यस्मि॒न्त्सर्वा॑णि भू॒तान्यात्मै॒वाभू॑द्विजान॒तः । तत्र॒ को मोह॒: कः शोक॑ एक॒त्वम॑नु॒पश्य॑तः
yásmin tsárvāṇi bhūtā́ny ātmā́ivā́bhūd vijānatáḥ | tátra kó móhaḥ káḥ śóka ekatvám anupáśyataḥ ||
In him, for the man of understanding, all beings have verily become the Self: what delusion, what grief can there be for him who thus beholds unity?
यस्मिन् । सर्वाणि । भूतानि । आत्मा । एव । अभूत् । विजानतः । तत्र । कः । मोहः । कः । शोकः । एकत्वम् । अनुपश्यतः ।