तदे॑जति॒ तन्नैज॑ति॒ तद्दू॒रे तद्व॑न्ति॒के । तद॒न्तर॑स्य॒ सर्व॑स्य॒ तदु॒ सर्व॑स्यास्य बाह्य॒तः
tád éjati tán naíjati tád dūré tád v antiké | tád antár asya sárvasya tád u sárvasyāsya bāhyatáḥ ||
It moveth; it moveth not. It is far, and it is near. It is within all this; and it is also without all this.
तत् । एजति । तत् । न । एजति । तत् । दूरे । तत् । अन्तिके । तत् । अन्तरस्य । सर्वस्य । तत् । उ । सर्वस्य । अस्य । बाह्यतः ।