तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑त॒ᳪ सं ज॑भार । य॒देदयु॑क्त ह॒रित॑: स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै॑
tát sū́ryasya devatváṃ tán mahitváṃ madhyā́ kartór vítataṃ sáṃ jabhāra | yád éd ayukta háritaḥ sadhásthād ā́d rā́trīr vā́sas tanute simásmai
That is the Sun’s godhead, that his majesty: in the midst of the worker he gathered up what was spread abroad; when he yoked the tawny steeds from their station, then Night, as a garment, is spread out for him.
तत् । सू॒र्य॑स्य । दे॒व॒त्वम् । तत् । म॒हि॒त्वम् । म॒ध्या । कर्तोः । वि-त॑तम् । सम् । ज॒भार । यत् । ए॒द् । अ॒यु॒क्त । ह॒रित॑ः । स॒ध-स्था॑त् । आत् । रा॒त्रीः । वासः । त॒नु॒ते । सि॒म् । अ॒स्मै॑