वै॒श्वा॒न॒रो न ऊ॒तय॒ आ प्र या॑तु परा॒वत॑: । अ॒ग्निरु॒क्थेन॒ वाह॑सा । उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा
vaiśvānaráḥ no ūtáye ā́ prá yātu parā́vataḥ | agnír ukthéna vā́hasā | upayā́magṛhīto ’si vaiśvānaráya tvā́iṣá te yónir vaiśvānaráya tvā
May Vaiśvānara come hither unto our aid, even from afar—Agni with hymn and with might. Taken with the Upayāma art thou: for Vaiśvānara thee! This is thy womb: for Vaiśvānara thee!
वै॒श्वा॒न॒रः । नः । ऊ॒तये॑ । आ । प्र । या॑तु । परा॒वत॑ः । अ॒ग्निः । उ॒क्थेन॑ । वाह॑सा । उ॒प॒या॒म-गृ॑हीतः । अ॑सि । वैश्वान॒राय॑ । त्वा । ए॒षः । ते॒ । योनि॑ः । वैश्वान॒राय॑ । त्वा