दे॒वा दैव्या॒ होता॑रा दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वौ दे॒वम॑वर्धताम् । त्रि॒ष्टुभा॒ छन्द॑सेन्द्रि॒यं त्विषि॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑
de·vā daivyā́ hotā́rā de·vám índraṁ vayo·dhásaṁ de·vāu de·vám avardhatām | triṣṭúbhā́ chándasendriyáṁ tvíṣim índre váyo dádhad vasu·váne vasu·dhéyasya vītā́ṁ yája
The Gods, the two divine Hotṛs, have strengthened the god Indra, the establisher of vigour. With the Triṣṭubh metre (they have strengthened) his Indra-might; placing in Indra brilliance and vigour, for the winning of goods, for the establishing of wealth—let them accept (the offering): do thou sacrifice!
दे॒वाः । दैव्या॑ । होता॑रौ । दे॒वम् । इन्द्र॑म् । वयः॒धस॑म् । दे॒वौ । दे॒वम् । अ॒व॒र्ध॒ता॒म् । त्रि॒ष्टुभा॑ । छन्द॑सा । इन्द्रि॒यम् । त्विषि॑म् । इन्द्रे॑ । वयः॒ । दध॑त् । वसु॒वने॑ । वसु॒धेय॑स्य । वी॒ता॒म् । यज॑