आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः । मा त्वा॒ के चि॒न्नि य॑म॒न् विं ना पा॒शिनोऽति॒ धन्वे॑व॒ ताँ२ इ॑हि
ā mandráir indra háribhir yā́hi mayū́raromabhiḥ | mā tvā́ ke cín ní yaman ví na pāśíno’ty áti dhánvā iva tā́ṃ̐ íhi ||
Come, O Indra, with thy gladdening tawny steeds, with harness bright as peacock-feathers. Let none restrain thee; pass beyond the noosers—over them go thou, as over a wide expanse, and come.
आ । मन्द्रैः । इन्द्र । हरिभिः । याहि । मयूररोमभिः । मा । त्वा । के । चित् । नि । यमन् । वि । न । पाशिनः । अति । धन्वा । इव । तान् । इहि ।