अव॑ रु॒द्रम॑दीम॒ह्यव॑ दे॒वं त्र्य॑म्बकम् । यथा॑ नो॒ वस्य॑स॒स्कर॒द्यथा॑ न॒: श्रेय॑स॒स्कर॒द्यथा॑ नो व्यवसा॒यया॑त्
áva rudrám adīmahy áva deváṃ tryàmbakam | yáthā no vásyasa-skarad yáthā naḥ śréyasa-skarad yáthā no vyavasāyáyāt
We appease Rudra; we appease the god Tryambaka; so that he may make for us what is more gracious, so that he may make for us what is more excellent, so that he may lead our undertaking to its due accomplishment.
अव॑ । रु॒द्रम् । अ॒दी॒म॒हि । अव॑ । दे॒वम् । त्र्य॑म्बकम् । यथा॑ । नः॒ । वस्य॑सः-करत् । यथा॑ । नः॒ । श्रेय॑सः-करत् । यथा॑ । नः॒ । व्य॒व॒सा॒यया॑त् ।