अ॒ग्नये॑ गाय॒त्राय॑ त्रि॒वृते॒ राथ॑न्तराया॒ष्टाक॑पाल॒ इन्द्रा॑य त्रैष्टु॑भाय पञ्चद॒शाय॒ बार्ह॑ता॒यैका॑दशकपालो॒ विश्वे॑भ्यो दे॒वेभ्यो॒ जाग॑तेभ्यः सप्तद॒शेभ्यो॑ वैरू॒पेभ्यो॒ द्वाद॑शकपालो मि॒त्रावरु॑णाभ्या॒मानु॑ष्टुभाभ्यामेकवि॒ᳪशाभ्यां॑ वैरा॒जाभ्यां॑ पय॒स्या बृह॒स्पत॑ये॒ पाङ्क्ता॑य त्रिण॒वाय॑ शाक्व॒राय॑ च॒रुः स॑वि॒त्र औष्णि॑हाय त्रयस्त्रि॒ᳪशाय॑ रैव॒ताय॒ द्वाद॑शकपालः प्राजाप॒त्यश्च॒रुरदि॑त्यै॒ विष्णु॑पत्न्यै च॒रुर॒ग्नये॑ वैश्वान॒राय॒ द्वाद॑शकपा॒लोऽनु॑मत्या अ॒ष्टाक॑पालः
agnáye gāyatrā́ya trivṛ́te rā́thantarāya’ṣṭā́kapālaḥ | índrāya traiṣṭúbhāya pañcadaśā́ya bā́rhatāyaikādaśakapālaḥ | víśvebhyo devébhyo jā́gatebhyaḥ saptadaśébhyo vairūpébhyo dvādaśakapālaḥ | mitrā́varuṇābhyām ánuṣṭubhābhyām ekaviṁśā́bhyāṁ vairājā́bhyāṁ payasyā́ bṛ́haspátaye pā́ṅktāya triṇavā́ya śā́kvarāya carúḥ | savitré’úṣṇihāya trayastriṁśā́ya raivatā́ya dvādaśakapālaḥ | prājāpatyáś carúr ádityai víṣṇupatnyai ca carúḥ | agnáye vaiśvānaráya dvādaśakapālo’numátyā aṣṭā́kapālaḥ
For Agni, as Gāyatra, with the Trivṛt (stoma), with the Rāthantara (sāman), a cake on eight potsherds. For Indra, as Trāiṣṭubha, with the Pañcadaśa, with the Bārhata, a cake on eleven potsherds. For the All-gods, as Jāgata, with the Saptadaśa, with the Vairūpa, a cake on twelve potsherds. For Mitra and Varuṇa, as Anuṣṭubh, with the Ekaviṃśa, with the Vairāja, a milk-mixed caru. For Bṛhaspati, as Pāṅkta, with the Triṇava, with the Śākvara, a caru. For Savitṛ, as Uṣṇih, with the Trayastriṃśa, with the Raivata, a cake on twelve potsherds. A Prājāpatya caru; for Aditi and for Viṣṇu’s Consort, a caru. For Agni Vaiśvānara, a cake on twelve potsherds; for Anumati, a cake on eight potsherds.
अ॒ग्नये॑ । गाय॒त्राय॑ । त्रि॒वृते॑ । राथ॑न्तराय । अ॒ष्टा-क॑पालः । इन्द्रा॑य । त्रैष्टु॑भाय । पञ्चद॒शाय॑ । बार्ह॑ताय । ए॒काद॑श-कपालः । विश्वे॑भ्यः । दे॒वेभ्यः॑ । जाग॑तेभ्यः । सप्तद॒शेभ्यः॑ । वैरू॒पेभ्यः॑ । द्वाद॑श-कपालः । मि॒त्रा-वरु॑णाभ्याम् । अनु॑ष्टुभाभ्याम् । एकवि॒ᳪशाभ्याम् । वैरा॒जाभ्याम् । पय॒स्या । बृह॒स्पत॑ये । पाङ्क्ता॑य । त्रिण॒वाय॑ । शाक्व॒राय॑ । च॒रुः । स॑वि॒त्रे । औष्णि॑हाय । त्रयस्त्रि॒ᳪशाय॑ । रैव॒ताय॑ । द्वाद॑श-कपालः । प्राजाप॒त्यः । च॒रुः । अदि॑त्यै । विष्णु॑पत्न्यै । च॒रुः । अ॒ग्नये॑ । वैश्वान॒राय॑ । द्वाद॑श-कपालः । अनु॑मत्या । अ॒ष्टा-क॑पालः ।