विश्वे॑ दे॒वा अ॒ᳪशुषु॒ न्युप्तो॒ विष्णु॑राप्रीत॒पा आ॑प्या॒य्यमा॑नो य॒मः सू॒यमा॑ नो॒ विष्णु॑: सम्भ्रि॒यमा॑णो वा॒युः पू॒यमा॑नः शु॒क्रः पू॒तः शु॒क्र: क्षी॑र॒श्रीर्म॒न्थी स॑क्तु॒श्रीः
viśve devā́ aṃśúṣu nyúpto víṣṇur āprītapā́ āpyā́yyamāno yámaḥ sū́yamā no víṣṇuḥ sambhriyámāṇo vāyúḥ pū́yamānaḥ śukráḥ pū́taḥ śukráḥ kṣīraśrī́r manthī saktúśrī́ḥ
All the gods are deposited in the Soma-stalks; Viṣṇu is (there) as the satisfied drinker. As he is made to swell, (he is) Yama; as he is pressed for us, (he is) Viṣṇu; as he is gathered together, (he is) Vāyu; as he is purified, (he is) the bright one—purified, the bright one—milk-splendoured, the churning-drink, groats-splendoured.
विश्वे । देवाः । अंशुषु । नि-उप्तः । विष्णुः । आप्रीत-पाः । आप्याय्यमानः । यमः । सूयमानः । नः । विष्णुः । सम्भ्रियमाणः । वायुः । पूयमानः । शुक्रः । पूतः । शुक्रः । क्षीर-श्रीः । मन्थी । सक्तु-श्रीः