अ॒न्यदे॒वाहुर्वि॒द्याया॑ अ॒न्यदा॑हु॒रवि॑द्यायाः । इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥
anyád evā́hur vidyā́yā anyád āhur avidyā́yāḥ | íti śuśruma dhīrā́ṇāṃ yé nas tád vicacakṣiré ||
One thing, indeed, they say, is obtained from Knowledge, and another, they say, from Ignorance. Thus have we heard from the wise who have clearly expounded this unto us.
अन्यत् । एव । आहुः । विद्यायाः । अन्यत् । आहुः । अविद्यायाः । इति । शुश्रुम । धीराणाम् । ये । नः । तत् । विचचक्षिरे ।