दे॒वस्या॒हᳪ स॑वि॒तुः स॒वे स॒त्यप्र॑सवसो॒ बृह॒स्पते॑र्वाज॒जितो॒ वाजं॑ जेषम् । वाजि॑नो वाजजि॒तोऽध्व॑न स्कभ्नु॒वन्तो॒ योज॑ना॒ मिमा॑ना॒: काष्ठां॑ गच्छत
devásyā́haṃ savitúḥ savé satyáprasavaso bṛ́haspáter vājajíto vā́jaṃ jeṣam | vā́jino vājajíto ’dhván skabhnuvánto yójanā mimānā́ḥ kā́ṣṭhāṃ gacchata |
Under the impulsion of the god Savitṛ, of true sending-forth, may I win the prize as a prize-winner of Bṛhaspati. Ye prize-winners, winning the prize, propping the course, measuring out the stages, go ye unto the goal!
दे॒वस्य॑ । अ॒हम् । स॒वि॒तुः । स॒वे । स॒त्य-प्र॑सवसः । बृह॒स्पतेः । वाज॑-जितः । वाज॑म् । जे॒ष॒म् ।
वाजि॑नः । वाज॑-जितः । अ॒ध्व॑नः । स्क॒भ्नु॒वन्तः । योज॑ना । मिमा॑नाः । काष्ठा॑म् । ग॒च्छ॒त॒ ।