यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चित॑: । वि होत्रा॑ दधे वयुना॒विद् एक॒ इन् म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुति॒: स्वाहा॑ ॥
yuñjáte mána utá yuñjáte dhíyo víprā víprasya bṛható vipaścítaḥ | ví hótrā dadhé vayunāvíd éka ín mahī́ devásya savitúḥ paríṣṭutiḥ svā́hā ||
They yoke the mind, and they yoke the thoughts—the inspired priests of the inspired, the great, the wise. The one who knoweth the ordinances hath set the priestly functions in due order: great is the all-embracing praise of the god Savitṛ—hail!
युञ्जते । मनः । उत । युञ्जते । धियः । विप्राः । विप्रस्य । बृहतः । विपश्चितः । वि । होत्राः । दधे । वयुनावित् । एकः । इत् । मही । देवस्य । सवितुः । परिष्टुतिः । स्वाहा ।