दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॒देऽदि॑त्यै॒ रास्ना॑ऽसि
devásya tvā savitúḥ prasavé ’śvinór bāhúbhyāṃ pūṣṇó hástābhyām | ā́ dade ’dítyai rā́snā asi
At the impulsion of the god Savitṛ, with the arms of the Aśvins, with the hands of Pūṣan, I take thee. For Aditi thou art a rein.
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॑स॒वे । अ॒श्विनोः॑ । बा॒हुभ्यां॑ । पू॒ष्णः । हस्ता॑भ्याम् । आ । द॒दे॒ । अदि॑त्यै । रास्ना॑ । अ॒सि॒