यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ । यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु
yád áśvasya kravíṣo mákṣikāś yád vā svárau svádhitau riptám ásti | yád dhástayoḥ śamítur yán nakhéṣu sárvā tā́ te ápi devéṣv astu ||
What flies attend the horse’s flesh, what splinters, what stain is on the axe, what is upon the slaughterer’s hands, what under his nails,—let all that, even that, be thine among the gods.
यत् । अश्वस्य । क्रविषः । मक्षिकाः । यत् । वा । स्वरौ । स्वधितौ । रिप्तम् । अस्ति । यत् । हस्तयोः । शमितुः । यत् । नखेषु । सर्वाः । ताः । ते । अपि । देवेषु । अस्तु