किञ्चित् । इदम् । प्राणि । जङ्गमम् । च । पतत्रि । च । यत् । च । स्थावरम् । सर्वम् । तत् । प्रज्ञा-नेत्रम् । प्रज्ञाने । प्रतिष्ठितम् । प्रज्ञा-नेत्रः । लोकः । प्रज्ञा । प्रतिष्ठा । प्रज्ञानम् । ब्रह्म ॥३॥
eṣa brahma eṣa indra eṣa prajāpatiḥ ete sarve devā imāni ca pañca-mahā-bhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etāni | imāni ca kṣudra-miśrāṇīva | bījāny itarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedaṃ prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaraṃ sarvaṃ tat prajñā-netraṃ prajñāne pratiṣṭhitaṃ prajñā-netro lokaḥ prajñā pratiṣṭhā prajñānaṃ brahma ||3||
یہی برہمن ہے، یہی اندر ہے، یہی پرجاپتی ہے؛ یہی سب دیوتا ہیں؛ اور یہی پانچ مہابھوت—زمین، ہوا، آکاش، پانی اور نور—یہی ہیں۔ اور یہ گویا چھوٹی ملی جلی صورتیں ہیں: بیج اور ان کی قسمیں؛ انڈے سے پیدا ہونے والے، رحم سے پیدا ہونے والے، پسینے سے پیدا ہونے والے، اور اگنے والے؛ گھوڑے، گائیں، انسان، ہاتھی—جو کچھ بھی جاندار ہے، چلنے والا اور اڑنے والا، اور جو ساکن ہے—سب کی آنکھ پرجنان ہے، سب پرجنان میں قائم ہیں۔ جگت کی آنکھ پرجنان ہے؛ پرجنا ہی بنیاد ہے؛ پرجنان ہی برہمن ہے۔۳
This is Brahman; this is Indra; this is Prajāpati; these are all the gods; and these are the five great elements—earth, air, space, waters, and lights—these. And these, as it were, are the small mixed things: seeds and the various kinds; the egg-born, the womb-born, the sweat-born, and the sprout-born; horses, cattle, men, elephants—whatever living thing there is, moving and flying, and whatever is stationary: all that has consciousness as its eye, is established in consciousness. The world has consciousness as its eye; consciousness is the foundation; consciousness is Brahman.