अ॒श्विना॑ पिबतां॒ मधु॒ सर॑स्वत्या स॒जोष॑सा । इन्द्र॑ः सु॒त्रामा॑ वृत्र॒हा जु॒षन्ता॑ᳪ सो॒म्यं मधु॑ ॥
aśvínā pibatā́m mádhu sárasvatyā sajóṣasā | índraḥ sutrā́mā vr̥trahā́ juṣántāṃ sómyaṃ mádhu ||
Let the Aśvins drink the sweet draught, in concord with Sarasvatī; and let Indra, the good protector, the slayer of Vṛtra, take pleasure in the Soma-sweetness.
अश्विना । पिबताम् । मधु । सरस्वत्या । स-जो॒षसा । इन्द्रः । सु-त्रामा । वृत्र-हा । जुषन्ताम् । सोम्यम् । मधु ।