कः स्वि॑देका॒की च॑रति॒ क उ॑ स्विज्जायते॒ पुन॑ः । किᳪ स्वि॑द्धि॒मस्य॑ भेष॒जं किम्वा॒वप॑नं म॒हत्
káḥ svíd ekākī́ cárati ká u svíj jā́yate púnaḥ | kíṃ svíd dhím asya bheṣajáṃ kím vā́vápanaṃ mahát
Who, pray, goeth solitary on his way? who, indeed, is born again? What, pray, is the remedy for this cold? what, moreover, is the great sowing?
कः । स्वित् । ए॒का॒की । च॒र॒ति॒ । कः । उ॒ । स्वित् । जा॒य॒ते॒ । पुनः॑ । किम् । स्वित् । हि॒मस्य॑ । भे॒ष॒जम् । किम् । वा॒ । आ॒वप॑नम् । म॒हत्