अ॒र्वाञ्चो॑ अ॒द्या भ॑वता यजत्रा॒ आ वो॒ हार्दि॒ भय॑मानो व्ययेयम् । त्राध्वं॑ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं॑ क॒र्ताद॑व॒पदो॑ यजत्राः
arvā́ñco adyá bhavata yajatrā́ ā́ vo hā́rdi bháyamāno vyayeyam | trā́dhvaṃ no devā nijúro vṛ́kasya trā́dhvaṃ kartā́d avapádo yajatrāḥ ||
Turn hither to-day, O adorable ones: in my heart, being afraid, would I find refuge with you. Deliver us, O gods, from the wolf’s stealth; deliver (us), O adorable ones, from the maker of the pitfall, from the downward step.
अर्वाञ्चः । अद्य । भवत । यजत्राः । आ । वः । हार्दि । भयमानः । व्ययेयम् । त्राध्वम् । नः । देवाः । निजुरः । वृकस्य । त्राध्वम् । कर्तात् । अवपदः । यजत्राः ।